Showing posts with label सम्भाषणसन्देश: १९९५. Show all posts
Showing posts with label सम्भाषणसन्देश: १९९५. Show all posts

अप्रतिमं पाण्डित्यम्।

यवनाः अस्माकं देशे बहुकालं यावत् शासनं कृतवन्तः । तदा देहलीमध्ये अपि तेषाम् एव शासनम् आसीत् । देहलीनगरे शाहजहान: शासनं कुर्वन् आसीत् । तस्य आस्थाने कश्चित् धर्मगुरुः आसीत् । सः संस्कृतस्य अध्ययनं कृत्वा सर्वान् हिन्दूधर्मग्रन्थान् अधीतवान् आसीत् । सः सर्वदा स्वपरिवारेण सह देशे सर्वत्र सञ्चारं करोति स्म । तस्मिन् समये हिन्दुपण्डितैः सह वादं कृत्वा तान् जयति स्म ।

वादे ये पराजिताः भवन्ति तैः इस्लाममतम् अङ्गीकरणीयम् इति तस्य नियमः आसीत् । हिन्दु-पण्डिताः इस्लांमत-विषये किमपि न जानन्ति स्म । अतः ते पराजिताः भवन्ति स्म ।

क्रमशः तस्य आगमनविषये ज्ञात्वा पण्डिताः सर्वे स्वक्षेत्रतः अन्यत्र गमनम् आरब्धवन्तः । सर्वत्र भीति: प्रसृता । अत्रान्तरे काचित् वार्ता प्रसृता यत् दक्षिणभारते कश्चित् महान् मेधावी वाग्मी पण्डितः अस्ति इति। जयपुरस्य राजा यवनधर्मगुरुणा सह वादं कर्तुं तस्मै आह्वानं प्रेषितवान् । महाराजस्य आह्वानम् अङ्गीकृत्य सः राजस्थानं गतवान् ।

तत्र सः पाठशालायां पाठनमपि आरब्धवान् । एकस्मिन् दिने सः पाठशालायां पाठयन् आसीत् । तस्मिन् समये तत्र यवनधर्मगुरोः शिष्याः आगताः । ते तं पण्डितम् उक्तवन्तः "अस्माकं गुरुः संस्कृते, फार्सिभाषायां, अन्यासु बहुषु भाषासु च परिणतः अस्ति । सः देहलीचक्रवर्तिनः आस्थानविद्वान् अपि अस्ति। सः भवतः नाम श्रुतवान् । सः भवता सह शास्त्रचर्चां कर्तुम् इच्छति" इति ।

तदा पण्डितः उक्तवान् - "महतः प्रमोदस्य विषयः एषः । अहमपि तादृशैः विद्वद्भिः सह शास्त्रचर्चां कर्तुम् इच्छामि। भवतां गुरुः देहलीचक्रवर्तिनः आज्ञापत्रम् आनीतवान् अस्ति । तदनुसारं भवतः गुरुणा सह वादं कृत्वा यः पराजयं प्राप्नोति तेन इस्लांमतस्वीकारः करणीयः इति नियमः अस्ति । तदनुसारं यदि भवतः गुरुः एव पराजितः भवति तर्हि सः हिन्दुधर्मं स्वीकर्तुं सिद्धः अस्ति वा? भवन्तः एतस्मिन् विषये भवतां गुरुं विचारयन्तु । यतः वादे नियमः तु सर्वदा द्वयोः विषये अपि समानरीत्या अन्वितः भवेत्" इति ।

पण्डितस्य धीरं गम्भीरं वचनं श्रुत्वा ते शिष्याः अधीराः अभवन् । तथापि ते - "तादृशी स्थितिः अस्माकं गुरोः अद्यपर्यन्तं कदापि नागता । अतः तद्विषये अधिकं चिन्तनीयं किमपि नास्ति" इति गर्वेण उक्तवन्तः ।

"अद्यपर्यन्तं तादृशी स्थितिः न आगता स्यात् । किन्तु इतःपरमपि न आगमिष्यति इति नास्ति खलु । अतः प्रथमं भवतां गुरुम् एतद्विषये पृच्छन्तु । अपि च न्यायनिर्णायकः अपि योग्यः एव स्यात् । अतः अस्माकं महाराजः, भवतां देहलीराजः वा न्याय-निर्णायकस्थाने स्थातुं शक्नोति । तद्विषये अपि भवतां गुरुं विचार्य स्थानमपि निश्चित्य मां सूचयन्तु । अहं तु सर्वदा सिद्धः" इति उक्तवान् पण्डितः ।

तदनुसारं जयपुरस्य राजभवने वाक्यार्थगोष्ठी आयोजिता । पण्डितः सरलं वेषभूषणं धृत्वा समयात् पूर्वमेव स्वस्थानम् अलङ्कृतवान् आसीत् । अनन्तरं सः यवनधर्मगुरुः महता आडम्बरेण तत्र आगतवान् ।

महाराजस्य सूचनानुसारं वाक्यार्थगोष्ठी आरब्धा । यवनधर्मगुरुः एव प्रथमं, हिन्दुधर्मग्रन्यानां खण्डनपुरस्सरं कुरान्ग्रन्थस्य विचाराः एव श्रेष्ठाः इति प्रतिपादयन् स्वस्य वादम् उपस्थापितवान् । तस्य वाक्शैलीं वादसरणिं च दृष्ट्वा सम्मिलिताः हिन्दवः सर्वे व्याकुलिताः अभवन् ।

तदा सः पण्डितः उत्थाय कुरान्ग्रन्थस्य खण्डनपुरस्सरं इस्लामतत्त्वानाम् अपेक्षया हिन्दुविचाराः एव श्रेष्ठतमाः इति युक्तियुक्तं प्रतिपादितवान् । तदा हिन्दवः सर्वे आनन्देन करताडनं कृतवन्तः ।

एतेन अपमानितः यवनधर्मगुरुः "भवता कुरान्ग्रन्थस्य विषये यथेच्छं वक्तुं न शक्यते। यः सम्यक् धर्मग्रन्थान् अधीतवान् सः एव सम्यक् वक्तुं शक्नोति । भवान् तु कुरा‌न्विषये किमपि असम्बद्धं प्रलपन् अस्ति" इति उक्तवान् ।

वस्तुतः सः यवनधर्मगुरुः न जानाति स्म यत् एषः पण्डितः सम्यक् इस्लाममतग्रन्थानामपि अध्ययनं कृतवान् अस्ति इति । तस्य उत्तररूपेण पण्डितः "अहं स्वकीयं विचारं किमपि अत्र न प्रतिपादितवान् । भवतः प्राचीनाः धर्मगुरवः बहवः कुरान्ग्रन्थस्य अर्थम् एवमेव प्रतिपादितवन्तः सन्ति" इति वदन् तेषां ग्रन्यानां उल्लेखमपि कृतवान् ।

क्रमशः तत्र कोलाहलस्य वातावरणम् निर्मितम् अभवत् । अतः महाराजः "अद्य एषा गोष्ठी अत्रैव समाप्ता । श्वः अनुवर्तनं भविष्यति" इति घोषितवान् ।

अनन्तरदिने समये सर्वे जनाः सम्मिलितवन्तः । कोलाहलः यदि भवेत् तर्हि तस्य नियन्त्रणं करणीयम् इति उद्देशेन महाराजः व्यवस्थाम् अपि कृतवान् आसीत् । किन्तु यवनधर्मगुरुः एव सभां न आगतवान्। सः पूर्वदिने रात्रौ एव भीत्या कमपि अनुक्त्वा ततः पलायितवान् आसीत् ।

केषाञ्चित् दिनानाम् अनन्तरं देहलीतः आह्वानम् आगतं तस्मै पण्डिताय । महाराजः शाहजहानः तस्य पण्डितस्य प्रतिभां दृष्ट्वा प्रार्थितवान् यत् भवान् मम आस्थानस्य विद्वान् भवतु इति। सः पण्डितः अपि महाराजस्य प्रार्थनाम् अङ्गीकृत्य तत्रैव स्थितवान् । तस्य वासार्थं योग्या व्यवस्था कल्पिता ।

कदाचित् सः स्वगृहे उपविश्य किमपि लिखन् आसीत् । तदा जयपुरे पराजितः यवनधर्मगुरुः तस्य गृहम् आगतवान् । सः अन्तः आगत्य तस्य पादौ गृहीत्वा "भवता अहं रक्षणीयः" इति बहुधा प्रलापं कृतवान् । 

पूर्वदिने एव कस्यचित् अपराधस्य निमित्तं दण्डरूपेण महाराजः आज्ञां कृतवान् आसीत् यत् तस्य समग्रा सम्पत् अपि शासनेन स्वीकरणीया इति। अतः एव सः पण्डितस्य समीपम् आगतवान् आसीत् ।

पण्डितः यवनधर्मगुरवे अभयं दत्तवान् । अनन्तरदिने महाराजस्य समीपं गत्वा "धर्मगुरोः दण्डनं न भवतु" इति प्रार्थितवान् ।

तदा महाराजः उक्तवान् - "भवान् न जानाति इति मन्ये । एषः एव पूर्वं भवतः हननार्थं प्रयत्नं कृतवान् । अपि च अयं परमदुष्टः वञ्चकश्च" इति ।

तदा सः पण्डितः उक्तवान् "अहं सर्वं जानामि । तथापि शरणागतस्य रक्षणं मम आद्यं कर्तव्यम् । अतः एतस्य क्षमादानं करणीयम् भवता" इति । पण्डितस्य औदार्यं दृष्ट्वा सर्वे मूकाः अभवन् ।

महाराजः 'अस्तु' इति उक्त्वा धर्मगुरोः अपराधं क्षान्तवान् ।

सः प्रसिद्धः पण्डितः एव महाकविः, बहुशाखकोविदः, रसगङ्गाधरादि-शास्त्रग्रन्थानां रचयिता, गङ्गालहर्याः कर्ता 'पण्डितराज' बिरुदाङ्कितः श्री जगन्नाथपण्डितः ।

सम्भाषणसन्देश:,डिसेंबर १९९५

मां दग्ध्वा खादन्तु।

पूर्वं विजयनगरसाम्राज्ये कृष्णदेवरायः नाम प्रसिद्धः राजा आसीत् । तस्य आस्थाने बहवः प्रतिभाशालिनः आसन् । तेषु तेनालिरामकृष्णः बहु प्रसिद्धः । सः प्रत्युत्पन्नमतिः आसीत् । महत् कष्टम् आपतितं चेदपि सः अधीरः न भवति स्म । उपायेन तस्य परिहारं चिन्तयति स्म ।

एकदा सः वनौषधानि सङ्ग्रहीतुं वनं गतवान् । तस्मिन् काले वने नरभक्षकाः अपि भवन्ति स्म । रामकृष्णः औषधिसस्यानि अन्विष्यन् वनस्य अन्तः बहुदूरं गतवान् ।

यदा सः गच्छन् आसीत् तदा केचन नरभक्षकाः अकस्मात् तस्य उपरि आक्रमणं कृतवन्तः । तं बद्ध्वा, नायकस्य समीपं नीतवन्तः च ।

ते बहु भयानकाः आसन् । तेषां दर्शनतः रामकृष्णस्य यद्यपि भीतिः अभवत्, तथापि भीतिम् अप्रदर्शयन् सः तान् पृष्टवान् - "भवन्तः के ? किमर्थं मां बद्ध्वा आनीतवन्तः ?" इति।तदा नायकः उच्चैः हसन् उक्तवान् -"वयं नरभक्षकाः । इदानीं भवन्तं वयं भक्षयामः । भवान् बहु बुद्धिमान् इव दृश्यते। अतः भवते एकं वचनं वक्तुम् अवकाशं दद्मः वयम् । यदि भवता उक्तं सत्यं भवति तर्हि भवन्तं उष्णजलेन पक्त्वा खादामः। यदि भवतः वचनम् असत्यं भवति तर्हि भवन्तम् साक्षात् अग्नौ दग्ध्वा पक्त्वा खादामः । शीघ्रं वाक्यं वदतु" इति। चतुरमतिः रामकृष्णः क्षणं यावत् चिन्तनं कृत्वा झटिति एकं वाक्यम् उक्तवान् । रामकृष्णस्य वचनं श्रुत्वा किङ्कर्तव्यतामूढाः ते नरभक्षकाः स्तब्धाः सन्तः मौनं स्थितवन्तः । पश्चात् तं 'गच्छतु' इति उक्त्वा प्रेषितवन्तः ।

रामकृष्णः किम् उक्तवान् इति ज्ञातुं कुतूहलं स्यात् खलु भवताम् ?

सः उक्तवान् "भवन्तः माम् अग्नौ क्षिप्त्वा दग्ध्वा खादन्तु" इति ।

यदि तस्य वचनं सत्यम् इति ते चिन्तयन्ति तर्हि तैः उष्णजलेन पक्त्वा खादनीयः सः। किन्तु यदि ते उष्णजलेन तं पक्त्वा खादन्ति तर्हि तस्य वचनम् असत्यं भवति । यदि असत्यम् इति निर्णीय अग्नौ क्षिप्त्वा दग्ध्वा ते तं खादन्ति तर्हि तस्य वचनं सत्यं भविष्यति ।

इत्थं स्ववचनेन एव बद्धाः ते नरभक्षकाः तं मुक्तवन्तः ।

सम्भाषणसन्देश:, डिसेंबर १९९५


कथमस्ति रामकृष्णस्य समयस्फूर्तिः ?

सर्वस्वं हि राष्ट्राय।

 कदाचित् महाराष्ट्रस्य जालनानगरे छत्रपतिशिवाजिमहोत्सवः आचर्यमाणः आसीत् । तदा सभायां कश्चित् युवकः धैर्येण स्वाभिप्रायं प्रकटितवान् । सः स्वभाषणे "महिला अबला न । सा पुरुषस्य अधीना अपि न । तया चतसॄणां भित्तीनां अन्तः एव तिष्ठन्त्या दुःखम् अनुभोक्तव्यं नास्ति । अस्माकं देशे बाल्यविधवानां स्थितिः तु शोचनीया वर्तते । कदाचित् महिला पथभ्रष्टा सती स्खलति चेत् तां सर्वे बहिष्कुर्वन्ति । दरिद्राणां रोगिणां विषये तु अस्माकं वात्सल्यमेव नास्ति । आचारस्य सम्प्रदायस्य वा व्याजेन हिंसां कुर्मः वयम् । अतः समाजे एतादृश-दुष्टाचरणानां निवारणं भवेत् । मानवीयता एव आचाराणां सम्प्रदायानां च निर्णायकं भवेत्" इति उच्चैः उक्तवान् । तस्य भाषणस्य महान् विरोधः दृष्टः तत्र ।

एतादृशाः वक्तारः समाजे बहवः भवन्ति, किन्तु तस्यां दिशि कार्य कुर्वाणाः जनाः बहु विरलाः । किन्तु अयं युवकः स्ववचनानुगुणमेव जीवनं कृतवान् अपि ।

१९०४ तमे वर्षे "भारत-सेवा-समाजः" नाम काचित् संस्था गोपालकृष्णगोखलेमहोदयेन आरब्धा । राष्ट्रमेव गृहम् इति भावनया तत्र कार्य करणीयम् आसीत् । अयं युवकः अपि तस्याः संस्थायाः कार्यकर्ता अभवत् ।

परस्परसहयोगेन सहकारेण च यदि सर्वैः कार्यं क्रियते तर्हि राष्ट्रस्य उन्नतिः शीघ्रं भविष्यति इति तस्य युवकस्य मनसि विचारः आसीत् । तदर्थं सः प्रथमतया 'हडप्सर् सहकारसङ्घम्' आरब्धवान् । अनन्तरम् बह्व्यः सहकारिसंस्थाः वित्तकोषः च तेन आरब्धाः ।

१९०६ तमे वर्षे पूनानगरे प्लेगरोगः सहस्राधिकजनान् अमारयत् । तस्मिन् समये रोगनिरोधार्थम् अयं युवकः शिबिराणि व्यवस्थाप्य प्लेग्-निरोधकौषधस्य प्रचारं वितरणं च कृतवान् । रुग्णानां चिकित्सार्थमपि कार्यं कृतवान् ।

तदा तस्य मनसि एकः विचारः आगतः 'यदि शिक्षिताः भारतीयाः महिलाः अनुवैद्याः स्युः तर्हि चिकित्साकार्यं इतोऽपि सुलभम् अभविष्यत्' इति । तदा तु महिलाः गृहात् बहिः एव न आगच्छन्ति स्म । तासां शिक्षणेन गृहव्यवस्था नष्टा भविष्यति, महिलानां नैतिकम् अधःपतनं भविष्यति इति समाजे चिन्तनम् आसीत् ।

सः युवकः महिलानां शिक्षणार्थम् उन्नत्यर्थं च 'सेवासदनं' नाम संस्थाम् आरब्धवान् । तद्द्वारा बहूनाम् अनाथमहिलानां, विधवानां च जीवने आशाकिरणान् उत्पाद्य निराशां प्राप्तवतीनां महिलानाम् आश्रयं कल्पितवान् ।

तस्य महिलाकल्याणविषये कियत् औत्कण्ठ्चम् आसीत् इति इयं घटना प्रदर्शयति । निरन्तरं कार्यकरणेन प्रवासेन च तस्य आरोग्यं बहु नष्टम् आसीत् । वयः अपि तत्र कारणम् आसीत् । विश्रान्त्यर्थं सः एकत्र आसीत्। तदा काचित् युवतिः तं द्रष्टुम् आगतवती । जर्जरितम् तस्य शरीरं दृष्ट्वा सा दुःखेन रोदनं कुर्वती "भवता मादृशीनाम् इतोऽपि बहूनां महिलानाम् अश्रुमार्जनं करणीयं खलु । भवता स्वस्य आरोग्यविषये अपि अवधानं दातव्यम्" इति वदन्ती तस्य पादयोः उपरि पुष्पाञ्जलिं प्रीत्या समर्प्य पादयोः नमस्कारं कृतवती । तदा सः तस्याः परिचयसन्दर्भं स्मृतवान् ।

तस्य मित्रस्य गृहे काचित् बालिका कर्मकरी आसीत् । पुनः पुनः तत्र गमनेन तस्य बालिकायाः परिचयः अभवत् । सः कदाचित् ताम् उक्तवान् -"भवती अपि शालाम् आगत्य पठितुं शक्नोति खलु" इति।

सा बालिका लज्जिता अभवत् । सा तत् न अङ्गीकृतवती । युवकः सः अपि स्वप्रयत्नं न त्यक्तवान् । दिनद्वयानन्तरं पुनश्च तां पृष्टवान् । तदा अपि सा न अङ्गीकृतवती । तस्य कोपः एव आगतः । सः तां केशेषु गृहीत्वा साक्षात् सेवसदनशालां नीतवान् । जनाः तस्य तादृशव्यवहारं दृष्ट्वा बहुधा तं निन्दितवन्तः, अपप्रचारमपि कृतवन्तः । किन्तु युवकः स्वकार्ये निश्चलः आसीत् ।

सा बालिका आरम्भदिनेषु रोदनं कृतवती । पश्चात् तत्रैव तस्याः समञ्जनम् अभवत् । अग्रे पठित्वा सा मुम्बयीनगरे एकस्मिन् विद्यालये शिक्षिका अपि अभवत् ।एतादृश्यः घटनाः तस्य जीवने बहु आसन् ।

तस्य अन्यत् अपि वैशिष्ट्यम् आसीत् । महत्सु कष्टेषु आपतितेषु अपि सः अङ्गीकृतम् कार्यं तु करोति स्म एव । सः चायपानं बहु करोति स्म । तेन सह धूमपानस्य अपि अभ्यासः आसीत् तस्य । तस्य बहूनि मित्राणि तस्य तं दुरभ्यासं न इच्छन्ति स्म । एतादृशः उदात्तपुरुषः अपि दुर्व्यसनस्य दासः खलु इति तेषां विचारः । किन्तु साक्षात् तं वक्तुं कस्यापि धैर्यं न आसीत् ।

एकदा कश्चित् स्नेहितः धूमपानसमये तम् उक्तवान् "मित्रवर ! भवता मम एकं वचनं पालनीयम् । भवतु वा ?" इति।

"तादृशं किं वा महत्त्वपूर्णम् वचनं तत् ? निश्वयेन पालयामि । वदतु तावत्" इति सः उक्तवान् ।

स्नेहितः उक्तवान् "अद्य आरभ्य भवता धूमपानं सम्पूर्णतया त्यक्तव्यम्" इति । 

सः युवकः एकवारं तं स्नेहितं दृष्टवान् । अपरक्षणे एव हसन् स्वहस्ते विद्यामानया धूमवर्तिकया दीर्घम् एकवारं धूमं स्वीकृत्य धूमवर्तिकां क्षिप्तवान् । तदनन्तरं सः कदापि जीवने धूमपानमेव न कृतवान् । सर्वेषु महत्तरराष्ट्रकार्येषु अपि तस्य एतादृशी एव दृढता आसीत् ।

यद्यपि सः बह्वीषु संस्थासु कार्यदर्शी अध्यक्षः वा आसीत्, तथापि स्वनिमित्तं कदापि धनस्य उपयोगं न कृतवान् । पूर्णं जीवनं दारिद्र्येण एव यापितवान् । किन्तु कदापि अन्यत्र तत् न प्रदर्शितवान् ।

कदाचित् तस्य कार्यदर्शी भोजनार्थं तेन सह तस्य गृहं गतवान् । भोजनसमये धरणार्थं आगताय अतिथये स्वस्य एकां एव वेष्टीं दत्तवान् । सा बहुधा छिन्ना जीर्णा च आसीत् । तदा एव कार्यदर्शी ज्ञातवान् यत् तस्य गृहे कीदृशं दारिद्र्यम् अस्ति इति ।

तस्य महापुरुषस्य नाम गोपालकृष्णदेवधरः इति । सः यद्यपि मौनं स्वसर्वस्वमपि राष्ट्राय समर्प्य भस्म अभवत् तथापि स्वकार्येण सः अस्माकं मध्ये अद्यापि प्रेरणां यच्छन् अस्ति एव।

सम्भाषणसन्देश:, नोव्हेंबर १९९५

विचित्र: आशीर्वाद:।

गुरुनानकः स्वशिष्यैः सह सर्वदा देशसञ्चारं करोति स्म। स: तत्र तत्र जनान् उपदिशति स्म, आशीर्भिः अनुगृह्णाति स्म च । कदाचित् सः कञ्चित् ग्रामं गतवान् । ग्रामवासिनः महता उत्साहेन शिष्यगणसहितस्य नानकवर्यस्य स्वागतं कृत्वा योग्यम् आतिथ्यम् अपि कृतवन्तः । अनन्तरम् श्रद्धया तस्य उपदेशं श्रुतवन्तः च ।

कानिचन दिनानि एवमेव अतीतानि । गुरुनानकः तत: प्रस्थितवान् । ग्रामवासिनः सर्वे -"भवान् अन्यत्र मा गच्छतु । अत्रैव वसतु । वयं सर्वाः व्यवस्थाः कल्पयिष्यामः" इति बहु अनुरोधं कृतवन्तः । अन्ते सर्वे बहु दुःखेन तं प्रेषितवन्तः । तदा गुरुनानकः गमनसमये ग्रामवासिनः उद्दिश्य "भवन्तः सर्वे नष्टम् अनुभवन्तु । अयं ग्रामः अपि नष्टः भवतु" इति आशीर्वादं कृतवान् । शिष्याः चकिताः । किन्तु किमपि न पृष्टवन्तः ते ।

पश्चात् ते अन्यं ग्रामं प्रति गतवन्तः । तत्र जनाः बहु दुष्टाः आसन् । ते ग्रामवासिनः तस्य स्वागतं न कृतवन्तः, प्रत्युत तस्य उपहासं कृतवन्तः, निन्दितवन्तः च। गुरुनानकः किमपि न उक्तवान् । तस्मिन् दिने ते तत्रैव वासं कृतवन्तः । अनन्तरदिने गुरुनानकः ततः गमनसमये  "समृद्ध्या सुखेन च जीवन्तु भवन्तः" इति तान् ग्रामवासिनः आशीर्भिः अनुगृहीतवान् । 

एतत् श्रुत्वा शिष्याणाम् अत्यन्तम् आश्चर्यम् अभवत् । शिष्येषु अन्यतमः गुरुं पृष्टवान्  "आचार्य ! एवं भवतः आशीर्वादस्य कः आशयः इति ज्ञातुम् एव वयं न शक्ताः । सज्जनान् नष्टाः भवन्तु इति, दुष्टान् समृद्धाः भूत्वा सुखेन जीवन्तु इति च भवान् उक्तवान्। एवं किमर्थम्?" इति। तदा गुरुनानकः उक्तवान् "सज्जनाः यदा नष्टम् अनुभवन्ति तदा ते जीवनार्थम् अन्यत्र गच्छन्ति । तत्र तेषां सहवासेन अन्ये अपि सज्जनाः भवन्ति । दुष्टाः अन्यान् पीडयन्ति । अतः ते अन्यत्र न गच्छेयुः इति अहं तान् समृद्धाः भवन्तु इति उक्तवान्" इति।

गुरोः वचनेन समाहिताः शिष्याः निस्संशयाः सन्तः अग्रिमं ग्रामं प्रति गतवन्तः ।

सम्भाषणसन्देश:, नोव्हेंबर १९९५

क्रियासिद्धि: सत्वे भवति।

पंजाबराज्यस्य गुजरान्वाला जनपदे गोस्वामितुलसीदासस्य वंशीयः हिरानन्दनामकः कश्चित् ब्राह्मणः आसीत् । तस्य पत्नी १८७५ तमे वर्षे अक्टोबरमासे द्वितीयदिनाङ्के दिपावलीपर्वणः अनन्तरदिने एकं शिशुं प्रसूतवती । मासाभ्यन्तरे एव सा दिवङ्गता । सः मातृहीनः शिशुः एव अस्याः कथायाः नायकः ।

मातृविहीनं शिशुं तस्य पितृव्या पालितवती । पञ्चमे वयसि तस्य विद्याभ्यासः आरब्धः । प्रथमं बाल्यशिक्षणम् उर्दूशालायां मौल्वीसमीपे अभवत् । तत्र सः सम्यक् फार्सीभाषाम् अधीतवान् ।

पश्चात् सः अग्रिमशिक्षणार्थं मुरलीवालातः गुजरान्वाला आगतवान् । तत्र तस्य पितुः मित्रं भक्तः धन्नारामः तस्य पोषणस्य दायित्वम् अङ्गीकृतवान् । तत्र सः बालकः आंग्लशालायाम् अध्ययनं कृतवान् । बालकस्य ज्ञानपिपासा अत्यधिका आसीत् । सः विद्यालयतः गृहम् आगत्य धन्नारामात् गभीरान् आध्यात्मिक-विचारान् अपि शृणोति स्म । तथापि विद्यालये सर्वदा प्रथमस्थानं तस्य एव आसीत् ।

पञ्चदशे वयसि सः मेट्रिक्युलेशन्- परीक्षायां प्रथमां श्रेणीं प्राप्य उत्तीर्णः अभवत् । तेन तस्य गुरवः, धन्नारामः, तस्य सहपाठिनश्च बहु सन्तुष्टाः । परं सः सन्तोषः दीर्घकालीनः न आसीत् । तस्य बालकस्य गृहे बहु दारिद्रयम् आसीत् । अतः तस्य पिता हिरानन्दः "गृहम् आगत्य कमपि उद्योगं प्राप्य साहाय्यं करोतु" इति आदिष्टवान् ।बालकस्य तु अग्रे पठनीयमिति इच्छा आसीत् । अतः, पितुः अनुमत्या विना धन्नारामस्य प्रोत्साहनेन अग्रे अध्ययनं करणीयमिति सः निश्चितवान् । तदा पिता हिरानन्दः क्रोधेन तम् उक्तवान् - "अहम् इतः परं भवतः शिक्षणार्थं साहाय्यं न करोमि । अपि च इतः परं मत्तः भवता किमपि न अपेक्षणीयम्। भवान् मम पुत्रः एव न" इति ।

तथापि सः बालकः अत्यन्त-ज्ञानलिप्सया लाहोरनगरं गत्वा तत्र मिशन्-महाविद्यालये प्रवेशं प्राप्तवान् । तत्र तस्य साहाय्यं कर्तुं केऽपि जनाः न आसन् । नगरसभासमितितः प्राप्यमाणेन धनेनैव तेन आहारस्य, प्रकोष्ठभाटकस्य, पुस्तकस्य, अन्येषां च व्ययानां निर्वाहः करणीयः आसीत् ।

कदाचित् यदा सः पुस्तकार्थं धनं व्ययीकरोति स्म तदा भोजनार्थं न्यूनं भवति स्म । बहुषु दिनेषु सः एकेनैव भोजनेन दिनानि यापितवान् । कदाचित् आदिनम् उपवासः अपि कृतः तेन । तादृशक्लेशे अपि सः कदापि न खिन्नः । अपि च सः क्लेशात् न भीतः, न वा प्रतिनिवर्तनविषये मतिं कृतवान् । आहारन्यूनताकारणेन सः तदा तदा अस्वस्थः भवति स्म । अस्वस्थः अपि सः प्रतिदिनं नियमेन अध्ययनं करोति स्म एव ।

महाविद्यालये तस्य ऐच्छिकभाषा फार्सीभाषा आसीत् । तदा अन्ये केचन 'हिन्दुः सन् संस्कृतं न जानाति भवान्' इति आक्षिप्तवन्तः । तत् श्रुत्वा सः युवकः निश्चितवान् यत् अहं संस्कृतम् ऐच्छिकरूपेण पठित्वा एव एफ्.ए. परीक्षां लिखामि इति । सः गत्वा संस्कृतशिक्षकं पृष्टवान् । संस्कृतशिक्षकस्य चिन्ता सञ्जाता 'कथम् एषः संस्कृतानभिज्ञः पाठनीयः' इति । अन्यत्र तस्य फार्सिशिक्षकः तस्य निवर्तनं न इच्छति । तथापि सः युवकः तु छलेन संस्कृतमेव पठितवान् । वर्षान्ते सः संस्कृते अपि उत्तमान् अङ्कान् लब्ध्वा प्रथमस्थानं प्राप्य उत्तीर्णः अभवत् ।

तस्य युवकस्य बाल्ये एव विवाहः जातः आसीत् । यदा एफ्.ए. परीक्षायाम् उत्तीर्णः इति वार्ता ज्ञाता तदा तस्य पिता पुनश्च आगत्य 'गृहं प्रत्यागच्छतु' इति उक्तवान् । यदा पुत्रः न अङ्गीकृतवान् तदा गृहे विद्यमानां तस्य पत्नीम् आनीय तस्मै समर्प्य "भवतः पत्नीं भवानेव पालयतु" इति कोपेन उक्त्वा गतवान् ।कुटुम्बनिर्वहणार्थम् धनं सम्पादयता तेन अध्ययनं करणीयम् आपतितम् । तथापि सः अधीरः न अभवत् । बी.ए. द्वितीयवर्षार्थं सः प्रवेशं प्राप्तवान् । यदा बहु क्लेशः भवति स्म तदा सः एकान्ते देवम् उद्दिश्य "मम दोषान् क्षाम्यतु । माम् उद्धरतु । अहं भवन्तम् एव शरणं गतः अस्मि" इत्यादिरूपेण निवेदयन् अश्रूणि स्रावयति स्म । एवं सर्वत्र निरुत्साहे दृष्टे सति अपि सः एकस्मिन् दिने रात्रौ देवस्य पुरतः उपविश्य -

"त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । 
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ।।"

इति आत्मसमर्पणं कृतवान् । पश्चात् निद्रां कृतवान् । प्रातः यदा सः विद्यालयं गतवान् तदा विद्यालयसमीपे विद्यमानस्य मिष्टान्नापणस्य स्वामी आगत्य "भवता इतःपरं भोजनार्थं मम गृहम् आगन्तव्यम्" इति निवेदितवान् । अपि च तस्य वासार्थम् एक प्रकोष्ठमपि दत्तवान् । तस्य श्वशुरः आगत्य पुत्रीं स्वगृहं नीतवान् । कश्चित् धनिकः अग्रे आगत्य तस्य पुस्तकक्रयणादिनिमित्तं धनसाहाय्यं कृतवान् ।

एवं सः स्नातकपदवीं प्राप्य स्नातकोत्तरपदवीम् अपि प्राप्तवान् । पश्चात् शिक्षकः सन् कानिचन वर्षाणि कार्यं कृतवान् । गच्छता कालेन तस्मिन् देवे भक्तिः वैराग्यभावः च दिने दिने प्रवृद्धः । पश्चात् वानप्रस्थाश्रमं प्रविश्य सः संन्यासमपि स्वीकृतवान् । वेदान्तविचारं समग्रे विश्वे प्रसारितवान् । अन्ते गङ्गानद्यां स्वशरीरं परित्यक्तवान् । सः ज्ञाननिधिः प्रेमस्वरूपी, संन्यासी महात्मा एव श्री स्वामी रामतीर्थः ।

सम्भाषणसन्देश:, ऑक्टोबर १९९५

भारतस्य अन्तरङ्गम्।

स्वातन्त्र्यसङ्ग्रामस्य कालः। महात्मा गान्धी देशे सर्वत्र सञ्चरन् जनेषु देशभक्तिं जागरयति स्म । देशार्थं यथाशक्ति धनं समर्पणीयम् इति जनान् बोधयति स्म च । तेन प्रभाविताः धनिकाः यथा, तथैव निर्धनाः अपि राष्ट्राय धनं समर्पयन्ति स्म ।कदाचित् गोपबन्धुदासः ठक्करबाप्पा, इत्यादिभिः सह गान्धिवर्यः ओरिसाराज्ये प्रवासं कुर्वन् आसीत् । कस्मिंश्चित् लघुरेल्वेस्थानके ते सर्वे यानस्य आगमनं प्रतीक्षमाणाः उपविष्टवन्तः आसन् ।

अत्रान्तरे कश्चित् वनवासी वृद्धः तत्र आगतवान् । गान्धिवर्यं दृष्ट्वा समीपम् आगत्य श्रद्धया चरणस्पर्शपूर्वकं नमस्कारं कृतवान् । सः केवलं कौपीनधारी आसीत् । नितरां कृशश्व आसीत् । तदीयशरीरस्य दुर्बलता एव बोधयति स्म यत् सः नितरां निर्धनः इति । गान्धिवर्यः अन्ये च तस्य व्यवहारम् आश्चर्येण पश्यन्तः आसन् ।

सः वनवासी वृद्धः कटिवस्त्रेण बद्धं पैसामूल्यकं नाणकं निष्कास्य गान्धिवर्यस्य पदतले समर्पितवान् ।

'राष्ट्रार्थं सर्वे यथाशक्ति धनं समर्पयन्ति । तेन राष्ट्रकार्ये साहाय्यं भवति । किन्तु एतेन वृद्धेन पैसामूल्यकं नाणकं समर्प्यमाणम् अस्ति । एतत् नाणकं नितराम् अत्यल्पम् । राष्ट्रकार्ये अकिञ्चित्करं च। किम् एतादृशस्य नाणकस्य समर्पणेन ?' इति तत्रत्याः सर्वे चिन्तितवन्तः ।

गान्धिवर्यः अपि आश्चर्यम् अनुभवन् पृष्टवान् “एतत् नाणकं किमर्थम् अत्र स्थापितवान् भवान् ?" इति।

तदा सः निर्धनः वनवासी वृद्धः उक्तवान् - "आर्य ! भवान् तु राष्ट्रदेवः । देवदर्शनार्थं यदा वयं गच्छामः तदा देवाय किमपि समर्पयामः खलु ? मया अपि यथाशक्ति समर्पितम्" इति ।

एतत् दृष्ट्वा सन्तुष्टान्तरङ्गः गान्धि-वर्यः पार्श्वस्थं गोपबन्धुदासवर्यम् उक्तवान् - "दृष्टं खलु सर्वम् अपि । एतत् एव भारतस्य अन्तरङ्गं नाम । अत्र निर्धनः अकिश्चनः अपि भावयति यत् यथाशक्ति समर्पणं मम धर्मः इति । एतस्य शरीरं दुर्बलं स्यात्, शक्तिः कुण्ठिता स्यात्, किन्तु आत्मा प्रबलः अस्ति, राष्ट्रभक्तिः अकुण्ठिता अस्ति । एतादृशाः एव भारतस्य प्रतिनिधयः । एते एव राष्ट्रशक्तेः आधारभूताः" इति।

तत्रत्याः सर्वे तं वृद्धं मनसा श्लाघितवन्तः ।

सम्भाषणसन्देश:,ऑक्टोबर १९९५

असदृशी गणितप्रतिभा।

 प्राचीनमद्रासराज्यस्य (इदानीन्तनस्य तमिळनाडुराज्यस्य) कोयमत्तूरूमण्डलस्थे ईरोड-नगरे १८८७ तमे वर्षे २२ दिनाङ्के गुरुवासरे एकस्य शिशोः जन्म अभवत् । सः शिशुः पञ्चवर्षीयः बालकः यदा जातः तदा पालकाः तं विद्यालयं प्रति प्रेषितवन्तः ।

बालकस्य गणितविषये महती आसक्तिः आसीत् । कक्ष्यायां सः स्वयमेव किमपि चिन्तयन् भवति स्म। यदा सः प्राथमिकशालायां पठन् आसीत् तदा एका घटना प्रवृत्ता। काचित् शिक्षकः तम् उक्तवान् "यां कामपि संख्यां तया एव संख्यया विभाजयामः चेत् भागलब्धम् 'एकम्' भवति। उदा, ५÷५ = १" इति।

शिक्षकस्य विवरणं शृण्वन् सः बालकः झटिति उत्थाय पृष्टवान् -"शून्यं शून्येन विभज्यते चेत् भागलब्धं किं भवति ?" इति।

छात्रस्य प्रश्नं श्रुत्वा शिक्षकः दिग्भ्रान्तः । गुरोः उत्तरम् तु अत्र अप्रस्तुतम् । एवम् आसीत् तस्य बालकस्य जिज्ञासा, मेधाशक्तिः च । यद्यपि सः प्रतिभावान्, तथापि सः कदापि कुचेष्टां न करोति स्म । मूर्तिमती नम्रता, मुग्धता इव सः आसीत् । अहङ्कारः किञ्चिदपि न आसीत् तस्य ।

अग्रे सः यदा प्रौढः अभवत् तदा तस्य प्रतिभां दृष्ट्वा प्रो. हार्डिवर्यः तम् इंग्लैण्ड्देशं नीतवान् । सः स्वस्य एव स्वतन्त्रेण मार्गेण सर्वेषां गणितसमस्यानाम् उत्तरं प्राप्तुं प्रयत्नं करोति स्म । तस्मात् बहु जटिलानाम् अन्यैः अज्ञातानां प्रश्नानामपि उत्तराणि ज्ञातवान् आसीत् ।

अग्रे सः इंग्लैण्ड्देशे सर्वत्र प्रसिद्धः अभवत् । कदाचित् सः हार्डिवर्येण सह केम्ब्रिज्ञविश्वविद्यालयं गतवान् । तत्र अर्थर् बेरि नामकः गणितप्राध्यापकः आसीत् ।

एकस्मिन् दिने सायङ्काले एषः युवकः तस्य कक्ष्यायां गत्वा उपविष्टवान् । प्राध्यापकः कस्यचित् गणितसूत्रस्य विवरणं फलके लिखन् पाठयन् आसीत् । सः विषयः तेन युवकेन पूर्वम् अश्रुतः आसीत् । अतः प्राध्यापकः पाठं कुर्वन् मध्ये मध्ये तस्य युवकस्य मुखं पश्यन् आसीत् स: अवगच्छति उत न इति ज्ञातुम् । 

मध्ये एकवारं सः प्राध्यापकः तस्य युवकस्य मुखं दृष्टवान् । तदा तस्य मुखं सन्तोषेण बहु प्रफुल्लितम् आसीत् । "किम् उपन्यासम् अवगच्छन् अस्ति भवान् ?" इति प्राध्यापकः पृष्टवान् । युवकः किमपि न उक्तवान् । केवलम् अङ्गीकारपूर्वकं शिरः चालितवान् ।

तदा सः प्राध्यापकः पृष्टवान् "भवान् किमपि प्रष्टुम् अथवा वक्तुम् इच्छति किम् ?" इति।

तदा सः युवकः 'आम्' इति शिरः चालितवान् ।

'किं वक्तुम् इच्छति ?' इति प्राध्यापकः पृष्टवान् । तदा पृष्ठतः उपविष्टः सः युवकः अनुक्षणम् उत्थाय कृष्णफलकस्य समीपं गतवान् । एकं सुधाखण्डं स्वीकृत्य सूत्रस्य फलितांशानां लेखनम् कृतवान् । तत्र केचन अंशाः प्राध्यापकेन विवृताः आसन् । केचन एतावता अपि विवृताः न आसन् ।

तद् दृष्ट्वा प्राध्यापकः सन्तुष्टः चकितः अपि । सः चिन्तितवान् यत् युवकेन अन्तःस्फूर्त्या एव ते अंशाः ज्ञाताः इति । यतः सः विषयः युवकस्य पूर्णतया नूतनः आसीत् ।

सः युवकः तु तत् लिखित्वा पुनः सरलतया स्वस्थाने उपविष्टवान् । एवम् अहं मेधावी, प्रतिभावान् अस्मि' इति तस्य किञ्चिदपि गर्वः नासीत् । मया ज्ञातव्याः विषयाः बहवः सन्ति इत्येव सदा तस्य मनसि भावः आसीत् ।

सः युवकः एव प्रसिद्धः विश्व-विख्यातः भारतीयः गणितज्ञः श्री. श्रीनिवासरामानुजन् । यद्यपि सः अल्पे वयसि एव अनारोग्येण पीडितः सन् दिवङ्गतः तथापि तस्य "सिद्धिः" अद्यापि गणितक्षेत्रे महत्त्वभूता विद्यते ।

सम्भाषणसन्देश:, सप्टेंबर १९९५

भगवान् वेदव्यास:।

पुरा नैमिषारण्ये कृपालुः नाम किरातः आसीत् । सः वने खर्जूरवृक्षय्य रसं सङ्गृह्य विक्रीय तेन एव जीवनं करोति स्म । सः एकं विशिष्टं मन्त्रं जानाति स्म । तेन मन्त्रेण सर्वान् वृक्षान् नमयित्वा सः रसं सङ्गृह्णाति स्म। सः रहस्यरूपेण एतत् कार्यं करोति स्म ।

कदाचित् कृपालुः आत्मानं गोपयित्वा वृक्षान् नमयन् रसं सङ्गृह्णन् आसीत् । तदा तत्र आगतः महर्षिः वेदव्यासः अकस्मात् तं दृष्टवान् । सः तत् दृष्ट्वा चकितः अभवत् । तदा कृपालुः तं दृष्ट्रा अनुक्षणं ततः अदृश्यः अभवत् ।

एकदा वेदव्यासः कृपालुना मेलितुं तस्य गृहं गतवान् । किन्तु दूरात् एव वेदव्यासस्य आगमनं ज्ञात्वा कृपालुः ततः पलायनं कृतवान् । वेदव्यासः पुन: पुन: बहुवारं कृपालुना मेलितुं प्रयत्नं कृतवान् । किन्तु बहुधा प्रयत्ने कृते अपि कृपालोः दर्शनं न अभवत् ।

एवं वेदव्यासः निराशः अपि पुनः आशाभावनां प्राप्य पुनश्च गच्छति स्म। एवं यदा एकदा सः गतवान् तदा सः कृपालोः पुत्रेण दक्षेण मिलितवान् । सः गृहमागतं वेदव्यासं - "श्रीमन्, केन कारणेन भवान् पुनः पुनः मम पितरम् अन्विष्य आगच्छति ? यदि वदति तर्हि अहं यथाशक्ति साहाय्यं करोमि" इति उक्तवान् ।

महर्षिः वेदव्यासः तम् उक्तवान् "वत्स ! भवतः पिता एकं विशिष्टं मन्त्रं जानाति । तेन सः महतः वृक्षान् अपि नमयति । भवतः पितुः सकाशात् तं मन्त्रं प्राप्तुम् अहं पुनः पुनः आगच्छन् अस्मि" इति ।

तदा दक्षः अवदत् - "भगवन् ! एषः विषयः पूर्वमेव भवता किमर्थं न उक्तः ? भवता पृष्टे सति अहम् एव तं मन्त्रम् उपदिष्टवान् स्याम् । भवतु नाम । इदानीम् एव अहं भवन्तं तं मन्त्रम् उपदिशामि" इति उक्त्वा स: वेदव्यासं तं मन्त्रम् उपदिष्टवान् । दक्षात् मन्त्रं प्राप्य वेदव्यासः कृतज्ञतावचनानि उक्त्वा स्वाश्रमं गतवान् ।

यदा कृपालुः प्रत्यागतः तदा पुत्रः दक्षः सर्वं पित्रे निवेदितवान् । पुत्रस्य वचनं श्रुत्वा कृपालुः अवदत् -"वत्स ! भवता उचितं न आचरितम् । वयं तु नीचकुलोत्पन्नाः । वेदव्यासः तु ब्रह्मर्षिः । ब्रह्मर्षिः नीचकुलोत्पन्नेषु आदरवान् कदापि न भवति। यः मन्त्रम् उपदिशति सः आदरार्हः । आदरार्हे जने अनादरः मन्त्रफलं नाशयति । मन्त्रोपदेशद्वारा आदरार्हतां प्राप्तवतः अपि अस्मान् वेदव्यासः आदरेण न पश्येत् एव । अतः अस्माभिः उपदिष्टस्य अपि मन्त्रस्य फलं प्राप्तुं न अर्हति वेदव्यासः" इति।

"तात ! तस्य व्यवहारस्य दर्शनात् अहं चिन्तयामि यत् वेदव्यासः तादृशः न इति" इति उक्तवान् दक्षः ।

"यदि सः तादृशः न स्यात् तर्हि सन्तोषः एव । प्रायः उत्तमकुलीयाः एवं भवन्ति इत्यतः मया एवम् उक्तम् । किमर्थम् आवयोः चर्चा ? भवान् तस्य आश्रमं गत्वा सः कीदृशः इति परीक्ष्य एव आगच्छतु तावत्" इति उक्तवान्कृपालुः ।

पितुः आदेशानुसारं दक्षः वेदव्यासस्य आश्रमं गतवान् । तदा वेदव्यासः शिष्यान् पाठयन् आसीत् ।

समागतं दक्षं दृष्ट्वा वेदव्यासः अनुक्षणम् उत्थाय आगत्य तं स्वागती-कृतवान् । कुटीरस्य अन्तः नीत्वा अर्घ्यपाद्यादिभिः सत्कृतवान् कुशलप्रश्नान् अपि कृतवान् । तस्य योग्यां भोजनादिव्यवस्थां च कल्पितवान् । यदा दक्षः ततः प्रस्थितवान् तदा वेदव्यासः श्रद्धाभक्तिपूर्वकं पुनश्च तस्मै धन्यवादान् समर्पितवान् ।

मनसा वेदव्यासं अभिनन्दन् दक्षः तस्मै कृतज्ञतां समर्प्य स्वगृहं प्रतिगतवान् । पुत्रात् सर्व वृत्तान्तं ज्ञात्वा कृपालुः अपि सन्तुष्टः अभवत् ।

सम्भाषणसन्देश:, सप्टेंबर १९९५

आचरणद्वारा बोधनम्।

 १९४२ तमे वर्षे मार्चमासे कश्चित् राष्ट्रियनायकः बिहारराज्ये सञ्चारं कुर्वन् आसीत् । तदा वैसराय्-वर्यः - "भवान् मिलतु । बहु प्रधानं सम्भाषणं करणीयम् , अतः विमानेन एव आगच्छतु" इति वार्तां प्रेषितवान् । सः नायकः वैसराय्-वर्यस्य मेलनम् अङ्गीकृतवान् । किन्तु सः विमानेन गमनं तिरस्कृतवान् । 'सहस्राधिकाः भारतीयाः सञ्श्चरितुं न येन शक्नुवन्ति तेन गन्तुम् अहम् अपि न इच्छामि" इति उक्तवान् सः ।

ततः सः सहचारिणीम् आहूय "धूमशकटे तृतीयस्तरीये विभागे गमनाय व्यवस्थां करोतु । गमनसमये बहु न्यूनं वस्तु स्वीकरोतु" इति उक्तवान् ।

निश्चिते दिने सः नायकः तस्य सहचारिणी च धूमशकटेन प्रवासम् आरब्धवन्तौ । नायकस्य प्रवासार्थम् सा सहचारिणी विभागद्वयम् (Cabin द्वयम्) आरक्षितवती आसीत् । एकं तस्य वस्तूनि स्थापयितुम्, अन्यत् तस्य उपवेशनार्थं शयनार्थं च इति ।

पाटनातः यानं प्रस्थितम् । सः घर्मकालः । प्रातः दशवादनसमये सहचारिणी आगत्य 'भोजनं सिद्धम्' इति उक्तवती । तदा सः नायकः किमपि लिखन् आसीत् । सः शिरः उन्नीय ताम् उक्तवान् "वातायनतः बहिः पश्यतु" इति । 'मत्तः कोऽपि दोषः जातः स्यात् वा' इति चिन्तयन्ती सा किञ्चित् भीता ।

सा वातायनसमीपम् आगत्य बहिः दृष्टिं प्रसारितवती । बहवः जनाः द्वारे विद्यमानं दण्डं गृहीत्वा लम्बमानाः,स्थित्वा प्रवासं कुर्वन्त: आसन् ।

तदा सः नायकः तां पृष्टवान् "भवती एव द्वितीयं विभागं मदर्थं रक्षितवती किम् ?" इति ।

"आम् । मया एव विभागद्वयम् भवतः निमित्तं रक्षितम् । एकस्मिन् एव विभागे भवतः असौकर्यं भवति इति अहं चिन्तितवती" इति सा उक्तवती ।

"भवती मम विषये एतावत् चिन्तयति इति तु सन्तोषकरः विषयः एव । मम विषये बहु अवधानं दत्तवती भवती । तथैव बहिः स्थित्वा प्रयाणं कुर्वतां विषये कदाचित् भवत्या चिन्तितं वा ?" इति सः तां पृष्टवान् ।

तस्य वचनं श्रुत्वा सा रोदनम् आरब्धवती । तदा सः उक्तवान् "मम वचनस्य आशयः ज्ञातः चेत् भवती एवं रोदनं न अकरिष्यत् । अग्रिमस्थानके स्थानकप्रमुखम् आह्वयतु" इति।

गत्वा अग्रिमस्थानके सा स्थानकप्रमुखम् आनीतवती । सः नायकः तम् उक्तवान् "भोः, एषा केनापि कारणेन मम निमित्तं विभागद्वयम् आरक्षितवती । अहं तं द्वितीयं विभागं रिक्तीकृतवान् अस्मि । तत्र लम्बमानान् आहूय अत्र तेषाम् अवकाशं कल्पयतु । तेनैव मम दुःखं न्यूनं भवति" इति ।

स्थानकप्रमुखः तथैव कृतवान् । अनन्तरमेव सः नायकः प्रशान्तः अभवत् ।

एषः एव नायकः महाबलेश्वरे यदा आसीत् तदा प्रतिदिनं सायङ्कले विहारार्थं गच्छति स्म । तदा मार्गे कश्चित् बालकः प्रतिदिनं तं नमस्करोति स्म ।

तस्य बालकस्य समीपे धर्तुं वस्त्राणि न आसन् । सः एकं मलिनं पुरातनं कौपीनं धरति स्म । स्नानेन विना तस्य शरीरं मलिनम् आसीत् । स्कन्धे एकं छिन्नं वस्त्रं धरति स्म सः । नायकः प्रतिदिनं तं बालकं पश्यति स्म । सः बालकः प्रतिदिनं तं नमस्करोति स्म ।

एकस्मिन् दिने सः नायकः सहयोगिनं कश्चित् आहूय - "तस्य बालकस्य समीपे अन्यत् कौपीनमपि न स्यात् । भवान् तं वदतु यत् श्वः अत्रैव आगच्छतु । भवते बहु मधुरभक्ष्याणि दद्मः इति" इति उक्त्वा तस्य समीपं प्रेषितवान् । सहकारी तस्य आदेशानुसारं गत्वा नायकस्य वचनं बालकं यथावत् उक्तवान् ।

अनन्तरदिने सः नायकः तस्य बालकस्य निमित्तं नूतनवस्त्रं, मधुरभक्ष्याणि, फेनकं च आनीतवान् । सर्वं तस्मै दत्त्वा "एतत् वस्त्रं भवान् धरतु । एतेन फेनकेन प्रतिदिनं स्नानं करोतु । वस्त्राणि क्षालयतु च। यदा फेनकं समाप्यते तदा मां वदतु। अहं पुनः दास्यामि" इति ।

बालकः बहु सन्तुष्टः । सः तदारभ्यः प्रतिदिनं स्नानम् आरब्धवान् ।

एवं सः महापुरुषः नायकः, केवलेनभाषणेन समाजे परिवर्तनम् आनेतुं न शक्यते इति सम्यक् ज्ञातवान् इति कारणेन स्वयं कार्यं कुर्वन् अन्यान् बोधितवान् । सः नायकः एव अहिंसामार्गेण सत्याग्रहद्वारा स्वातन्त्र्यार्थं कार्यं कृतवान्, भारतस्य राष्ट्रपिता इति ख्यातः च मोहनदास-करमचन्दगान्धिवर्यः ।

सम्भाषणसन्देश:, अगस्त १९९५

मम वंश: नश्यतु।

 उत्कलदेशं पूर्वम् इन्द्रद्युम्नः नाम राजा पालयति स्म । सः महान् देवभक्तः । सः भगवतः निमित्तं पुरीनगरे भव्यं मन्दिरं निर्मितवान् । मन्दिरकार्यसमाप्तेः अनन्तरं कदाचित् सः निश्चिन्ततया सुप्तवान् आसीत्। तदा तदीये स्वप्ने प्रत्यक्षीभूय भगवान् जगन्नाथः उक्तवान् "भक्ताग्रेसर ! भवतः कार्येण अहं सन्तुष्टः अस्मि । भवान् यत् इच्छति तत् प्रार्थयतु" इति ।

तदा इन्द्रद्युम्नः उक्तवान् "भगवन् ! फलापेक्षया मया एतत् कार्यं न कृतम् । अतः अहं किमपि न इच्छामि" इति ।

एतत् श्रुत्वा देवः जगन्नाथः पुनः उक्तवान् - "भवान् प्रतिफलापेक्षां विना कार्य यत् कृतवान् तत् सन्तोषकरम् एव । अहं सन्तोषेण स्वयं यत् ददामि तस्य स्वीकारे न कोऽपि दोषः । अतः अपेक्षितं वरं प्रार्थयतु तावत्" इति ।

"भगवन् ! वरेण अनुग्रहणीयम् एव इति भवतः सङ्कल्पः अस्ति चेत् मम अल्पाम् अपेक्षां पूरयतु तावत् । मम वंशे इतःपरं कोऽपि जीवितः यथा न तिष्ठेत् तथा वरेण अनुगृह्णातु कृपया" इति प्रार्थितवान् इन्द्रद्युम्न: ।

तदा देवः आश्चर्येण पृष्टवान् "भक्तवर ! का एषा विचित्रा अपेक्षा भवतः ? अष्टादश पुत्राः सन्ति खलु भवतः ? किं तेषां सर्वेषाम् अपि मरणम् इच्छति भवान् ? किमर्थम् एवम् ?" इति ।

एतत् श्रुत्वा इन्द्रद्युम्रः गाम्भीर्यमिश्रितेन स्वरेण उक्तवान् "एतस्य विशालस्य मन्दिरस्य, भवतः मूर्तेः प्रतिष्ठापनस्य च श्रेयः मम वंशेन प्राप्तम् अस्ति। यदि मम वंशे अग्रे केऽपि भवेयुः तर्हि ते अहङ्कारेण वशीकृताः भवेयुः । 'मम पित्रा, पितामहेन वा कृतम् एतत् महत् कार्यम्' इति वदन्तः गर्वम् अनुभवन्तः च ते निःस्वार्थभावनाजनितं पुण्यफलं नाशयेयुः । अतः एव मम प्रार्थना यत् मम वंशे इतःपरं कोऽपि न भवेत् इति" इति ।  जगन्नाथः 'तथास्तु' इति उक्तवान् । अचिरात् एव इन्द्रद्युम्नस्य वंशः समूलम् उच्छिन्नः जातः ।

पुरीप्रवेशमार्गे 'अठरनला' नामिका श्मशानभूमिः अस्ति, यत्र च इन्द्रद्युम्नस्य अष्टादशपुत्राणां स्मारकाणि अद्यपि द्रष्टुं शक्यानि ।

सम्भाषणसन्देश:, अगस्त १९९५

दानस्य माहात्म्यम्।

 पूर्वं कश्चन धनिकः आसीत् । सः महाकृपणः आसीत् । धनव्ययभीत्या सः न रुचिकरं भोजनं करोति स्म, न उत्तमानि वस्त्राणि धरति स्म, न वा भोगसाधनानाम् उपयोगं करोति स्म । भिक्षुकाः तस्य गृहस्य समीपम् आगन्तुम् अपि न शक्नुवन्ति स्म । पुण्यकार्यार्थम् अपि सः धनव्ययम् एव न करोति स्म ।

सः यस्मिन् नगरे वसति स्म, तस्मिन् नगरे कदाचित् कश्चन घोरः साङ्क्रामिकरोगः प्रसृतः । रोगकारणतः बहवः मृताः अभवन् ।

जनानां दुर्गतिं दृष्ट्वा खिन्नः कश्चन महात्मा तत् नगरम् आगतवान् । नगरस्य दुःस्थिति सम्यक् अवगतवान् सः । निर्धनानां रोगग्रस्तानां सेवार्थं प्रभूतं धनम् आवश्यकम् आसीत् । 'एतदर्थं धनसङ्ग्रहः करणीयः' इति निश्चितवान् सः । धनदानसमर्थाः धनिकाः नगरे के के सन्ति इति जनान् विचार्य सः धनिकानां नामानि सङ्गृहीतवान् । किन्तु धनिकाः अपरिचिताय धनं न यच्छन्ति खलु ? एतदर्थ सः महात्मा एकम् उपायं कृतवान् ।

सः तस्य महाकृपणस्य समीपं गत्वा नमस्कृत्य स्वस्य उद्देशं निवेद्य प्रार्थितवान् - "श्रीमन् ! भवता मम एक साहाय्यं करणीयम् । तच्च न धनरूपेण । भवता दशसहस्ररूप्यकात्मकम् एकं धनादेश- पत्रं (चेक्) मह्यं दातव्यम् । सायं तत् भवते प्रतिदास्यामि । एतेन भवतः अल्पः अपि व्ययः न भविष्यति" इति।

तदा सः कृपणधनिकः पृष्टवान्"तादृशं धनादेशपत्रं स्वीकृत्य किं करिष्यति भवान् ?" इति ।

"अहं तत् अन्यधनिकेभ्यः प्रदर्शयिष्यामि । तत् दृष्ट्वा आश्वर्यम् अनुभवन्तः ते औदार्येण धनं दास्यन्ति । एवम् अधिकप्रमाणेन धनसङ्ग्रहणे भवतः धनादेशपत्रं साहाय्यं करिष्यति" इति उक्तवान् स महात्मा ।

'एतादृशपत्रदानेन महात्मनः प्रयोजनं न भवेत् । किन्तु मम हानिः तु कापि नास्ति' इति चिन्तयित्वा कृपणधनिकः महात्मने दशसहस्ररूप्यकात्मकं धनादेशपत्रं दत्तवान् ।

सायङ्कालाभ्यन्तरे तेन महात्मना लक्षशः रूप्यकाणि सङ्गृहीतानि । सायं सः धनिकाय तत् धनादेशपत्रं प्रतिदातुं यदा उद्युक्तः तदा सः धनिकः तस्य स्वीकरणं निराकृतवान् । 'एतस्य किं कारणम् ?' इति आश्चर्येण कृपणधनिकं पृष्टवान् महात्मा ।

तदा कृपणधनिकः उक्तवान् "दानतः कीदृशी तृप्तिः प्राप्यते इति अद्य ज्ञातं मया । भवान् धनादेशपत्रं स्वीकृत्य गतवान् खलु ? ततः बहवः गृहम् आगत्य मम दानस्य प्रशंसां कृतवन्तः । अन्ये केचन पत्रद्वारा अभिनन्दन्तः प्रशंसां कृतवन्तः । ततः या तृप्तिः प्राप्ता तादृशी तृप्तिः मया जीवने इतः पूर्वं कदापि न प्राप्ता आसीत् । यदि धनादेशपत्रम् अहं प्रतिस्वीकुर्यां तर्हि सा तृप्तिः नश्येत् । तत् न इच्छामि अहम् । अतः तत्र उल्लिखितं धनं भवतः सेवाकार्यार्थं स्वीकरोतु भवान्" इति। एतत् वचनं श्रुत्वा महात्मा आश्चर्येण मूकः अभवत् ।

सम्भाषणसन्देश:, अगस्त १९९५

राष्ट्रभक्ते: मूर्तं रूपम्।

 सः स्वातन्त्र्यपूर्वसमयः। भारते ग्रामे, नगरे, सर्वत्र देशभक्तेः प्रवाहः वहति स्म। अनेके जनाः स्वजीवनानि राष्ट्राय समर्पितवन्तः । तत्र विद्यार्थिनाम् अपि महान् सहभागः आसीत् ।

तदा आंग्लसर्वकारेण स्वातन्त्र्य-आन्दोलनस्य दमनार्थं बहूनि शासनानि कृतानि आसन्। तेषु अन्यतमं शासनं -"वन्दे मातरम्" इत्येतस्य घोषणस्य निषेधः । सर्वे देशभक्ताः एतस्य विरोधं कृतवन्तः ।

तत्समये नागपुरनगरे नीलसिटिप्रौढशालायां कश्चित् धीरः बालकः पठति स्म। सः बालकः चिन्तितवान् यत् केनापि प्रकारेण एतस्य शासनस्य भङ्गः करणीयः इति । अनन्तरदिने शालां प्रति आंग्लनिरीक्षकस्य आगमनम् आसीत् । मुख्याध्यापकः एकैकाम् अपि कक्ष्यां गत्वा सूचितवान् आसीत् यत् अधिकारी यदा आगच्छति तदा केनाऽपि 'वन्दे मातरम्' इति घोषणा न वक्तव्या इति ।

अनन्तरदिने सः अधिकारी निरीक्षणार्थं कामपि एकां कक्ष्यां गतवान् । सर्वे छात्राः उत्थाय उच्चैः 'वन्दे मातरम्' इति उक्तवन्तः । भीतः मुख्याध्यापकः झटिति तम् अधिकारिणम् अन्यां कक्ष्यां नीतवान् । तत्रापि सर्वे छात्राः मिलित्वा 'वन्दे मातरम्' इति उच्चैः उक्तवन्तः । सर्वासु कक्ष्यासु अपि एतादृशमेव स्वागतं प्राप्तवान् सः अधिकारी।

कुपितः अधिकारी मुख्याध्यापकम् उक्तवान् "कः एतादृशस्य राजद्रोहस्य प्रचोदकः ? इदानीम् एव अहं ज्ञातुम् इच्छामि । तस्मै कठोरः दण्डः दातव्यः" इति।

किन्तु कोऽपि छात्रः नायकस्य नाम न उक्तवान् । कानिचन दिनानि शाला पिहिता। पश्चात् सः धीरः बालकः एव नायकः इति ज्ञात्वा तं शालातः निष्कासितवन्तः अधिकारिणः ।

तस्य एव बालकस्य जीवनस्य अपरा एका घटना । सः बालकः पितृव्येन सह एकत्र गतवान् । तत्र आंग्लशासनाधिकारी अपि आगतवान् आसीत् । बालकस्य पितृव्यः सम्भाषणसमये बालकस्य परिचयं कारयन् उक्तवान् - "एषः बालकः अत्यन्तं बुद्धिमान्, तीक्ष्णमतिः च। किन्तु पठनस्य अपेक्षया अस्य स्वातन्त्र्य-आन्दोलने एव अधिका आसक्तिः" इति।

तदा सः अधिकारी बालकं बोधितवान् "छात्रैः आन्दोलनेषु भागः न ग्रहीतव्यः । ज्ञानार्जनम् एव तेषां प्रधानं लक्ष्यम् । अध्ययनस्य समाप्तेः अनन्तरं यदा ते प्रौढाः भविष्यन्ति तदा ते आन्दोलने कार्यं करिष्यन्ति चेत् कोपि आक्षेप: नास्ति" इति।

 तदा सः बालकः उक्तवान् भवतां वचनं साधु एव । अहम् अपि अङ्गीकरोमि । अद्य आरभ्य अहं स्वातन्त्र्य-आन्दोलने भागं न गृह्णामि। किन्तु राष्ट्रस्य कार्यं तु केनापि करणीयमेव किल ? भवतां सर्वेषां तु विद्यार्थिजीवनं समाप्तम् अस्ति । भवन्तः सर्वे इदानीं प्रौढाः । अतः यदि भवन्तः उद्योगं त्यक्त्वा राष्ट्रकार्ये निरताः भवन्ति तर्हि अहं निश्चिन्तः सन् अध्ययने एव मग्नः भवामि" इति।

बालकस्य तीक्ष्णम् उत्तरं श्रुत्वा सः अधिकारी दिग्भ्रान्तः । सः किमपि अवदन् मौनं ततः अन्यत्र गतवान् । एवम् आसीत् तस्य बालकस्य राष्ट्रभक्तिः, निर्भयता च ।

अयमेव बालकः अग्रे वैद्यकीयशिक्षणव्याजेन कलकत्तानगरं गत्वा क्रान्तिकारिभिः सह कार्यं कृतवान् । आन्दोलनेषु भागं गृहीत्वा कारागृहम् अपि गतवान् । अन्ते सः चिन्तितवान् - "आन्दोलनेन स्वातन्त्र्यं तु लभ्येत । किन्तु लब्धस्य स्वातन्त्र्यस्य रक्षणार्थं जनाः यावत् सिद्धाः न भवन्ति तावत् पारतन्त्र्यप्राप्तेः भयम् अस्ति एव । अतः सर्वेभ्यः राष्ट्रभक्तेः शिक्षणं दातव्यम्" इति ।

स्वचिन्तनस्य साक्षात्कारः तेन राष्ट्रिय-स्वयंसेवक-सङ्घस्य द्वारा कृतः । इदानीं समग्रे देशे रा.स्व. सङ्घस्य नाम सर्वे जानन्ति एव । अस्य संस्थापकः एव सः बालकः श्री. केशव-बलिराम-हेडगेवार: य: स्वजीवनं राष्ट्रयज्ञे समर्पितवान्, अन्यान् अपि स्वसदृशान् बहून् निर्मितवान् च।

सम्भाषणसन्देश:, जुलै १९९५

विपरीत: आशीर्वाद:।

 श्रीकृष्णः भक्तवत्सलः । कदाचित् सः अर्जुनेन सह नगरे सञ्चारं कुर्वन् आसीत् । एवं सञ्चारं कुर्वन्तौ तौ एकस्य दरिद्रस्य गृहं गतवन्तौ ।


सः धनेन दरिद्रः आसीत्, न तु गुणैः। भगवच्चिन्तनेन, भावन्नामस्मरणेन, भगवत्पूजया च सः दिनं यापयति स्म । लौकिकव्यवहारेषु तस्य आसक्तिः सर्वथा न आसीत् । तस्य एका धेनुः आसीत् । धेनुतः प्राप्तं क्षीरम् एव तस्य प्रधानः आहारः आसीत् ।

गृहम् आगतं श्रीकृष्णम् अर्जुनं च दृष्ट्वा सः निर्धनः नितरां सन्तुष्टः । सः तौ सन्तोषेण स्वागतीकृतवान् । भक्त्या विनयेन च तौ नमस्कृत्य विविधैः उपचारैः तौ सत्कृतवान् ।

दरिद्रस्य आतिथ्येन सन्तुष्टः श्रीकृष्णः आशीर्वादं कृतवान् - "धेनुवियोगः भवतु भवतः" इति ।

ततः निर्गतौ तौ एकस्य धनिकस्य गृहं गतवन्तौ । सः धनिकः गर्वयुक्तः दुष्टः च आसीत् । दुर्व्यसनानां दासः आसीत् सः । गृहम् आगतौ एतौ दृष्ट्वा सः नितरां कुपितः । अवाच्यैः शब्दैः निन्दन् सः श्रीकृष्णार्जुनयोः अपमाननं कृतवान् । एतत् सर्व दृष्टवतः अर्जुनस्य कोपः आगतः । किन्तु कृष्णः तु हसन्मुखः एव आसीत् । सः मन्दहासपूर्वकं धनिकम् उक्तवान् -"भवतः सम्पत्तिः प्रवृद्धा भवतु" इति ।

अर्जुनः एतत् श्रुत्वा नितराम् आश्चर्यचकितः । सः आश्चर्येण एव श्रीकृष्णं पृष्टवान् "श्रीकृष्ण ! कः एषः विचित्रः व्यवहारः भवतः ? सः निर्धनः भक्त्या भवतः आतिथ्यं कृतवान् आसीत् । तम् उद्दिश्य भवान् आशीर्वादं कृतवान् - 'धेनुवियोगः भवतु भवतः' इति । एषः धनिकः तु दर्पेण व्यवहरन् भवतः अपमाननं कृतवान् । एतम् उद्दिश्य भवान् आशीर्वादं कृतवान् 'भवतः सम्पत्तिः अभिवृद्धा भवतु' इति । किमर्थम् एवम् ?' इति ।

तदा श्रीकृष्णः उक्तवान् "अर्जुन ! भगवद्भक्तस्य तस्य निर्धनस्य एकमात्राधारः धेनुः एव । यदि धेनोः वियोगः भवेत् तर्हि सः निर्धनः वैराग्यं प्राप्नुयात्। ततः उन्नतिमार्गे पदं स्थापयेत् । मोक्षं च प्राप्नुयात्। अतः धेनोः वियोगात् एव तस्य श्रेयः । किन्तु धनिकस्य न तथा । यदि तस्य सम्पत्तिः वर्धते तर्हि सः अधिकाधिकं लौकिकसुखेषु आसक्तः भविष्यति । देवं च सर्वथा विस्मरिष्यति । अनेकानि पापकृत्यानि करिष्यति । अन्ते नरकवासं अनुभविष्यति । नरकवासानन्तरम् एव तस्य उत्तमं जीवनं भवेत् कदाचित् । अतः एव शीघ्रातिशीघ्रं तस्य नरकप्राप्तिः भवतु इति उद्देशेन मया 'सम्पत्तेः अभिवृद्धिः भवतु' इति आशीर्वादः कृतः" इति। 

श्रीकृष्णस्य व्यवहारस्य औचित्यं दृष्ट्वा अर्जुनः आश्चर्यचकितः अभवत् ।

सम्भाषणसन्देश:, जुलै १९९५

मरणात् पूर्वमपि व्यायाम:।

गोरखपुरस्य कारागारम् । तत्र 'काकोरी' प्रकरणसम्बन्धी कश्चित् बन्धने स्थापितः आसीत् । विचारणा प्रवृत्ता । अन्ते एकस्मिन् दिने न्यायाधीशः उद्घोषितवान् - 'एतस्य अपराधः प्रमाणितः अस्ति । अतः एषः शूलारोपणेन दण्ड्यते' इति । एतत् तु पूर्वनिरीक्षितम् एव आसीत् । अतः एतत् उद्घोषणं श्रुत्वा अपि सः राष्ट्रभक्तः न खिन्नः, अपि तु सन्तोषेण हसितवान् - कठोरात् कारागारवासात् मोक्षः प्राप्तः इति कारणतः, मातुः पदतले जीवनपुष्पं समर्पयितुं मयापि अवकाशः प्राप्तः इति कारणतः च ।

पुत्रस्य मरणदण्डन‌विधानं ज्ञात्वा माता धावन्ती पुत्रसमीपम् आगतवती । सः राष्ट्रभक्तः मातरं पादयोः नमस्कृतवान्, ततः ताम् आलिङ्ग्य उच्चैः रोदनम् आरब्धवान् च ।

एतत् दृष्ट्रा खिन्ना माता उक्तवती -"अहं चिन्तितवती आसं यत् मम पुत्रः धीरः राष्ट्रभक्तः इति । किन्तु किम् एतत् वत्स ! मरणात् भीतिः वा भवतः ? यदि मरणं ससन्तोषं स्वागतीकर्तुं धैर्यं नास्ति भवतः, तर्हि किमर्थं वा एषः मार्गः आश्रितः भवता ?" इति।

तदा पुत्रः सगद्गदम् उक्तवान् "अम्ब ! मरणात् अल्पा अपि भीतिः नास्ति मम । भवत्याः पुत्रः अहं मरणात् कथं वा भीतः भवेयम् ? सिंहीपुत्रः सिंहः एव भवति, न तु शृगालः। अतः अलं चिन्तया । इतः परं भवत्याः वात्सल्यं प्राप्तुं न शक्नोमि इत्यतः एतानि अश्रूणि अम्ब । धीरा वात्सल्यमयी च भवती पुत्रवियोगात् खिन्ना भविष्यति इति स्मरतः मम अश्रूणि अम्ब। एतानि कदापि भीतिजनितानि न" इति ।

राष्ट्रभक्तस्य शूलारोपणदिनं सम्प्राप्तम् । तस्मिन् दिने प्रातः एव कारागाराधिकारी तं राष्ट्रभक्तम् एतं विषयं स्मारितवान् । तथापि गम्भीरवदनः सः राष्ट्रभक्तः निरातङ्क: स्थितवान् । प्रतिदिनम् इव तस्मिन् अपि दिने सः भगवतः पूजां कृतवान् । श्रद्धया भगवद्गीतां पठितवान्। शारीरकव्यायामम् अपि यथापूर्वं कृतवान् ।

एतत्सर्वं दृष्ट्वा सः कारागाराधिकारी आश्चर्येण पृष्टवान् "भोः, अचिरात् एव शूलारोपणं प्राप्नुवतः भवतः पूजा-गीतापारायणादिकं युक्तम् एव । मरणस्य सम्मुखीकरणे तादृशानि कार्याणि मनःस्थैर्यम् उत्पादयन्ति । किन्तु आसन्नमरणस्य भवतः एषः शारीरकव्यायामः किमर्थम्?" इति।तदा सः राष्ट्रभक्तः उक्तवान् "श्रीमन् । वयं भारतीयाः पुनर्जन्मनि विश्वसिमः । एतस्य जन्मनः कर्मणां फलम् एव अग्रिमे जन्मनि भविष्यति इति श्रूयते । अग्रिमे जन्मनि अपि मया देशार्थं कार्यं करणीयं, कष्टानि च अनुभोक्तव्यानि । तदर्थम् उत्तमं शरीरम् आवश्यकम् एव खलु ? अतः अद्यापि व्यायामं कृतवान् अहम्" इति। एतत् श्रुत्वा सः कारागाराधिकारी आश्चर्यचकितः जातः ।

एषः अप्रतिमः राष्ट्रभक्तः एव 'रामप्रसाद बिस्मिलः' । मातृभूम्यै आत्मानं ससन्तोषं समर्पयन् सः बहूनां प्रेरणादायकः जातः ।

सम्भाषणसन्देश:, जून १९९५

बुभुक्षाया: निवारणम्।

भगवान् बुद्धः शिष्यैः सह देशसञ्चारं कुर्वन् जनान् नीतिं बोधयति स्म । कदाचित् वृष्टेः अभावतः श्रावस्तीपरिसरे महान् क्षामः उद्भूतः। राजा यद्यपि क्षामनिवारणार्थम् आहाराभावसमस्यां परिहर्तुं च यथाशक्ति प्रयत्नं कुर्वन् आसीत्, तथापि क्षामस्य पीडया जनाः कष्टम् अनुभवन्तः एव आसन् । भगवान् बुद्धः देशस्य एतां परिस्थितिं दृष्ट्वा नितरां खिन्नः ।

क्षामपीडापरिहारार्थ किमपि करणीयम् इति निश्चित्य सः प्रमुखान् कांश्चित् मेलितवान् । देशस्य स्थितिं निवेद्य, करणीयस्य कार्यस्य महत्त्वं चापि सः वर्णयित्वा पृष्टवान् "भवत्सु कः निर्धनानां बुभुक्षां निवारयितुं शक्नोति ?" इति ।

क्षणकालं सभायां मौनं व्याप्तम् । सर्वे परस्परं मुखं पश्यन्तः  उपविष्टवन्तः आसन् । तदा कश्चन धनिकः वणिक् उत्थाय उक्तवान्- "भगवन् ! निर्धनानां बुभुक्षा निवारणीया इति चिन्तनं युक्तम् एव । अवश्यं करणीयं कार्यम् एतत् । किन्तु मम समीपे यत् ऐश्वर्यम् अस्ति तत् एतस्य महतः कार्यस्य निमित्तम् अत्यल्पम्" इति ।

तदा सेनाधिकारी कश्चित् उत्थाय उक्तवान् ,"यदि आवश्यकता भवति तर्हि मम शरीरस्य रक्तेन तर्पणं कुर्याम् । मम सैनिकाः अपि आत्मसमर्पण कुर्युः । किन्तु निर्धनेभ्यः दातुम् आहार: तु अस्मत्समीपे नास्ति" इति ।

एतदनन्तरं विशालभूमेः स्वामी उत्थाय उक्तवान्- "मम विशाला भूमिः यद्यपि अस्ति, तथापि ततः आयः नास्ति इदानीम्। यदि मम भूमिः समृद्धा स्यात् तर्हि अहं मम समग्रां सम्पत्तिं निर्धनेभ्यः अर्पयेयम् । प्रकृतन्तु करदानेपि कष्टम् अनुभवन् अस्मि।"

अन्ते सुप्रिया नाम भिक्षुः उत्थाय दृढस्वरेण उक्तवती "अहं निर्धनानां बुभुक्षां निवारयिष्यामि " इति ।

तदा तत्र सम्मिलिताः सर्वे आश्चर्येण पृष्टवन्तः "कथं शक्यते एतत् ? भिक्षायाचनेन स्वजीवनं यापयन्ती भवती कथं वा समस्त-निर्धनजनतायाः बुभुक्षां निवारयितुं शक्नुयात् ?" इति ।

तदा सुप्रिया शान्तेन, किन्तु दृढेन स्वरेण उक्तवती "अहं स्वयं निर्धना, भिक्षायाचनपूर्वकं जीवनं यापयामि इत्येतत् सत्यम् एव । किन्तु स्मरन्तु - भिक्षा एव ममं शक्तिः । मम निकटे भिक्षापात्रम् अस्ति। देशे धनिकाः अपि सन्ति बहवः। निर्धनानां बुभुक्षायाः निवारणार्थम् अपेक्षितानि धान्यानि तेषां धनिकानां धान्यागारेषु सन्ति । अतः न कोऽपि क्लेशः मम कार्ये" इति ।

आत्मविश्वासयुक्तम् एतत् वचनं श्रुत्वा तत्र सम्मिलिताः सर्वे आश्चर्येण स्तब्धाः अभवन् । भगवान् बुद्धः मन्दहासपूर्वकं सुप्रियाम् आशीर्वादेन अनुगृहीतवान्।

सम्भाषणसन्देश: ,जून १९९५

कलिपुरुषस्य स्थानम्।

 परीक्षिद्राज: अर्जुनस्य पौत्रः । सः अभिमन्योः पुत्रः। पाण्डवानां महाप्रस्थानस्य अनन्तरं परीक्षित् राजा जातः । सः पण्डितः विवेकी च आसीत् । प्रजानां क्षेमार्थं सः बहूनि कार्याणि अकरोत् ।कदाचित् राजा मृगयार्थम् अरण्यं गतवान् आसीत् । तत्समये सः सरस्वतीनदीतीरे राजवेषं धृतवन्तं कञ्चित् दुष्टं पुरुषं दृष्टवान्। स च दुष्टः पुरुषः, एकेन एव पादेन तिष्ठन्तम् एकं श्वेतवृषभं दण्डेन प्रहरन् आसीत् । तस्य पार्श्वे एका साध्वी धेनुः आसीत्। तस्याः नेत्राभ्याम् अश्रूणि स्रवन्ति स्म।

एतत् दृष्ट्वा कुपितः राजा तस्य पुरुषस्य समीपं गत्वा "भोः, किमर्थम् एतं वृषभं पीडयति भवान् ? अहम् एतस्य देशस्य राजा अस्मि । मम शासने, विना कारणं कस्यापि पीडनार्थं नास्ति अधिकारः" इति उक्तवान् ।

ततः सः वृषभं पश्यन् पृष्टवान् "कथं भवतः त्रयाणां पादानां नाश: अभवत् ? एतादृशं कष्टं किमर्थं भवतः ?" इति।

तदा वृषभः अवदत् "मम एतस्य कष्टस्य कारणं कि स्यात् इति भवान् एव ऊहां करोतु । केचन वदन्ति - इन्द्रियाणां कारणतः कष्टानि इति । पुनः केचन वदन्ति पूर्वजन्मनः कर्मणां कारणतः कष्टानि इति। अन्ये केचन दैवकारणतः इति वदन्ति । अत्र किं सत्यम् इति अहं न जानामि । कृपया भवान् एव विचिन्त्य वदतु" इति ।परीक्षित् किञ्चित्‌कालं चिन्तनं कृतवान् । 

सम्यक् चिन्तनात् सः ज्ञातवान् "एषः वृषभरूपः साक्षात् धर्मः एव । तपः, सच्चारित्र्यं, दया, सत्यं चेति धर्मस्य चत्वारः पादा:। तपसः, सच्चारित्र्यस्य, दयायाः च नाशात् इदानीं सत्यरूपः पादः एकः एव अवशिष्टः अस्ति। अधर्मस्य आश्रयभूतः कलिः एव एषः दुष्टः पुरुषः। एषः धर्मस्य सत्यरूपं पादम् अपि भञ्जयितुं प्रयत्नं कुर्वन् अस्ति। पार्श्वे या धेनुः अस्ति सा भूदेवी। अधर्मस्य पीडाम् असहमाना सा रोदनं करोति' इति।

अनन्तरं सः धर्मं भूदेवी च उद्दिश्य -'भीतिः मास्तु भवतोः' इति उक्त्वा तयोः सान्त्वनं कृतवान् । ततः तीक्ष्णं खड्गं कोषात् आाकृष्य कलि संहर्तुम् उद्युक्तः अभवत् च ।

एतत् दृष्ट्वा भीत्या कम्पमानः कलिपुरुषः परीक्षिद्राजस्य पादौ गृहीत्वा क्षमां याचमानः शरणं गतवान्। शरणागतस्य संहारं कर्तुम् अनिच्छन् परीक्षित् "यद्यपि शरणं गच्छन् भवान् स्वस्य प्राणान् रक्षितवान्, तथापि अधर्मबन्धुः भवान् मम राज्ये न तिष्ठेत्। निर्गच्छतु भवान् इतः" इति आदिष्टवान् ।

तदा कलिपुरुषः "महाराज ।भवतः आज्ञां शिरसा पालयामि । किन्तु, समग्रं भूमण्डलम् एव भवतः राज्यम्। एवं स्थिते मम वासः कुत्र वा स्यात् ? यथाकथञ्चित् मया अपि कुत्रापि वासः तु करणीयः एव खलु ? अतः यत्र अधर्मः, द्यूतं, मद्यपानं, हिंसा, असत्यं, मदः, वैरम् इत्यादयः भवन्ति तत्र वा मम वासार्थम् अनुज्ञां ददातु" इति प्रार्थितवान् ।

सम्भाषणसन्देश:, जून १९९५


एतस्य कारणतः धर्मादीनां हानिः न भवति इत्यतः परीक्षित् एतत् अङ्गीकृतवान् ।


अतः एव इदानीं पण्डिताः वदन्ति -'यत्र अधर्म-द्वेष-हिंसादयः भवन्ति तत्र कलिपुरुषः निवसति' इति।

पदार्थनिग्रहात् शान्ति:।

 पूर्वं कश्चन राजा आसीत् । कदाचित् सः तीव्रेण ज्वरेण पीडितः अभवत्। समर्था: राजवैद्याः आगत्य राज्ञः परीक्षणं कृतवन्तः । ज्वरः अत्यधिकः आसीत् इत्यतः ते 'तापशमनार्थ श्रीगन्धस्य लेपन करणीयम्' इति सूचितवन्तः ।

राज्ञी सेविकानां द्वारा श्रीगन्धकाष्ठखण्डान् आनायितवती । काश्चन सेविकाः पेषणम् आरब्धवत्यः । ताः सेविकाः हस्ते मृन्मयान् वलयान् धृतवत्यः आसन्। अतः पेषणसमये वलयानां शब्दः भवति स्म। ततः राज्ञः पीडा भवति स्म। राजा यद्यपि नेत्रे निमीत्य शयितवान् आसीत्, तथापि राज्ञी तस्य मुखस्य दर्शनात् एव पीडायाः अनुभवं ज्ञातवती ।

अतः सा सेविकाः सूचितवती "सर्वासां हस्ते एकः एव वलयः भवतु । अन्यान् वलयान् अपनयन्तु सर्वाः" इति। सेविकाः तथैव कृतवत्यः । ततः पेषणकार्यम् अनुवृत्तम् । किन्तु वलयानां शब्दः स्थगितः अभवत् ।

शब्दस्थगनं ज्ञातवान् राजा नेत्रे उन्मील्य राज्ञीं पृष्टवान् -"सेविकाः पेषणं स्थगितवत्यः वा?" इति।

"न । पूर्व ताः बहून् वलयान् धृत्वा कार्यं कुर्वत्यः आसन् । अतः महान् शब्दः भवति स्म। इदानीम् एकमात्रवलयं धृत्वा कार्यं कुर्वत्यः सन्ति। अतः शब्दः न श्रूयते" इति।

एतत् श्रुतवतः राज्ञः मनसि नूतनं तत्त्वम् एकं स्फुरितम् 'यदि अधिकसङ्ख्याकाः पदार्थाः भवन्ति तर्हि घर्षणम् उत्पद्यते। यदि च पदार्थसङ्ग्रहस्य निग्रहः क्रियते तर्हि शान्तिः प्राप्यते' इति । एतस्मात् तत्त्वात् प्रभावितः राजा ज्वरात् मुक्तेः अनन्तरं भोग-साधनादीनाम् उपयोगं न्यूनीकुर्वन्, प्रजाहितकार्यम् अधिकतया चिन्तयन् उत्तमं जीवनं यापितवान् ।

सम्भाषणसन्देश:, मे १९९५

मातृभूम्यै समर्पणम्।

 १९०७ तमे क्रिस्ताब्दे एकस्मिन् दिने लण्डन्नगरे भारतभवने विनायक-दामोदर-सावरकरस्य भाषणम् आसीत्। भाषणे तेन जपानीयानां देशभक्तिः पराक्रमः च वर्णितः। तदा भाषणस्य अन्ते कश्चित् युवकः उत्थाय उक्तवान् "सः कः महान् विषयः इति जपानीयानां वर्णन क्रियते भवता ? भारतीयाः अपि पराक्रमशालिनः, देशभक्ताः च। प्रपञ्चस्य जनाः अस्माकं पराक्रमस्य श्लाघनं करिष्यन्ति । भवन्तः सर्वे द्रक्ष्यन्ति च" इति।

सः युवकः तस्य कालस्य अत्याधुनिकेन वेषभूषणेन आत्मानम् अलङ्कृतवान् आसीत् । दर्शनेनैव सः विलासजीवी इति ज्ञायते स्म।

तं दृष्ट्वा हसन्तः अन्ये उक्तवन्तः "उत्तरकुमारेण इव वाचा पौरुषप्रदर्शनेन भवता उक्तं सिद्ध न भवति। यः राष्ट्रभक्तः भवति तेन बहु कष्टं सोढव्यं भवति" इति।

एवं तेषु महती चर्चा प्रवृत्ता । अन्ते सः युवकः उक्तवान् ,"भवन्तः मम परीक्षां कर्तुं शकुवन्ति । अहं सुमहत् कष्टं सोढुं समर्थः अस्मि" इति।

तदा कश्चित् युवकः एकां पत्रसूत्रीं स्वीकृत्य तस्य हस्ते वेधनं कृतवान् । पत्रसूची हस्तस्य अन्तः गता । रक्तम् उत्स: इव उद्गतम्। तथापि तस्य युवकस्य मुखे मन्दहासः यथापूर्वम् आसीत् । तस्य मनोदार्ढ्यं दृष्ट्वा तस्य स्नेहिताः सर्वे चकिताः ।

अन्यस्मिन् कस्मिश्चित् दिने भारतभवने काचित् विशिष्टा सभा प्रचलन्ती आसीत्। तदा सर्वे अकस्मात् उच्चै: गीतश्रावकयन्त्रद्वारा गीतं श्रुतवन्तः । तत् एकं प्रेमगीतम् आसीत् । कश्चित् पुनः पुनः तदेव गीतं श्रावयान् आसीत् । एतेन सभायां स्थितानां जनानां एकाग्रतायाः भङ्गः अभवत् । तदा कः सभायाः विघ्नोत्पादकः इति द्रष्टुं विनायक-सावरकरः बहिः आगतवान् । वरण्डे वातायनसमीपे एव सः अलङ्कारप्रियः युवक: गीत शृण्वन् नृत्यन् आसीत् । बहिः युवतीनां समूहः आसीत्। ताः गीतं शृण्वन्त्यः हसन्त्यः आसन्।

तस्य युवकस्य विषये सावरकरस्य महान् कोपः आगतः । अतः सः तम् उक्तवान् "कि भोः, भवतः वचने, आचरणे च साम्यता एव नास्ति खलु! । देशभक्तिविषये बहु वदति भवान्। किन्तु सभां तु नागच्छति। कि भवतः एतादृशः व्यवहारः देशभक्तानां योग्यः अस्ति ? भवान् सभाम् न आगच्छति चेत् अपि चिन्ता नास्ति । अन्येषां विघ्नं वा मा करोतु" इति ।

सावरकरस्य वचनं श्रुत्वा सः युवकः गीतश्रावकं स्वीकृत्य मौनं ततः गतवान्।

पञ्चषाणि दिनानि सः युवकः भारतभवनस्य मार्गे अपि न आगतवान्। अनन्तरं कदाचित् आगत्य एकस्मिन् दिने सावरकरेण मिलित्वा उक्तवान् "भोः, सावरकरमहोदय , किं राष्ट्रार्थम् आत्मसमर्पणस्य समयः सन्निहितः ?" इति ।

सावरकरः उक्तवान् "यदा आत्मसमर्पणार्थं निश्चयः क्रियते तदा समयः सन्निहितः इत्येव अर्थः" इति।

"तर्हि अहम् आत्मबलिदानार्थं सिद्धः अस्मि" इति सः युवकः उक्तवान् ।

"तर्हि मया सह आगच्छतु" इति उक्त्वा सावरकरः तं स्वप्रकोष्ठं नीतवान् । अनन्तरं तौ बहुकालं चर्चा कृत्वा एकां कार्ययोजनां निरूपितवन्तौ ।

तस्मिन् समये भारतीययुवकान् क्रान्तिकारिमार्गात् निवर्तयितुं 'न्याशनल इण्डियन् असोसियेशन्' नामिकां संस्थाम् आरब्धवन्तः आसन् आङ्ला: । एषः युवकः अपि तत्र गत्वा सदस्यः अभवत् ।

तस्मिन् समये इंग्लण्ड्देशे सचिवालयस्य शासनप्रमुखः सर् विलियम् कर्जन् वायली इति कश्चित् आसीत् । सः बहु दुष्टः आसीत् । अतः क्रान्तिकारिणः 'तस्य हननं करणीयम्' इति निश्चितवन्तः ।

तस्य युवकस्य पिता भारतदेशे आरक्षकाधिकारी आसीत् इति कारणेन कर्जन् वायली यदा भारते आसीत् तदा युवकस्य परिचितः जातः आसीत् । इङ्ग्लण्ड्‌देशे अपि कर्जन् वायली पूर्वपरिचयं स्मरन् तदा तदा तस्य युवकस्य कुशलं विचारयति स्म।

१९०९ तमे क्रिस्ताब्दे जुलैमासे प्रथमदिनाङ्के न्याशनल् इण्डियन् संस्थायाः वार्षिकोत्सवे कर्जन् वायलीवर्यस्य हननं तेन युवकेन करणीयमिति निश्चितम्। सः युवकः निश्चिते समये कार्यक्रमं गतवान् । तदा कर्जन्वायली सपत्नीकः कार्यक्रमं प्रति आगतवान् । एतं युवकं दृष्ट्वा सः एतस्य समीपम् आगतवान् । एषः युवकः किमपि रहस्यं वदन् इव बहु मन्दं सम्भाषणम् आरब्धवान् । तदा कर्जन्वायली तस्य अतिसमीपं गत्वा स्थितवान् । अनुक्षणं सः युवकः स्वकोशात् गोलकास्त्रं निष्कास्य तं हतवान् ।

क्षणाभ्यन्तरे तस्य बन्धनम् अभवत् । आंग्लन्यायालयेन तस्य मरणदण्डनं विहितम्। यदा न्यायालये वादः प्रचलन् आसीत् तदा सः युवकः उक्तवान् "यथा इङ्ग्लण्ड्देशम् आक्रम्य शासनं कर्तुं जर्मन्देशीयानाम् अधिकारः नास्ति, तथैव आंग्लानाम् अपि हिन्दुस्थानम् आक्रम्य शासनं कर्तुम् अधिकारः नास्ति । देशस्य स्वातन्त्र्यार्थं शत्रूणां हननं न्याय्यमेव । तथापि मम मरणदण्डनम् एव विधातव्यं, येन सहस्राधिकाः भारतीयाः युवकाः ततः प्रेरणां प्राप्य इतोऽपि उग्ररूपेण सङ्ग्रामं कुर्युः" इति।

सः युवकः एवं प्रसिद्धः क्रान्तिकारी श्री मनदलाल-धीङ्ग्रा। तस्य अन्तिमपत्रे तेन लिखितम् आसीत् "मादृशः दुर्बलः, मन्दबुद्धिः पुत्रः मात्रे स्वरक्तात् ऋते अन्यत् कि दातुं शक्नोति ? अतः मातृभूम्यै तदेव समर्पयन् अस्मि । पुनः अहम् अस्याम् एव भूम्यां जन्म प्राप्य पुनश्च राष्ट्रार्थं प्राणार्पणं कुर्याम् इति भगवन्तं प्रार्थयामि" इति।

सम्भाषणसन्देश:, मे १९९५

समय: अमूल्य:।

 झांसीप्रदेशस्य एकः छात्रः उच्चशिक्षणार्थम् अमेरिकादेशं गतवान् । तस्य छात्रावासः महाविद्यालयस्य पुरतः एव अनतिदूरे आसीत् ।

विद्यालयस्य आरम्भः प्रातः अष्टवादनतः आसीत् । प्रथमदिने एव एषः छात्रः विद्यालयं गन्तुं यदा सिद्धः भवन् आसीत् तदा एव अष्टवादनम् अभवत् । तथापि सः मन्दं चलन् विद्यालयं गतवान् । यावत् सः कक्ष्यासमीपं गतवान् तावता छात्रा: कक्ष्याम् आगताः आसन् । पाठस्य आरम्भः अपि जातः आसीत्। शिक्षकः तस्मै कक्ष्यायाम् उपवेष्टुम् अनुमतिं दत्तवान् । किन्तु उक्तवान् "भोः पाण्डेय, भवान् समये न आगच्छति।"

अग्रिमदिने पाण्डेयः समये कक्ष्यां प्राप्तुं प्रयत्नं कृतवान् । परन्तु कथञ्चित् विलम्बः जातः । सः पुनः पञ्चनिमेषविलम्बेन कक्ष्यां प्राप्तवान् । शिक्षकः पुनः उक्तवान् "भोः पाण्डेय, भवान् समये न आगच्छति।"

द्विवारं कक्ष्यायां सर्वेषां पुरतः अपमानितः सः लज्जितः जातः। सः परिशीलितवान् आसीत् यत् तस्मात् ऋते, अन्यः कोऽपि च्छात्रः विलम्बेन न आगच्छति इति। अतः तृतीयदिने सः विशेषप्रयास कृत्वा पञ्चदशनिमेषेभ्यः पूर्वमेव विद्यालयं प्राप्तवान्।

यदा सः तत्र प्राप्तवान् तदा विद्यालयस्य पिहितं द्वारं दृष्टवान्। एकोऽपि छात्रः शिक्षकः वा तत्र न आसीत् । यदा अष्टवादनं भवितुं चतुष्पञ्चनिमेषाः आसन् तदा कर्मकरः आगतवान्, द्वारम् उद्घाटितवान् च । तदनन्तरं द्वित्रनिमेषेषु एव सर्वे छात्रा: शिक्षकाश्च आगताः । सम्यक् अष्टवादने घण्टानादः जातः, तेन सह पाठस्य आरम्भः अपि । एकः च्छात्रः अपि विलम्बेन न आगतवान् ।

पाण्डेयः प्रसन्नः आसीत्, यतः सः अद्य विलम्बेन न, समये आगतवान् आसीत्। परन्तु तदा तस्य आश्चर्यम् अभवत्, यदा च शिक्षकः पुनः उक्तवान् , "भोः पाण्डेय, भवतः  समयपरिज्ञानं नास्ति" इति।

पाण्डेयः उक्तवान् "श्रीमन् ! अद्य अहं विलम्बेन न आगतवान्, अपि तु पञ्चदशनिमेषेभ्यः पूर्वमेव आगतवान् । तथापि भवान् किमर्थम् एवं वदति ?"

तदानीं शिक्षकः मन्दस्मितः सन् उक्तवान् -"द्वित्रनिमेषात्मकेन विलम्बेन आगमनम् अपि न साधु । पञ्चदशनिमेषेभ्यः पूर्वमेव आगत्य द्वारस्य पुरतः स्थितिः अपि न साधु । तेषु निमेषेषु भवान् स्वप्रकोष्ठे किञ्चित् अध्ययनं कर्तुम् अशक्ष्यत् खलु" इति।

एतत् श्रुत्वा लञ्जितः पाण्डेयः आचार्यं क्षमां प्रार्थितवान् । समयस्य मूल्यं जानन् सः अनन्तरकाले समयपरिपालकः जातः ।

सम्भाषणसन्देश:, मे १९९५

परिवर्तनम्।

 पूर्वं कदाचित् भगवान् बुद्धः देशसञ्चारं कुर्वन् कस्यचित् अरण्यस्य मध्यभागम् आगतवान् । तदा कश्चित् लुण्ठाकः तस्य पुरतः अकस्मात् प्रत्यक्षः जातः । सः छुरिकां प्रदर्शयन् अग्रे आगत्य कोपेन हुङ्कृतवान् ।

एतत्सर्वं दृष्ट्रा अपि बुद्धः किञ्चिदपि न भीतः । सः शान्तस्वरेण लुण्ठाकं पृष्टवान्  "मित्र ! मां मारयितुं आगतः वा भवान् ? अहं तु मरणार्थं सिद्धः एव । किन्तु मम अन्तिमा आशा काचित् अस्ति । तां पूरयितुं शक्नुयात् वा भवान् ?" इति ।

"हुँ। का आशा भवतः ?" इति क्रोधत्वरामिश्रितेन स्वरेण च पृष्टवान् लुण्ठाकः । पुरतः एकः वृक्षः दृश्यते खलु ? तस्य एकाम् शाखाम् आनेतुं शक्नुयात् वा भवान् ?" इति शान्तस्वरेण एव पृष्टवान् बुद्धः ।"एतावत् एव खलु ? क्षणद्वयाभ्यन्तरे आनेष्यामि" इति उक्त्वा वृक्षम् आरुह्य एकां लघुशाखाम् उत्पाट्य आनीय बुद्धाय दत्तवान् सः लुण्ठाकः ।

तदा बुद्धः पुनः उक्तवान् "मम अभिलाषः इतोऽपि न पूर्णः। अन्यत् अपि किञ्चित् करणीयम् अस्ति भवता । एषा शाखा पूर्वं यत्र आसीत् तत्र एव योजनीया" इति।

"किम् एतत् प्रलपनं भवतः ? यतः शाखा उत्पाट्यते तत्रैव सा पुनः योजयितुं किं शक्या ?" इति सन्देहेन पृष्टवान् लुण्ठाकः ।

"अहो । एवं तर्हि भवान् शाखाच्छेदनमात्रं जानाति ? तर्हि शिशोः भवतः च कः भेदः अवशिष्टः ? शिशुकार्यं कृतं भवता, तावदेव" इति उक्तवान् बुद्धः ।

लुण्ठाकः प्लानमुखः सन् मौनं स्थितवान् । तदा बुद्धः एव पुनः उक्तवान् "मित्र। जीवापहारविषये अपि एवम् एव खलु ? यः दातुं समर्थः सः एव प्रातुम् अपि अर्हः भवति । जीवदाने असमर्थस्य भवतः जीवहरणे कः अधिकारः?....."

एतत् शृण्वतः लुण्ठाकस्य मुखम् इतोऽपि म्लानं जातम् ।

"मित्र । अलं चिन्तया । मम मारणम् एव यदि भवतः लक्ष्यं स्यात् तर्हि तदेव करोतु । अहं तु मरणार्थं सिद्धः एव अस्मि । भवन्तं निवारयितुं तु सर्वथा न इच्छामि । मां मारयतु तावत्" इति पुनरपि शान्तस्वरेण उक्तवान् बुद्धः ।

यद्यपि सः लुण्ठाकः निर्दयी आसीत्, शताधिकान् मारितवान् आसीत्, बहुत्र लुण्ठनं कृतवान् आसीत् तथापि बुद्धस्य उपदेशेन, दर्शनेन, स्नेहपूर्णैः वचनैः च सः नितरां प्रभावितः जातः । मनःपरिवर्तनं प्राप्य छुरिकां पार्श्वे क्षिप्त्वा सः बुद्धं साष्टाङ्गं नमस्कृतवान् ।

बुद्धः तं प्रीत्या उत्थाप्य प्रेम्णा आलिङ्गय, आशीर्वचनैश्च अनुगृह्य ततः अग्रे गतवान्। 

सम्भाषणसन्देश:, एप्रिल् १९९५