Showing posts with label सम्भाषणसन्देश: २००६. Show all posts
Showing posts with label सम्भाषणसन्देश: २००६. Show all posts

वर्तमाने वर्तितव्यम्।

कश्चन तरुणः । सः सर्वदा कल्पनालोके विहरति स्म । कदाचित् तेन कलपनालीक दृष्टः । स्वप्ने सः राजत्वं प्राप्तवान् आसीत्। प्रातः उत्थाय सः स्वस्य स्वप्नं सर्वान् श्रावितवान्। तथैव महाराजवत् व्यवहारम् आरब्धवान् च । यदा पिता किमपि कार्यम् आदिशत् तदा सः अवदत् - "अहं महाराजः अस्मि । किं महाराजः स्वयं कार्यं कुर्यात् ? न खलु ?" इति पिता मौनम् आश्रितवान् । मात्रा यदा कार्यम् उक्तं तदा अपि तेन तदेव वचनम् उक्तम् । माता तं शान्तस्वरेण बोधितवती । तस्य पत्नी अनुनयेन बोधितवती । तथापि तस्य एकम् एव वचनम् - "अहं महाराजः अस्मि । सामान्यः जनः इव राजा कार्यं न करोति" इति ।

एषः कथं बोधनीयः इति गृहसदस्येषु केनापि न ज्ञातम् । यदा सर्वे चिन्ताक्रान्ताः आसन् तदा तस्य अनुजा अवदत् - "अहम् एतं समीकरिष्यामि" इति । मध्याह्नसमयः आगतः । अनुजा सर्वान् भोजनाय आहूतवती, ऋते अग्रजात्। सर्वे भोजनम् आरब्ध-वन्तः । स्वस्य अनाह्वानं दृष्ट्वा नितरां क्क्रुद्धः सः तरुणः भगिन्याः समीपं गत्वा क्रोधेन अपृच्छत् "किमर्थ भोजनार्थम् अहं न आहूतः भवत्या ?" इति ।

तदा अनुजा शान्ततया अवदत् "महाराजस्य भोजनं सामान्यं न भवति खलु ? अन्यच्च, तस्मै भोजनं दातुम् अप्सरसः किन्नर्यः वा आगच्छन्ति। महाराजः षड्रसोपेतं भोजनं कुर्यात्, न तु एतत् नीरसं भोजनम् । सामान्यं भोजनं कृतं चेत् महाराजस्य प्रतिष्ठा अपगता भविष्यति" इति ।

एतत् श्रुत्वा सः युवकः वस्तुस्थितिम् अवगतवान् । कल्पनालोके विहारात् कीदृशं कष्टं भविष्यति इति जानन् सः स्वस्य कर्तव्यम् अवगतवान् ।

सम्भाषणसन्देश:, सप्टेम्बर २००६ 


बलीयसी भवितव्यता।

दक्षिणभारते काञ्चीनगरे कश्चन विशालः यज्ञः समायोजितः आसीत् । तस्य प्रवेशद्वारे एकदा कश्चन पारावतः म्लानमुखः अतिष्ठत् । यज्ञे भागं ग्रहीतुं श्रीविष्णुना समम् आगतः तन्निकटवर्ती पक्षिराजः गरुडः तं दृष्ट्वा अपृच्छत् "भोः पारावत ! भवतः मुखस्य म्लानतायाः किं कारणम् ?" इति ।

पारावतः कथितवान् "मृत्युदेवता यमराजः किञ्चित् पूर्वम् अत्र यज्ञसभां प्रविशन् ममोपरि वक्रतया दृष्टिपातम् अकरोत् । अतः अद्य मम मृत्युः सुनिश्चितः इति प्रतिभाति" इति ।

तदा सरलहृदयेन गरुडेन निगदितं "चिन्ता मास्तु । अहं ध्वनिगत्या कतिपयैः एव क्षणैः भवन्तं पारेसहसहस्रयोजनं नीत्वा देवतात्मनः सुमेरुपर्वतस्य कन्दरां प्रापय्य सुरक्षितं करिष्यामि" इति ।

इदं श्रुत्वा कपोतः प्रसन्नमुखः अभवत् । सः उत्फुल्लनयनः सन् मौनेन स्वसम्मतिं सूचितवान् । अनन्तरं तं स्वपृष्ठम् आरोप्य गरुडः सुदूरवर्तिनः स्वर्णिमशिखर-मण्डितस्य सुमेरुवर्पतस्य गहनाम् अन्तरालकन्दरां प्रापय्य प्रत्यागतः ।

यज्ञसभातः निष्क्रामन् यमराजः सहजरूपेण द्वारे स्थितं गरुडं पृष्टवान् "भोः गरुड कश्चन कपोतः स्थितः आसीत् अत्र । इदानीं सः कुत्र गतः ?" इति ।

स्मितमुखः गरुडः अवदत् - "भवदीयजिज्ञासायाः कारणं किमस्ति ? किम् अधुनैव भवान् तं हन्तुकामः अस्ति ?" इति ।

तदा यमराजः अवदत् - "विधिना पूर्वमेव निर्णीतम् अस्ति - एतस्मिन् एव क्षणे तस्य मरणं सम्भवेत् इति । एतत् तस्य भालपट्टे अङ्कितं विलोक्य मम मनसि काचित् आश्चर्यपूर्णा जिज्ञासा समजायत । अतः पृष्टं मया" इति ।

वैनतेयः पुनः अपृच्छत्- "कीदृशी जिज्ञासा भवतः ?" इति ।

तदा यमः अवदत् "तस्य मृत्युः कतिपयक्षणानन्तरं पारेसहस्त्रयोजनं गहनतमासु सुमेरुकन्दरासु एकेन बिडालेन सम्पादनीयः अस्ति । सच कपोतः अत्र काञ्चीपुरे तिष्ठन् आसीत् । कथमिदं सम्भवेत्, यतः महता वेगेन उत्पत्य अपि पारावतः तावद्दरं गन्तुं समर्थो न भवेत् इति चिन्ता आसीत् मम "ו

पक्षिराजो गरुडः यमस्य कथनं श्रुत्वा दीर्घम् निःश्वस्य अवदत् - "हा हन्त । भगवन् मृत्युदेव ! बलीयसी भवितव्यता भवति । मृत्युदेवस्य भवतः कुटिल-कटाक्षेभ्यः रक्षितुं स्ववेगदर्पण अहमेव तं दीनं कतिपय-क्षणेभ्यः प्राक् परमसुदूरवर्तिनीं सुमेरुकन्दरां प्रापितवान् अस्मि । भवतः सङ्कल्पं विफलीकर्तुम् इच्छता मया परोक्षतया भवतः एव साहाय्यं कृतम् । सः तपस्वी पारावतः दुष्टेन बिडालेन निहतः अस्ति एतावता" इति ।

पार्श्वस्थं महिषम् आरोहन् यमदेवः अवदत् -बलीयसीयं भवितव्यता सखे स्वकार्यहेतोश्चिनुते सहायकम्।

सम्भाषणसन्देशः,सप्टेम्बर् २००६