Showing posts with label सम्भाषणसन्देश: २०१३. Show all posts
Showing posts with label सम्भाषणसन्देश: २०१३. Show all posts

वरः एव शापाय।

कृतयुगे कश्चन उष्ट्रः आसीत्। एकदा सः ब्रह्मदेवम् अधिकृत्य तपः आचरितवान्। उष्ट्रस्य कठोरेण तपश्चरणेन सन्तुष्टः ब्रह्मा तस्य पुरतः प्रत्यक्षः अभवत्। "भवान् कमपि वरं याचितुम् अर्हति। भवतः तपसा अहं सन्तुष्टः अस्मि" इति सः उक्तवान्।

ब्रह्मणः दर्शनात् उष्ट्रस्य महान् सन्तोषः जातः। सः अकथयत् - “महात्मन् ! अहम् अन्यत् किमपि न इच्छामि। भवान् मम कण्ठं दीर्घीकरोतु। तेन एकत्रैव उपविश्य दूरस्थमपि आहारम् अहम् स्वस्थानात् एव खादितुं शक्नुयाम्” इति।

ब्रह्मा ‘तथास्तु’ इति उक्त्वा ततः अदृश्यः अभवत्। “मम तपः फलितम्” इति सन्तुष्टः अभवत् उष्ट्रः। दीर्घं कण्ठं सम्प्राप्य उष्ट्रः यदा बुभुक्षा भवेत् तदा उपविश्य एव कण्ठं प्रसार्य आहारं खादति स्म। एतस्मात् कारणात् सः अलसः अभवत्।

एकदा महान् झञ्झावातः आगतः। अरण्ये वृक्षशाखानां पतनम् आरब्धम्। आकाशः मेघैः आच्छन्नः अभवत्। वृष्टिः अपि आरब्धा। महान्तं झञ्झावातं वृष्टिं च सोढुम् अशक्तः उष्ट्रः स्वशिरः कण्ठं च तैत्रैव विद्यमानायां लघुगुहायां प्रासारयत्। वृष्टेः स्थगनं भवतु इति उष्ट्रः प्रतीक्षां कुर्वन् आसीत्।

तावति काले आश्रयम् अन्विष्य द्वौ शृगालौ तत्र आगतवन्तौ। गुहां दृष्ट्वा नितरां सन्तुष्टौ तौ तां प्रविष्टवन्तौ। तत्र ताभ्याम् उष्ट्रस्य कण्ठः हृष्टः। बुभुक्षया पीडितौ तौ एतस्मात् महान्तं हर्षं प्राप्तवन्तौ। अतः तौ उष्ट्रस्य कण्ठस्य खादनम् आरब्धवन्तौ। उष्ट्रः महता कष्टेन कण्ठं बहिः आक्रष्टुं प्रायतमानः अपि तथा कर्तुं शक्तः न जातः। अचिरात् एव सः गतासुः जातः। पूर्णोदरं मांसं खादित्वा तौ शृगालौ गुहायाः बहिः आगत्य ततः निर्गतवन्तौ।

उष्ट्रः तु तपसा प्राप्तात् वरात् एव अपायं प्राप्य स्वस्य मरणस्य कारणं स्वयमेव जातः।

सम्भाषणसन्देशः, जुलै २०१३ 

प्रशंसार्हं धैर्यम्।

स्वातन्त्र्यप्राप्तेः अनन्तरं देशस्य प्रथमसेनाध्यक्षस्य चयनाय महत्त्वपूर्णा गोष्ठी आयोजिता आसीत् । तस्यां प्रमुखाः राजनीतिनेतारः सेनायाः उच्चाधिकारिणः च उपस्थिताः आसन् । प्रधानमन्त्री जवहरलालनेहरूवर्यः एव तस्याः सभायाः अध्यक्षः आसीत् ।

सेनाध्यक्षः कः भवितुम् अर्हति इति विषये चर्चा आरब्धा । नेहरूवर्यः अवदत् "कश्चन समर्थः आ‌ङ्गलाधिकारी एव अस्माभिः एतदर्थं चेतव्यः इति भाति । विशालस्य सैन्यस्य निर्वहणं न सामान्यः विषयः । तादृशः अनुभवः अस्मत्सेनाधि-कारिषु कस्यापि नास्ति ननु । अतः अनुभविनः आ‌ङ्ग्लेयस्य उच्चाधिकारिणः नियुक्तिः एव वरं स्यात् ।...."

प्रधानमन्त्रिणि एव एवम् अभिप्रायं प्रकटितवति, अन्ये किं वा वदेयुः ? सर्वे मौनाङ्गीकारं सूचितवन्तः । किन्तु तावता कश्चन सैन्याधिकारी उत्थाय अवदत् "महोदय ! एतद्विषये अहं किञ्चित् वक्तुम् इच्छामि" इति ।

तं तीक्ष्णदृष्ट्या पश्यन् अवदत् नेहरूवर्यः "उच्यतां निस्सङ्कोचम् । सर्वेषाम् अभिप्रायस्य श्रवणाय एषा सभा आयोजिता ।"

सः सैन्याधिकारी अवदत् "देशस्य सञ्चालने अपि अस्माकं कोऽपि अनुभवः नास्ति एव ननु ? अतः कश्चित् आङ्ग्लेयं राजनीतिनेतारमेव प्रधानमन्त्रिस्थाने स्थाप-याम, येन प्रशासनव्यवहारः सुष्ठु भवेत्..."

एतस्य श्रवणात् समग्रा सभा स्तब्धा अभवत् । प्रधानमन्त्रिणमेव उद्दिश्य कोऽपि एवं वक्तुं धैर्यं कुर्यात् इति केनापि न निरीक्षितम् आसीत् । नेहरूवर्यः अपि क्षणकालं स्तब्धः एव । सैन्याधिकारिणः कथनस्य किं तात्पर्यम् इति तेन अवगतम् आसीत् एव । किञ्चिदनन्तरं सः तं सैन्याधिकारिणमेव तीक्ष्णदृष्ट्या पश्यन् अपृच्छत् -"किं भवान् सैन्याध्यक्षपदस्य निर्वहणाय सज्जः ?"

एतत् श्रुत्वा सः सेनाधिकारी अवदत् "मान्ये ले. ज. कारियप्पवर्ये स्थिते अन्यस्य नाम किमर्थं चिन्त्येत ? कारियप्प-वर्यः एतत् पदं वोढुं सर्वरीत्या अपि समर्थः अस्ति ।...."

नेहरूवर्यस्य पुरतः एव सधैर्यम् एतादृशम् अभिप्रायं प्रकटितवतः तस्य सेनाधिकारिणः नाम अस्ति ले.ज. नाथू-सिंहराठौडः इति । देशहितैकदृष्ट्या सधैर्यं व्यवहृतवतः तस्य सेनाधिकारिणः धैर्यं प्रशंसार्हम् एव ननु ?

सम्भाषणसन्देशः, ऑक्टोबर् २०१३

अपप्रचारविषये अनास्था।

 कश्चन राजा । तस्य शासनं दुर्बलम् । अतः राज्ये भ्रष्टाचारः, चौर्यं, वञ्चना इत्यादिकम् अधिकम् आसीत् । जनेषु नैतिकभीतिः, धार्मिकश्रद्धा, ऋजुः व्यवहारः इत्यादयः क्षीणाः आसन् । अतः कश्चन आचार्यः समाजसेवाकार्ये उद्यतः अभवत् । सः देशे सर्वत्र गच्छन् सद्बोधनेन जनान् सेवाकार्ये प्रवर्तयितुं प्रयतते स्म, स्वयमपि निरन्तरं सेवाकार्यं करोति स्म । अतः तस्य अनुयायिनां सङ्ख्या प्रवृद्धा । एतत् असहमानाः तद्विरोधिनः अपप्रचारम् आरब्धवन्तः । 'अयं कपटी आचार्यः सेवाकार्यव्याजेन प्रभूतं धनं सम्पाद्यति' इति । एषा वार्ता आचार्येण अपि श्रुता । तथापि सः तद्विषये अवधानम् अयच्छन् स्वीये सेवाकार्ये निरतः अभवत् ।

कदाचित् कश्चन शिष्यः तम् अवदत् "आचार्य ! ये दुष्प्रचारं कुर्वन्ति तेषां मुख-पिधानाय किमर्थं प्रयासः न क्रियते भवता ?" आचार्यः तस्य मुखमेव क्षणकालं दृष्ट्वा -"भोः, अहम् एकं कार्यं वदामि । तत् आदौ कुरु । ततः अहं तव प्रश्नस्य उत्तरं वदिष्यामि" इति उक्त्वा एकं मणिं दत्त्वा "सामान्य-विपणौ सुवर्णकारापणे च एतस्य मूल्यं विचार्य आगच्छ" इति अवदत् ।

शिष्यः विपणिम् अगच्छत् । तत्र कश्चन तं मणिं सामान्यं शिलाखण्डम् अवदत् । अपरः तं काचमणि वदन् - 'दशरूप्यकमूल्यम् अर्हति एतत्' इति अवदत् । अन्यः अवदत् - "पञ्चाशद्रूप्यकमूल्यं भवेत् एतस्य, न ततोऽधिकम्' इति ।

ततः शिष्यः सुवर्णकारापणं गत्वा मूल्यं विचारितवान् । एकः सुवर्णकारः 'सहस्त्ररूप्यकात्मकं स्यात् अस्य मूल्यम्' इति अवदत् । अपरः तु 'दशसहस्त्र-रूप्यकमूल्यम् अर्हेत् एव एतत् । योग्यं मूल्यं तु सुपरीक्षणात् एव ज्ञायेत । सामान्यः मणिः न अयम् इति तु निश्चयः" इति अवदत् ।

शिष्यः आचार्यसमीपम् आगत्य सर्वं न्यवेदयत् । ततः गुरुः अवदत् "पश्य जनानां व्यवहारः कीदृशः भवति इति । ये मम कार्यं न जानीयुः ते किमपि वदेयुः । किं तेन मम ? किन्तु लोके सत्कार्यस्य मूल्यज्ञातारः अपि सन्ति बहवः । ते मम कार्यस्य योग्यतां जानन्ति एव । अतः केचन जनाः किं वदेयुः इत्यत्र अवधानम् अदत्त्वा केचन किं वदेयुः इत्यत्र मम आस्था नास्ति" इति । सत्कार्ये प्रवृत्तिः मम कर्तव्यम् । तदहं निष्ठया करोमि ।

सम्भाषणसन्देशः, ऑगस्ट २०१३

अन्नदानस्य कारणम्।

कर्णस्य नाम सर्वैः अपि ज्ञायते एव । महावीरः सः 'दानशूरः' इति विख्यातः । तं द्रष्टुम् आगतः कोऽपि याचकः रिक्तहस्ततया न प्रत्यगच्छत् । स्वसमीपे धनकनकादिषु यद्यत् स्यात् तस्य सर्वस्य दानं कृतवान् सः । शरीरस्य अङ्गभूतयोः कवच-कुण्डलयोः दाने अपि सः अनास्थां न प्रकटितवान् । कवचकुण्डलयोः दानात् अपायः निश्चितः इति जानन् अपि सः तयोः दानं कृतवान् ।

कुरुक्षेत्रयुद्धे हतः सः यमपुरीम् अगच्छत् ।तत्र तस्य भोजनाय धन-कनकादिकमेव आनीय दत्तम् । तत् दृष्ट्वा आश्चर्यम् अनुभवन् सः यमदूतम् अपृच्छत् "अहं तु बुभुक्षितः अस्मि ।बुभुक्षितः जनः अन्नादिकम् इच्छति इति तु सर्वे जानन्ति ।एवं स्थिते भवन्तः भोजनकाले मम पुरतः धनकनकादिकं किमर्थं स्थापितवन्तः ?' इति ।

तदा यमदूतः अवदत् "आर्य ! एषः अस्माकं लोकस्य नियमः ।भूलोके येन यादृशं पुण्यकार्यं कृतं तादृशमेव फलम् अस्माभिः अत्र दीयते ।भवता तु धनकनकादिकं बहुधा दत्तम् । अतः तस्य फलरूपेण धनकनकादिकमेव अस्माभिः भवतः पुरतः उपस्थापितम्" इति ।

"अत्र अन्नादिकं प्राप्तव्यं चेत्.... ?"

"तदर्थं तु भूलोके अन्नादीनां दानं करणीयम् ।"

"एवं तर्हि अहं भूलोकं गत्त्वा अन्नादीनां दानं कृत्वा अत्र प्रत्यागमिष्यामि ।"

"इतः निर्गमनाय अनुज्ञां दातुं नास्माकम् अधिकारः । तद्विषये तु भवता मान्यः यमधर्मराजः एव प्रष्टव्यः" इति अवदत् यमदूतः ।

कर्णः यमधर्मराजं दृष्ट्वा स्वस्य समस्यां निवेद्य भूलोकं प्रति गमनाय अनुज्ञां प्रार्थितवान् । क्षणं विचिन्त्य यमराजः अवदत् "यमलोकम् आगतः कोऽपि भूलोकं प्रतिगन्तुं नार्हति । कर्मफलानुगुण्येन जन्मान्तरं प्राप्य तु सः भूलोकं गन्तुम् अर्हति । किन्तु भवान् तु दानशूरः । दानेन महान् पुण्यराशिः आसादितः भवता । एतादृशं पुण्यपुरुषं भवन्तं खेदयितुम् अहं न इच्छामि । अतः भूलोकं प्रति गमनाय भवते अनुज्ञां ददामि । किन्तु पक्षसमाप्त्यभ्यन्तरे एव भवता अवश्यं प्रत्यागन्तव्यम्" इति ।

एतत् अङ्गीकृत्य कर्णः भूलोकं गत्वा प्रभूततया अन्नादीनां दानं कृतवान् । अन्नदानात् प्राप्तेन पुण्येन सह सः चतुर्दशे दिने यमलोकं प्रत्यागतवान् । एतस्मात् यमलोके तस्य वासः सुखप्रदः जातः ।

एषा घटना पितृपक्षे एव प्रवृत्ता । पितॄणाम् आत्मानः भूलोकम् आगच्छन्ति इति जनानां विश्वासः । अतः एव पितृपक्षे पितॄन् उद्दिश्य तर्पण-श्राद्धादिकं क्रियते ।

सम्भाषणसन्देशः, जुलै २०१३

दृष्टा: शर्करामूर्तय:।

शुकमुनिः महावैरागी । कदचित् पिता व्यासः तम् अवदत् "वत्स ! तव ज्ञानं जन्मना एव सिद्धम् । तथापि गुरोः अङ्गीकारमुद्रां विना ज्ञानित्वस्य न मान्यता । अतः त्वं जनकसमीपं गत्वा तस्य अङ्गीकारं प्राप्य आगच्छ" इति ।

एतत् अङ्गीकृत्य शुकः जनकस्य आस्थानं प्रति गतवान् । तदवसरे जनकः तृतीये अट्टे उपविश्य विश्रान्तिसुखम् अनुभवन् आसीत् । नगरं कुतूहलेन पश्यन् शुकमुनिः राजप्रासादं प्राप्य जनकस्य पुरतः उपस्थितः अभवत् । जनकः तम् अपृच्छत् "आर्य, किमागमनप्रयोजनम् ?'

"ज्ञानं प्राप्तुम् आगतः अस्मि' इति अवदत्  शुकः।

"कः त्वाम् अत्र प्रेषितवान् ?"

"व्यासमहर्षिः ।"

"कुतः समायातः त्वम् ?'"

"आश्रमात् ।"

"आगमनावसरे किं किं दृष्टं भवता ?"

"अरण्यमार्गे तु वृक्षतरुलतादयः पशुपक्षिणः च। नगरे तु सर्वत्र शर्करानिर्मितानां मिष्टान्नानाम् आपणाः एव दृष्टाः ।..."

"अन्यत् किं दृष्टम् ?"

"सर्वत्र शर्करामूर्तयः सञ्चरन्ति ।..."

"अन्यत् किं दृष्टम् ?"

"अग्रे तु शर्कराणां राशिः एव दृष्टः ।"

"ततोऽग्रे किं दृष्टम् ?"

"एका शर्करामूर्तिः अपरया शर्करामूर्त्या सह सम्भाषते इति अहो चोद्यम् !"

"आर्य ! प्रतिनिवर्ततां यथासुखम् । यत् प्राप्तव्यं तत् ज्ञानं भवता प्राप्तम् अस्ति एव" इति अवदत् जनकः ।

सम्भाषणसन्देश:, नोव्हेंबर २०१३

सन्तृप्त्या एव मन:शान्ति:।

लावोत्सेवर्यः चीनादेशस्य महापुरुषेषु अन्यतमः । सः परमज्ञानी । तथापि सः सरलं जीवनं यापयति स्म । सरलजीवनस्य कारणेन तेन तदा तदा बहूनि दिनानि यावत् निरशनेन भवितव्यम् आपतति स्म । सर्वदा भगवतः चिन्तने ध्याने च मग्नः सः लौकिकविषये सर्वथा अनासक्तः आसीत् ।

तस्य पत्नी अपि पत्युः अनुरूपा एव । तस्य निर्धनत्वं सन्तोषेण स्वीकृतवती आसीत् सा । तौ उभौ अपि दैहिकश्रमेण अर्जितेन अल्पेन आयेन जीवनं यापयतः स्म । लावोत्सवर्यात् ज्ञानम्, उत्तमविचारान् च प्राप्तुं सुदूरात् प्रदेशात् जनाः आयान्ति स्म ।

अथ कदाचित् तस्य देशस्य महाराजः लावोत्सेवर्यस्य विषयं ज्ञातवान् । तस्य महापुरुषस्य किमपि साहाय्यं करणीयम् इति मन्त्रिभिः निवेदितम् । तत् सहर्षम् अङ्गीकृतवान् महाराजः ।

परेद्यवि एव प्रभूतेन धनेन धान्यैः च पूर्ण रथं लावोत्सेवर्यस्य गृहं प्रति प्रेषितवान् राजा । रथं दृष्ट्रा लावोत्सेवर्यस्य पत्नी बहुधा हृष्टा अभवत् ।

किन्तु लावोत्सेवर्यः निर्धनः सन् अपि प्रभूतं धान्यं धनं च तिरस्कुर्वन् राजभटान् उक्तवान् "अयि भोः ! महाराजः मम विषये स्वयं किमपि न जानाति । अहम् अपि तं कदापि न दृष्टवान् । एतस्य तात्पर्यम् अस्ति यत् इदानीम् अन्येषां मुखात् मम विषयं ज्ञात्वा महाराजः एतत् सर्वं प्रेषितवान् इति । अग्रे कदाचित् अन्येषां वचनं श्रुत्वा महाराजः मयि अनादरम् अपि दर्शयेत् । तेन मम कष्टं भवेत् । अतः स्वपरिश्रमेण यत् अर्जयामि तेन अहं सन्तुष्टः अस्मि । परिश्रमेण विना प्राप्तात् धनात् कदापि आनन्दः न लभ्यते । कृपया एतत् सर्वं प्रतिनीयताम् इति प्रार्थये" इति ।

पत्युः वचनं श्रुत्वा तस्य निःस्पृहतां च अवगत्य तस्य पत्नी नतमस्तका जाता।

सम्भाषणसन्देश:, ऑक्टोबर २०१३