Showing posts with label सम्भाषणसन्देश: २००७. Show all posts
Showing posts with label सम्भाषणसन्देश: २००७. Show all posts

यावच्छक्यम् एतस्मिन् जन्मनि।

पूर्वं कदाचित् प्रयागविश्वविद्यालयस्य डा. आर् के. त्रिवेदिवर्यस्य नेतृत्वेन युता त्रि-सदस्यात्मिका अर्थशास्त्रज्ञमण्डली जपान देशीयं टोकियोनगरं गता आसीत्। जपानदेशः तु बुद्धभूमिः । अत्र त्रिवेदिवर्यस्य भाषणस्य श्रवणाय बहवः उपस्थिताः आसन् ।

कार्यक्रमानन्तरं कश्चन वयोवृद्धः जपानीयः त्रिवेदिवर्यसमीपम् आगत्य अवदत् "त्रिवेदिवर्य । किं भवान् मम गृहम् आगत्य मया सह चायं सेवमानः मां कृतार्थं कुर्यात् ?" इति ।

"अवश्यम् आगमिष्यामि । महतः सन्तोषस्य विषयः अयं मम" इति अवदत् त्रिवेदिवर्यः ।

ततः सः वृद्धः त्रिवेदिवर्यं स्वीयेन कार्यानेन गृहम् अनयत् । चायपानादीनाम् अनन्तरं सः अपृच्छत् -"मान्य ! भवता अधीताः त्रयः वेदाः के ?" इति ।

एतं प्रश्नं श्रुत्वा दिग्भ्रान्तः त्रिवेदिवर्यः क्षणं विरम्य अवदत् - "आर्य ! मया त्रयः वेदाः किं, वेदः एव न अधीतः ! 'त्रिवेदी' इति तु मम कुलनाम" इति ।

ततः सः वृद्धः संस्कृतग्रन्थानां केषाञ्चित् विषये प्रश्नम् अपृच्छत् । त्रिवेदिवर्येण कस्यापि उत्तरं दातुं न शक्तम् ।

अन्ते सः तं वृद्धम् अवदत् - "आर्य ! अर्थशास्त्रं मम परिणतिविषयः । अतः अहं तत्क्षेत्रीयाणाम् एव प्रश्नानाम् उत्तरं दातुं शक्नुयाम् । भवान् संस्कृत-विषये बहून् प्रश्नान् कुर्वन् अस्ति किल? किमर्थं तत्र आसक्तिः भवतः ?" इति ।

तदा सः वृद्धः अवदत् "यतः मया संस्कृतस्य अध्ययनम् आरब्धम् अस्ति" इति ।

"संस्कृतस्थस्य कस्यचित् एकस्य शास्त्रस्य अध्ययनाय अपि १२-१५ वर्षाणि आवश्यकानि इति श्रूयते" त्रिवेदी तम् अवदत्, यतः सः वृद्धः आसीत् ८५ वर्षीयः ।

एतत् श्रुत्वा सः वृद्धः झटिति अवदत् - "एतस्मिन् जन्मनि यावत् शक्यं तावत् अध्ययनं करिष्यामि । शिष्टस्य अध्ययनं करिष्यामि अग्रिमे जन्मनि" इति । तस्य वृद्धस्य सङ्कल्पं श्रुत्वा त्रिवेदिवर्यः आश्चर्येण स्तब्धः जातः ।

एतां घटनाम् उदाहृत्य माननीयः रज्जूभैय्यः (यश्च रा.स्व.सङ्घस्य सरसङ्घचालकः आसीत्) अवदत् -"इतः प्रेरणां प्राप्य अहं विज्ञानाचार्यः सन् अपि २० वर्षात्मके अवधौ, तन्नाम १९७४ तमे वर्षे संस्कृत -स्नातकोत्तरपदवीं (एम्.ए.) प्राप्तवान्" इति ।

सम्भाषणसन्देशः, सप्टेम्बर २००७


विचित्रा अपेक्षा।

जयसिंहः वीरपुरस्य राजा । सः शान्तिप्रियः प्रजावत्सलः च । तस्य शासनकाले जनाः सर्वे सुखेन आसन् । देशः सम्पत्समृद्धः आसीत् ।

विजयसिंहः वीरपुरस्य प्रतिवेशी । सः युद्धप्रियः । वीरपुरे तस्य गृध्रदृष्टिः पतिता । विजयसिंहस्य सैन्यं महत् आसीत् । अतः सः जयसिंहाय वार्तां प्रेषितवान् - "भवता मम सामन्तत्वम् अङ्गीकरणीयम् । अन्यथा युद्धं सम्मुखीकरणीयम्" इति ।

एतां वार्तां श्रुत्वा जयसिंहः चिन्ताक्रान्तः जातः । तदा तस्य मन्त्री सुबुद्धिः - "महाप्रभो ! अलं चिन्तया । अहम् उपायेन कार्यं साधयिष्यामि" इति राजानम् उक्त्वा विजयसिंहस्य देशम् अगच्छत् ।

विजयसिंहस्य आस्थानं प्राप्य अमूल्यानि उपायनानि समर्प्य शान्तेः मैत्र्याः च महत्त्वं विवृत्य - 'उभयोः अपि देशयोः मैत्री एव श्रेयसे' इति अबोधयत् सः । सर्वं श्रुत्वा विजयसिंहः अवदत् - "अस्तु नाम । मैत्री एव मया अङ्गीक्रियते । किन्तु तदर्थं भवद्देशेन मया सूचितम् एकं वस्तु उपायनीकरणीयम्" इति ।

"उपायनीकरणीयं तत् वस्तु किम् ?" इति अपृच्छत् सुबुद्धिः ।

"तादृशः कश्चन अश्वः उपायनीकरणीयः, यश्च श्वेतः, कृष्णः, नीलः, धूम्रः, पिङ्गलः वा न भवेत् । लोके येन येन वर्णेन अश्वः दृश्येत तादृशेन केनापि वर्णेन युक्तः न स्यात् सः अश्वः । यदि तादृशः अश्वः उपायनीकर्तुं न शक्येत तर्हि भवतः राजा युद्धं सामन्तत्वं वा अङ्गीकरणीयम्" इति अवदत् राजा ।

राज्ञः चिन्तनम् आसीत् यत् तादृशः अश्वः न प्राप्येत एव इत्यतः जयः मम एव इति । तावता सुबुद्धिः अवदत् - "भवता यादृशां लक्षणानाम् उक्तं तादृशेन उपेतः अश्वः अस्माकं देशे अस्ति । तम् आनेतुं भवता कश्चन योग्यः सारथिः प्रेषणीयः" इति ।

"सारथिं तु अवश्यं प्रेषयिष्यामि" इति अवदत् राजा । “किन्तु सः भानु-सोम-मङ्गल-बुध-गुरु-शुक्र-शनिवासरेभ्यः अन्यस्मिन् वासरे अस्मद्देशम् आगच्छेत्” इति असूचयत् सुबुद्धिः ।

एतस्मात् राजा पराजयम् अङ्गीकृत्य युद्ध-विचारं परित्यक्तवान् ।

सम्भाषणसन्देशः, जुलै २००७


तृप्तिः अवलम्बते मनस्सन्तुष्टिम्।

कदाचित् भगवान् बुद्धः कस्मिंश्चित् नगरे वसन् प्रतिदिनं धर्मम् उपदिशति स्म । तस्य वाणीं श्रोतुं बहवः प्रवचनस्थले उपस्थिताः भवन्ति स्म ।

अथ कदाचित् शिष्यः आनन्दः बुद्धम् अपृच्छत् "भगवन् ! प्रतिदिनं जनाः भवत्समीपम् आगत्य स्वकष्टकथां बहुधा श्रावयन्ति । एतस्मिन् नगरे सुखी सन्तृप्तः वा किं कोऽपि नास्ति ?" इति ।

"कुतो न स्यात् ? अस्ति एव । प्रतिदिनम् अन्ते उपविश्य यः उपदेशं शृणोति सः एव परमसुखी । वृत्त्या भृतकः सः" इति अवदत् बुद्धः ।

तदा आनन्दः पृष्टवान् - "स तु निर्धनः । शैत्य-निवारणाय उत्तमं वस्त्रम् अपि नास्ति तस्य । प्रतिदिनं पूर्णोदरं भोजनम् अपि न प्राप्यते तेन इति भाति । एवं स्थिते अपि सः परमसन्तुष्टः कथं भवेत् ?" इति ।

ध्यानसमयः आसन्नः आसीत् इत्यतः बुद्धः एतस्य प्रश्नस्य उत्तरं किमपि न अवदत् । अनन्तरदिने प्रवचनस्य अन्ते सः श्रोतृन् अपृच्छत् "यदि देवः प्रत्यक्षीभूय अपेक्षितं याच्यताम् इति वदेत् तर्हि किं याचेयुः भवन्तः ? भवताम् अपेक्षा का ?" इति ।

कश्चन वणिक् अवदत् 'अहं वाणिज्यस्य विशेषवृद्धिम् इच्छामि' इति । अपरः 'अहं शान्तिपूर्णं जीवनम् अभिलषामि' इति । कश्चन कृषिकः अवदत् 'अहं स्वामित्वं वाञ्छामि' इति ।

कश्चन भूस्वामी अवदत् 'अहं मुक्तिं प्राप्तुं संन्यासिजीवनम् अपेक्षे' इति । कश्चन कविः अवदत् - 'अहं सरस्वतीकृपां कामये' इति । एवं तत्र उपस्थिताः सर्वे अपि एकैकाम् अपेक्षां प्रकटितवन्तः । किन्तु सः भृतकः एकः एव तूष्णीम् उपविष्टवान् आसीत् ।

बुद्धः तं स्वसमीपम् आहूय अपृच्छत् 'किं भवान् आत्मसन्तोषाय किमपि याचितुं न इच्छति ?" इति ।

तदा सः भृतकः अवदत् - "भगवन् । इदानीं या स्थितिः अस्ति सा मयि महतीं तृप्तिं जनयति । श्रमेण यत् धनं सम्पादयामि ततः मम उदरपूरणं भवति । परोपकारं यथाशक्ति कुर्वन् तुप्त्या जीवामि अहम् । न मम जीवने परावलम्बनम्, असन्तोषस्य रेखा वा। एवं स्थिते याचनायाः का आवश्यकता मम ?" इति ।

भृतकस्य एतत् वचनं श्रुत्वा आनन्दः आश्चर्यम् अनुभवन् अवगतवान् यत् जीवने तृप्तिः तु मनस्सन्तुष्टिम् अवलम्बते, न तु धनादिकम् इति ।

सम्भाषणसन्देशः, ऑक्टोवर २००७

लक्ष्यपथे बधिरता।

अथ कदाचित् मण्डूककुलेन काचित् स्पर्धा आयोजिता । यः समुच्चस्य स्तम्भस्य शिखरं सर्वादौ प्राप्नुयात् सः विजयी भवेत् इति सर्वैः मण्डूकैः निर्णीतम् ।

स्पर्धायां भागं ग्रहीतुं बहवः मण्डूकाः अग्रे आगतवन्तः । स्पर्धां द्रष्टुं तु असङ्ख्याः मण्डूकाः तत्र सम्मिलिताः ।

स्पर्धा आरब्धा । मण्डुकाः स्तम्भस्य आरोहणम् आरब्धवन्तः । प्रेक्षकाः मण्डूकाः करताडनेन, 'अरे' 'अहो' 'हो' इत्यादिभिः शब्दैः च स्पर्धार्थिनः प्रोत्साहितवन्तः ।

स्तम्भः तु समुच्चः । अल्पस्य भागस्य आरोहण मात्रेण एव पतिताः अभवन् बहवः । येषां मनोबलं सुदृढम् आसीत् ते उत्थाय पुनरपि आरोहणप्रयत्नं कृतवन्तः । तथापि केनापि मण्डूकेन स्तम्भस्य पादभागः अपि न आरूढः । दर्शकाः स्पर्धार्थिनः च परस्परम् अवदन्- "मण्डूक-कुलीयेन केनचिदपि स्तम्भस्य आरोहणं कर्तुं न शक्यम्" इति ।

एवं स्थिते अपि केचन पुनरपि प्रयत्नं कृतवन्तः । किन्तु अन्येषां मण्डूकानां निराशतापूर्ण वचनं श्रुत्वा ते भीताः सन्तः अधः पतितवन्तः ।

किन्तु एकः लघुकायः मण्डूकः मन्दं मन्दं स्तम्भस्य आरोहणम् आरब्धवान् । 'एषः लघुकायः कथं स्तम्भस्य आरोहणं कुर्यात् ?' इति सर्वे उपहसितवन्तः । अल्पे एव काले सः लघुकायः स्तम्भस्य मध्यभागं प्राप्नोत् । 'अये पतिष्यति भवान् !', 'भोः, किमर्थम् एतत् साहसं भवतः !', 'अयि भोः, भवतः प्रयासः व्यर्थः' इत्यादीनि वचनानि मण्डूकानां मुखात् निर्गतानि । तथापि सः लघुकायः मण्डूकः निरन्तरम् अग्रे अगच्छत् । सर्वेषु आश्चर्येण पश्यत्सु सः स्तम्भस्य अग्रभागम् अपि प्राप्नोत् ।

एतत् दृष्ट्वा सर्वे आश्चर्येण स्तब्धाः । 'कथम् एषः लघुकायः स्तम्भम् आरोढुं शक्तवान् ?' इति ते परस्परम् अवदन् । केनचित् पृष्टः सः लघुमण्डूकः अवदत् - "अहं कश्चन बधिरः । लक्ष्यं मनसि निधाय मया अग्रे गतम् । बधिरताकारणतः मया कस्यापि नैराश्यपूर्ण वचनं न श्रुतम् । अन्ये तु तादृशानि वचनानि श्रुत्वा पराजयं प्राप्तवन्तः । लक्ष्यैकदृष्टिः निरन्तरः प्रयत्नः च मम साफल्यस्य कारणम्" इति ।

लक्ष्यपथे अस्माभिः अपि नैराश्यपूर्णानां वचनानां विषये बधिरता अवलम्बनीया ।

सम्भाषणसन्देश:, सप्टेम्बर् २००७

क्व गतं धनम्?

कश्चन राजा । सः सहृदयः दयालुः च। प्रजानां सुखं कथं स्यात् इति सदा चिन्तयति स्म सः। राज्यं सम्पत्समृद्धं स्यात् इति तस्य इच्छा । एतदर्थं मार्गः कः इति सः बहुधा अचिन्तयत् ।

कदाचित् तस्य मनसि विचारः आगतः 'धनिकानां समीपे विद्यमानं धनं यदि दरिद्रेभ्यः वितीर्येत तर्हि दरिद्राः अपि धनवन्तः भवेयुः । निर्धनता च अप-गच्छेत्' इति ।

ततः सः भटान् आज्ञापितवान् 'देशे स्थितेभ्यः सर्वेभ्यः धनिकेभ्यः धनं स्वीकृत्य निर्धनेभ्यः वितीर्य-ताम्' इति । भटाः तथैव अकुर्वन् । सन्तुष्टः राजा अचिन्तयत् 'इतः परं मम राज्ये निर्धनता न भविष्यति । जनाः मम प्रशंसां करिष्यन्ति' इति ।

किन्तु एवं न जातम् । केषाञ्चित् दिनानाम् अनन्तरं राजा अवगतवान् यत् देशस्य दुस्स्थितिः अनुवर्तमाना एव अस्ति, समृद्धिचिह्नानि कुत्रापि न दृश्यन्ते इति । तस्मात् राज्ञः चिन्ता प्रवृद्धा ।

कदाचित् प्रधानमन्त्री राजानं चिन्तायाः कारणम् अपृच्छत् । तदा राजा विषादेन अवदत् "राज्ये निर्धनता न स्यात् इति उद्देशेन मया धनिकेभ्यः धनं स्वीकृत्य निर्धनेभ्यः दत्तम्। तथापि देशे समृद्धिः न दृष्टा । दरिद्रेभ्यः वितीर्णं धनं क्व गतम् ?" इति ।

तदा मन्त्री अवदत् "महाराज भवान् यदा धनिकेभ्यः धनस्य वशीकरणम् आरब्धवान् तदा धनिकाः अचिन्तयन्- 'यावत् सम्पाद्यते तत्सर्वं राजा एव वशीकरोति । एवं स्थिते किं परिश्रमेण धन-सम्पादनेन ?' इति । अतः ते वृत्तौ आसक्तिहीनाः जाताः। विना परिश्रमं धनं प्राप्यते इत्यतः निर्धनाः अपि परिश्रमे अनासक्ताः जाताः । परिश्रमस्य अभावात् देशे आयः न्यूनः जातः" इति ।

"एवं तर्हि निर्धनतानिवारणाय कः मार्गः ?"-राजा अपृच्छत् ।

तदा प्रधानमन्त्री अवदत् "परिश्रमाः प्रोत्साहनीयाः । वाणिज्यादयः अपि वर्धनीयाः। धनिकेभ्यः धनं स्वीकरणीयं 'कर 'रूपेण । निर्धनेभ्यः परिश्रमानु-गुणं धनं दातव्यम् । शिक्षणसंस्थाः आरम्भणीयाः । प्रजाहितकारिण्यः योजनाः आरब्धव्याः । तस्मात् उद्योगावकाशवृद्धिः प्रजाहितं च सिध्येताम्" इति ।

मन्त्रिणः कथनम् अनुमतं राज्ञा । तस्मात् अल्पे एव काले तदीयं राज्यं निर्धनतारहितं जातम् ।

सम्भाषणसन्देशः, जून २००७

धीरा बाला।

किञ्चन नगरम्। तत्र प्रातिवार्षिकः श्रीकृष्णस्य रथोत्सवः सवैभवं प्रचलति स्म। पञ्चदशवर्षदेशीया काचित् बाला अपि पित्रा सह तत्र भागं वोढुं प्रस्थिता आसीत्। अल्पे एव वयसि विविधासु विद्यासु पारङ्गता सा चतुरमतिः धैर्यशालिनी च।

सर्वेऽपि जनाः नौकायाम् उपविश्य रथोत्सवार्थं गच्छन्ति स्म। सन्तोषमये तस्मिन् अवसरे यदा नौका नद्याः मध्यभागम् आगता तदा नद्याः अपरस्मात् भागात् कौचित् भीत्या त्वरया च जले तरन्तौ आगच्छन्तौ दृष्टौ। तयोः भयस्य हेतुः आसीत् - कश्चन अनुधावन् मकरः। नौकायां स्थिताः सर्वे आत्मनः विपदः शङ्कया नाविकम् अवदन् - “भोः, कृपया नौकां वेगेन अग्रे चालयतु” इति। सर्वेषां मुखे भयस्य आतङ्कस्य च छाया दृश्यते स्म। बालायाः मुखेऽपि भीतिः आसीत्। किन्तु सा भीतिः तु न स्वजीवनस्य विषये, अपि तु तयोः उभयोः जीवनस्य विषये।

तौ उभौ अपि - 'हन्त ! मकरात् प्राणापायः सन्निहितः । मकरात् कोऽपि आवां रक्षतु । रक्षतु अस्मत्प्राणान् !” इति आक्रोशतः स्म । बालायाः मनः दयार्द्रम्। कथञ्चित् एतौ रक्षणीयौ एव इति सङ्कल्प्य सा पितरम् अपश्यत्। पिता तु – “मास्तु पुत्रि ! अप्रबुद्धा त्वं जले कूर्दनस्य दुस्साहसं मा चिन्तय” इति यावत् वदन् आसीत् तावता सा जले अकूर्दत् एव । मीनः इव तरन्ती सा तयोः उभयोः अपि हस्तौ दृढतया गृहीत्वा नौकां प्रति आनीतवती एव । तद् दृष्ट्वा सर्वेऽपि आश्चर्येण स्तब्धाः।

तस्याः पिता अपि ताम् अभ्यनन्दत्। तस्याः साहसम् अश्लाघत च। “गुणोऽयं भवत्तः एव अधीतः जनक !”

बाल्यावस्थायामेव एतादृशं साहसं प्रदर्शितवती सा एव झान्सीराज्ञी लक्ष्मीबाई। सा एव अग्रे काले भारतस्य स्वातन्त्र्यसङ्ग्रामे महत् पात्रं निरूढवती। आङ्ग्लान् अधीरान् अकरोत् सा। तस्याः बालायाः पिता एव भारतस्य प्रातःस्मरणीयेषु देशभक्तेषु अन्यतमः मोरोपन्तः।

सम्भाषणसन्देशः,जुलै २००७

दीनसेवा एव देवीसेवा।

पूर्वं कश्चन राजा आसीत्। सः सन्तानहीनः । कदाचित् नितरां खिन्नः सः स्वस्य दुःखं मन्त्रिणं निवेदितवान् । तदा मन्त्री अवदत् "महाराज । अलं खेदेन । अस्माकं राजधानीतः अनतिदूरे कश्चन वटवृक्षः अस्ति । तत्र देवी वसति इति प्रतीतिः। सा यदि पूज्येत तर्हि भवतः इष्टम् अवश्यं सिद्धं भवेत्" इति ।

एतत् वचनम् अनुसरन् राजा वटवृक्षं प्राप्य तस्य अधः उपविश्य ध्याने मग्नः जातः । एवमेव कानिचन दिनानि अतीतानि । अथ कदाचित् देवी तस्य स्वप्ने प्रत्यक्षीभूय "राजन् ! अहमस्मि भवतः कुलदेवता । भवान् बहोः कालतः मम पूजां न कृतवान् । अतः एव सन्तानः न प्राप्तः भवता । गोक्षीरेण निर्मितं पायसं यदि भवान् अष्टचत्वारिंशत् दिनानि नैवेद्यरूपेण मह्यं समर्पयेत् तर्हि भवता वंशोद्धारकः पुत्रः प्राप्येत" इति ।

जागरणं प्राप्तवान् राजा मन्त्रिणम् आहूय स्वस्य स्वप्नवृत्तान्तम् अकथयत्। "श्वः आरभ्य एव अहं देव्यै पायसनैवेद्यस्य व्यवस्थां कारयिष्यामि" इति राजानम् अवदत् मन्त्री । अनन्तरदिने तेन एतदर्थं कश्चन अर्चकः नियुक्तः । सः अर्चकः राजभवनात् पायसं नीत्वा देव्यै समर्प्य प्रसादरूपेण तत् राज्ञे ददाति स्म। राजा च भक्त्या तत् सेवते स्म ।

अथ कदाचित् पायसपात्रं गृहीत्वा गच्छन् अर्चकः शिलया घट्टितः सन् अपतत् । तस्मात् पायसपात्रस्य मूलभागे रन्ध्रम् अभवत् । पात्रात् पायसस्य स्रवणम् आरब्धम् ।

तावता अनाथालयबालाः केचन तत्र आगताः । तेषाम् आश्रमस्य गुरोः अस्वास्थ्यकारणतः रणतः ते समये समये भोजनम् अप्राप्नुवन्तः नितरां बुभुक्षिताः आसन्। अर्चकः तेभ्यः तत् पायसं दत्तवान् । तस्य सेवनेन बालाः तृप्ताः अभवन् । राजा तर्जयेत् इति भिया अर्चकः प्रासादं न प्रतिगतवान् एव ।

तस्मिन् दिने प्रसादरूपेण पायसम् अप्राप्य राजा नितरां खिन्नः जातः । रात्रिः आगता । राजा चिन्ताकुलः सन् एव निद्रां कृतवान् । स्वप्ने देवी प्रत्यक्षीभूय "राजन् ! भवता प्रेषितं पायसम् अद्य प्राप्तं मया । तत् रुचिपूर्णम् आसीत्" इति अवदत् ।

आश्चर्यम् अनुभवन् राजा अनन्तरदिने अर्चकम् आनाय्य वस्तुस्थितिं विचारितवान् । अर्चकः प्रवृत्तं सर्व विवृतवान् । सर्वं श्रुत्वा 'पायसद्वारा दीनानां तृप्तिः जाता। ततः देवी प्रसन्ना अभवत् । देव्याः विग्रहस्य पुरतः नैवेद्यरूपेण अर्पितं पायसं देव्या न प्राप्तम्। अतः मया दीनेभ्यः यदि आहारः दीयेत तर्हि एव देवी प्रसन्ना भवेत् । दीनसेवा एव देवीसेवा' इति चिन्तयित्वा राजा निर्णीतवान् -'यदि मम अपत्यं न भवेत् तर्हि अनाथं कञ्चित् चतुरं बालं दत्तकरूपेण स्वीकृत्य तं विद्यावन्तं शासनकुशलं च करिष्यामि' इति।

सम्भाषणसन्देश:,सप्टेम्बर २००७

असदृशं देशप्रेम।

आङ्ग्लानां शासनकालः सः। कश्चन भारतीयः विद्यार्थी आङ्ग्लमाध्यमशालायां पठति स्म । कदाचित् सः आङ्ग्लवेषद्योतकं सूट्, बूट् इत्यादिकं परित्यज्य भारतीयां वेष्टीं, युतकं, शिरस्त्रं च धर्तुम् आरब्धवान् ।

"वत्स । कोऽयं विशेषः तव वेषे ?" इति पृष्टवान् तस्य पिता ।

'यावत् तदा सः बालः उक्तवान् सुजलां, सुफलाम् इति गर्जनं देशे न प्रसरति, तावत् मम वेषः अयमेव" इति ।

यदा तस्य पिता वस्त्रविषये पुनः पृष्टवान् तदा सः उक्तवान् - "तात, अस्माकं देशः उष्णदेशः । अतः अस्माभिः कार्पासस्य मृदूनि एव वस्त्राणि घरणीयानि । विदेशेषु शैत्यम् अधिकम् । अतः ते सूट्, बूटू, हेट्, टय् इत्यादिकं धरन्ति । अहम् इदानीं यादृशं वेषं धृतवान् अस्मि तादृशः एव अस्माकं देशस्य तापमानाय योग्यः" इति।

पुत्रस्य एतादृशं वचनं श्रुत्वा सन्तुष्टः पिता तं प्रीत्या आलिङ्गितवान् ।

किन्तु शालायाम् एतत् वस्त्रधरणं दृष्ट्वा सर्वे छात्राः तस्य उपहासं कृतवन्तः । तथापि सः बालकः अधीरः न जातः । सः स्ववेषं समर्थयन् सहपाठिनः बोधितवान् अपि - "अस्माकं देशे मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव इत्यादीनि वचनानि श्रूयन्ते । किन्तु विदेशेषु यदि मातापितरौ किञ्चित् तर्जयतः तर्हि तेषां दण्डनं भवति । यत् अस्मान् 'मातापितरौ दण्डनीयौ' इति बोधयति तत् शिक्षणं किम् अस्मभ्यं युज्यते ? वयं सर्वे भारतीयेषु विद्यालयेषु एव अध्ययनं कुर्याम" इति । एवं वदन् सः सर्वान् अपि सहपाठिनः प्रेरयित्वा भारतीयेषु विद्यालयेषु प्रवेशितवान्, स्वयं च प्रविष्टवान् ।

एतादृशे लघुनि एव वयसि राष्ट्रप्रेम्णा, देश-प्रेम्णा, धर्मप्रेम्णा च सम्पन्नः सः बालकः एव अग्रे 'सुभाषचन्द्रबोसः' इति प्रसिद्धिं प्राप्तवान् ।

सम्भाषणसन्देशः, ऑगस्ट २००७

सैनिकेषु उत्साहवर्धनाय।

 सायङ्कालः सः । रावणः राजोद्याने विहरन् आसीत् सा चिन्तायाः विस्मरणाय । सेतुं निर्माय समुद्रम् अतिक्रम्य वानरैः सह लङ्कासमीपे रामः उपस्थितः यत् तस्मात् नितरां चिन्ताक्रान्तः आसीत् सः ।


उद्याने पदानि स्थापयन् एव पार्श्वस्थं मन्त्रिणम् अपृच्छत् सः "महति सागरे रामेण सेतुनिर्माणं कथं कृतम् ?' इति ।

तदा मन्त्री अवदत् "महाराज ! रामः कश्चन असाधारणः पुरुषः । वानराः शिलानाम् उपरि रामनाम लिखित्वा ताः शिलाः समुद्रे अक्षिपन् इति श्रूयते । राम-नामबलात् ताः प्लवमानाः जाताः । एतेन क्रमेण निर्मितस्य सेतोः साहाय्येन रामः लङ्कां प्राप्नोत् । तस्य विरोधः सर्वनाशाय भवेत् । अतः मम तु भाति यत् इदानीं सन्धिप्रस्तावः एव वरम् इति" इति ।

तदा रावणः हसित्वा "सन्धिप्रस्तावः ! मयि जीवति, सर्वथा असम्भवः सः । समुद्रजले शिलानां प्लवनं न महाविषयः । अहम् अपि तत् कर्तुं शक्नोमि" इति उक्त्त्वा एकां शिलाम् उन्नीय तर्जन्या तदुपरि किमपि लिखित्वा तां पार्श्वस्थायां पुष्करिण्याम् अक्षिपत्। सा शिला जले प्लवमाना जाता । एतत् दृष्ट्वा तत्रत्याः सर्वे "महाराजः रावणः जयतात् । लङ्केश्वरः विजयताम्" इति उच्चैः जयघोषं कृतवन्तः ।

रावणस्य एतादृशस्य सामर्थ्यस्य विषये मन्त्रिणः सन्देहः तु आसीत् एव । सः एकान्ते रावणम् अपृच्छत् "महाराज! कथम् एतत् सम्पादितं भवता ?" इति ।

तदा रावणः अवदत् "यदि रामे विशिष्टा शक्तिः अस्ति इति मम सैनिकाः जानीयुः तर्हि युद्धे सोत्साहं भागं न गृह्णीयुः ते। अतः मया सैनिकेषु आत्मविश्वासः पूरणीयः आसीत् । तस्मात् एव मया अपि जले शिला प्लाविता। अत्र मया आश्रितं तन्त्रं सरलम्। मया अपि शिलाखण्डे रामनाम एव लिखितम् आसीत् । किन्तु एतस्मात् मम सैनिकेषु उत्साहः प्रवृद्धः" इति ।

सम्भाषणसन्देश:, ऑक्टोबर २००७