Showing posts with label सम्भाषणसन्देश: २०१५. Show all posts
Showing posts with label सम्भाषणसन्देश: २०१५. Show all posts

शोधकार्ये आस्था।

आयुर्वेदाचार्यस्य चरकस्य नाम सर्वैः श्रुतं स्यात् एव । सः यदा गुरुकुले विद्याभ्यासरतः आसीत् तदा प्रवृत्ता घटना एषा ।

प्रतिदिनम् अरण्यं गत्वा औषधसस्यानां परीक्षणं तदीयं कार्यम् आसीत् । अथैकदा सः केनचित् रोगेण पीडितः अभवत् । गुरुः तं परीक्ष्य अवदत् "एषः विलक्षणः रोगः । एतस्य चिकित्सार्थम् औषधं निर्मातुं विशिष्टं सस्यम् अपेक्षितम्" इति । तस्य सस्यस्य गुणलक्षणादिकं तेन विवृतम्। "यदि तत् सस्यं न प्राप्येत तर्हि अयं रोगः प्रवर्धेत" इत्यपि उक्तं तेन ।

चरकः तस्य सस्यस्य अन्वेषणाय आश्रमात् निर्गतः । बहुत्र अटित्वा सः अनेकविधानां सस्यानां गुणधर्मादिकं परिशीलितवान् । किन्तु क्वापि तादृशं सस्यं तेन न लब्धं, यादृशगुणधर्मोपेतं गुरुः सूचितवान् आसीत् । अतः सः अन्वेषणम् अनुवर्तितवान्। सहस्रशः सस्यानि तेन परीक्षितानि । महान् समयः एतदर्थं व्ययितः ।

अन्ते निराशः सन् सः प्रत्यागतवान्। तदा गुरुः उक्तवान् - "अस्माकम् आश्रमस्य पृष्ठभागे एव तत् औषधसस्यम् अस्ति । आनय" इति। चरकः गत्वा तत् सस्यम् आनीतवान् । ततः निर्मितस्य औषधस्य सेवनेन चरकः रोगात् मुक्तः अभवत् ।

अथ कदाचित् सः गुरुं पृष्टवान् "एतत् सस्यं तु आश्रमस्य पृष्ठतः एव आसीत्। किन्तु भवान् तस्य अन्वेषणाय माम् अन्यत्र प्रेषितवान् । महान् श्रमः, महान् समयव्ययः च जातः तदर्थम् । एवं किमर्थं करणीयम् आसीत् ?" इति ।

तदा गुरुः हसन् अवदत् - "शोधकार्ये भवतः आसक्तेः वर्धनाय मया एवं कृतम्। भवता सहस्रशः सस्यानां परीक्षणं कृतं, तेषां गुणधर्मादिकं मनसि स्थापितं च । एतस्मात् जातः ज्ञानविस्तारः न अल्पः । एतस्य प्रयोजनमपि न अल्पम्। यद्यपि महान्तं श्रमम् अन्वेषणं च कृत्वा अपि भवता तत् सस्यं तु न प्राप्तं, किन्तु तव्याजेन भवता सहस्रशः सस्यानि परीक्षितानि, तेषां गुणधर्मादिकं ज्ञातं च । एतत् ज्ञानं न सामान्यम् । अस्य उपयोगेन भवान् बहूनां रोगाणां चिकित्सार्थं मार्ग ज्ञातवान् अस्ति । उत्तमः वैद्यः एतादृशं ज्ञानम् अपार-प्रमाणेन सम्पादितवान् स्यात् । भवता तदेव कृतम्" इति ।

सम्भाषणसन्देशः, जून २०१५


श्लोकात् परिवृत्तं जीवनम्।

राजा बृहद्रथः यदा काशीराज्यं पालयन् आसीत् तदा बोधिसत्त्वः धनिकपुत्रत्वेन जन्म प्राप्नोत्। तस्मिन् दिने तद्गृहस्य दासी अपि एकं पुत्रं प्रसूतवती। तस्य नाम कटाहकः इति निश्चितम्। उभौ अपि बालौ एकस्मिन् एव गुरुकुले पठतः।

गच्छता कालेन कटाहकस्य मनसि विचारः आगतः - ‘मया अपि धनिकत्वं प्राप्तव्यम्’ इति। प्रत्यन्तनामके प्रतिवेशिराज्ये बोधिसत्त्वस्य कश्चन सुहृत् आसीत्। स तु कोट्यधीशः। तस्य पुत्री विवाहयोग्या। एषा वार्ता कटाहकेन ज्ञायते एव। अतः सः बोधिसत्त्वनाम्ना एकं पत्रम् अलिखत् - “एतस्य पत्रस्य आनेता मम कुमारः एव। एतस्मै कन्यां प्रदाय एवं स्वगृहे पोषयितुम् अर्हसि भवान्। भवान् तादृशम् एव जामातरम् इच्छति इति मया यत् श्रुतं तदानुगुण्येन एतत् पत्रं लिखामि” इति।

तस्मिन् पत्रे बोधिसत्त्वस्य मुद्रा अपि अङ्किता। ततः बोधिसत्त्वस्य धनागारात् प्रभूतं धनमपि स्वीकृत्य कथमपि अनुक्त्वा सः गृहात् निर्गतवान्। प्रत्यन्तराज्यं गत्वा कोट्यधीशाय पत्रं दत्त्वा तदीयां पुत्रीं परिणीय नामान्तरेण तत्र सुखेन अवसत्। गच्छता कालेन एषा वार्ता बोधिसत्त्वेन ज्ञाता। सः कटाहकस्य बोधनाय प्रत्यन्तराज्यं प्रति प्रस्थितवान्। कटाहकः एतां वार्तां कथमपि ज्ञातवान्। कटाहकः एतां वार्तां कथमपि ज्ञातवान्।

एतत् अङ्गीकृत्य बोधिसत्त्वः कटाहकेन सह गत्वा मित्रस्य गृहे कानिचन दिनानि न्यवसत्। तत्र तेन लक्षितं यत् कटाहकः पत्नीं बहुधा पीडयति इति। अतः सः कटाहकस्य पत्नीम् उद्दिश्य - “अहम् एकं मन्त्रं भवतीं बोधयामि। यदा तव पतिः कोपं कुर्यात् तदा मया बोधितं मन्त्रं त्वम् उच्चैः पठ। तदा सर्वं सुष्ठु भविष्यति” इति उक्त्वा एकं श्लोकं लिखित्वा दत्त्वा स्वदेशं प्रतिगतवान्।

अनन्तरदिने कटाहकेन यदा निन्दनम् आरब्धं तदा तप्तत्नी - “बहुधा हि विकत्थसे अन्यं जनपदं गतः। अनागसां दूषयन् हि भोगं भुङ्क्ते कटाहकः” इति श्लोकम् उच्चैः अपठत्। 

एतत् श्रुत्वा कटाहकः अचिन्तयत् - ‘एषा मम वञ्चनापूर्णं पूर्वजीवनं जानाति इति।’

अतः क्षणान्तरे एव तस्य कोपः अपगतः। ‘अहह, यदि औद्धत्येन व्यवहरेयं तर्हि एषा मम पत्नी रहस्यं प्रकाशयेत्’ इति चिन्तयन् सः मृदुतया व्यवहारम् आरब्धवान्। 

कटाहकस्य पत्न्या न ज्ञातमेव यत् पत्युः जीवने महत् परिवर्तनं कृतवतः तस्य श्लोकस्य किं तात्पर्यम् इति।

सम्भाषणसन्देशः, जुलै २०१५



वचनपरिपालनम्।

पूर्वं काचन निर्धना महिला आसीत् । तस्याः पुत्रः यदा जातः तदा जातमात्रस्य शिशोः मुखं दृष्ट्वा एव धात्री अवदत् "एषः महापण्डितः भविष्यति" इति।

तत् श्रुत्वा सा निर्धनमहिला अवदत् - "भवत्याः वचनम् अमृतपानम् इव माम् आनन्दयति । भवत्यै दातुम् एतदवसरे मम निकटे किमपि नास्ति । तथापि प्रतिज्ञां करोमि यत् अयं बालः ऐदम्प्राथम्येन यत् सम्पादयेत् तत् समग्रं भवत्यै दास्यामि इति ।"

पञ्च वर्षाणि अतीतानि । कदाचित् राजा तं ग्रामम् आगतः । राज्ञः दर्शनाय अन्यैः बालैः सह अयं बालकः अपि राज्ञः शिबिरं प्रति अधावत् । तान् दृष्ट्वा राजा अपृच्छत्-"भवत्सु कः उत्तमतया गायति ?"

तदा सर्वे तं बालकं दर्शयन्तः अवदन् -"अयं सुमधुरं गायति" इति ।

"महाराज ! विद्या न वयः समीक्षते" इति उक्त्वा सः बालकः वेदस्य एकाम् ऋचम् समस्यात्वेन परिकल्प्य एकं समस्यापूर्तिश्लोकं विरचय्य अश्रावयत् । एतं श्रुत्वा राजा नितरां सन्तुष्टः । सः अञ्जलिमितानि सुवर्णनाणकानि तस्मै प्रादात् ।

तानि स्वीकृत्य गृहम् आगतः बालः मातरं प्रवृत्तं सर्वं निवेद्य "अम्ब ! मया सम्पादितानि एतानि । अद्य अस्माकं दारिद्रयं समाप्तम्" इति अवदत् ।

"वत्स ! अत्र एकं नाणकमपि उपयोक्तुं नास्ति अस्माकम् अधिकारः" इति उक्त्वा तेन धनेन बालकेन च सह सा धात्र्याः गृहम् अगच्छत् । "मम पुत्रस्य प्रथमसम्पादनम् एतत् । पूर्वं यथा मया प्रतिज्ञातम् आसीत् तदनुगुणम् एतत् भवत्यै अर्पयन्ती अस्मि । सर्वमेतत् भवत्याः एव इति उक्त्वा सर्वाणि सुवर्णनाणकानि तस्यै आर्पयत् ।

निर्धनमहिलायाः वचनपरिपालकतां, निर्लोलुपतां च दृष्ट्वा नितरां सन्तुष्टा सा धात्री बालम् आशिषा अनुगृह्य "निर्धनतायां सत्यामपि प्रभूतं सुवर्णं दान-रूपेण दत्तं यत् तत् भवत्याः श्रेष्ठतां दर्शयति । एतेन धनेन अहम् एकं कासारं निर्मास्यामि, येन जनानां महान् उपकारः भवेत्" इति उक्तवती । ततः तया यः कासारः निर्मापितः सः 'धात्रीकासार 'नाम्ना ख्यातः । अद्यापि दरभङ्गानगरे द्रष्टुं शक्यः सः ।

राजानं स्वरचितं श्लोकं श्रावितवान् सः बालः भाविनि काले 'शङ्करमिश्र'-नाम्ना ख्यातः अभवत् । न्यायशास्त्रक्षेत्रे महती ख्यातिः विद्यते तस्य ।

सम्भाषणसन्देशः, ऑगस्ट २०१५

राधानामजप: किमर्थम् ?

एकदा देवर्षि नारदः भगवन्तं श्रीकृष्णं पृष्टवान् - "भगवन् ! सदैव भवान् राधे ! राधे !! इति किमर्थं जपति ? किम् अन्याः महाराज्ञ्यः भवतः प्रियाः न ?" इति ।

इदं श्रुत्वा श्रीकृष्णः शिरःशूलस्य अभिनयम् कुर्वन् द्वाभ्यां हस्ताभ्यां शिरः निगृह्य बलवतीं वेदनां प्रकटितवान् ।

नारदमुनिः तु अकस्मात् इमां दुःस्थितिं दृष्ट्वा व्याकुलितः सन् पृष्टवान् - "प्रभो ! एतस्याः वेदनायाः निवारणाय मया किं करणीयम् ? कृपया आदिशतु ।"

श्रीकृष्णः उक्तवान् - "देवर्षे ! मद्भक्तस्य चरणरजसः स्पर्शेन इयं वेदना दूरीभवितुम् अर्हति । यदि कुतश्चित् तत् आनेतुं शक्येत, तर्हि आनीयतां तावत् ।"

"प्रभो ! अलं चिन्तया । अहम् अविलम्बेन एव आनेष्यामि" इति कथयित्वा नारदः रुक्मिणीम् उपेत्य तां तच्चरणरजः याचितवान् । परन्तु रुक्मिणी सखेदम् उक्तवती - "देवर्षे ! एतेन तु अहं नरके निपतेयम् । अतः नैव ददामि" इति ।

नारदः पुनः सत्यभामाम्, अन्याः महाराज्ञीः चापि उपेत्य भगवतः श्रीकृष्णस्य शिरोवेदनां निवारयितुं चरणरजः याचितवान् । परन्तु सर्वतः अपि निराकरणरूपम् उत्तरम् एव प्राप्तम् । अन्ते सः राधायाः समीपं गत्वा - 'श्रीकृष्णस्य शिरोवेदनायाः विनाशनाय चरणरजः प्रदीयताम्' इति अवदत् ।

सपदि एव राधा तत् दत्त्वा कथितवती - "आर्य ! भवता महान् विलम्बः कृतः अत्र आगमने । अधुना त्वरितम् एव गत्वा अर्पयतु इदं मम प्राणप्रियाय । यदि अनेन मम स्वामी स्वस्थः भवेत् तर्हि अहं धन्या स्याम् । स्वामिनः स्वास्थ्याय मम घोरनरके अपि निपातः भवेत् नाम ।"

नारदः राधायाः चरणरजः स्वमस्तके निधाय सद्यः एव श्रीकृष्णम् उपेत्य रुक्मिण्याः सत्यभामायाः अन्यासां महाराज्ञीनां च कथनं श्रावयित्वा राधायाः चरणरजः समर्प्य तस्याः कथनम् अपि श्रावितवान् ।

श्रीकृष्णः तद् रजः मस्तके संयोज्य शिरोवेदनाविनाशस्य अभिनयम् कुर्वन् नारदम् उक्तवान् - "मुनिवर्य ! राधे ! राधे !! इति यत् अहं सर्वदा जपामि तस्य कारणम् इदानीं भवता ज्ञातम् एव स्यात् इति भावये" इति ।

सम्भाषणसन्देश:, जुलै २०१५

मार्गस्य शुद्धता।

कश्चन बौद्धविहारः । तत्र शतशः शिष्याः आसन् । सर्वे साधनामार्गनिष्ठाः । कदाचित् भगवान् बुद्धः तं विहारं द्रष्टुम् आगतवान् । विहारे सञ्चारसमये कश्चन शिष्यः महता ज्वरतापेन पीडाम् अनुभवन् तेन दृष्टः । सः झटिति तस्य सेवायाम् उद्यतः अभवत् । ललाटे जलपट्टिकादिस्थापनं कृतम् । ज्वरतापस्य न्यूनीकरणाय औषधं दत्तम् । सेवनाय द्रवाहारः दत्तः । सान्त्वनवचनानि धैर्यपूर्वकवचनानि च उक्तानि ।

एतस्मात् सः शिष्यः नितरां सन्तुष्टः । अचिरात् एव उत्तमा निद्रा अपि तेन प्राप्ता । अनन्तरदिने ज्वरतापे न्यूनता जाता आसीत् । सः शिष्यः उपधानम् आलम्ब्य उपवेशने अपि समर्थः जातः । तेन सह सम्भाषमाणः बुद्धः अपृच्छत् - "भवतः उपचाराय कोऽपि आश्रमबन्धुः न आगतः किम् ?" इति ।

तदा सः शिष्यः अवदत् - "ते सर्वे साधनामार्गे निमग्नाः । सर्वदा ध्यानमग्नाः भवन्ति ते । मम उपचाराय ते कथम् आगन्तुम् अर्हेयुः ?" इति । बुद्धः प्रतिवचनं किमपि न अवदत् । 'सम्यक् विश्रान्तिं स्वीकुरु' इति तम् उक्त्वा सः निर्गतः ।

ततः प्राङ्गणे सर्वान् शिष्यान् मेलयित्वा सः अपृच्छत् - "अत्रत्यः कश्चन बन्धुः ज्वरतापग्रस्तः इति किं भवद्भिः न ज्ञातम् ? किमर्थं भवत्सु केनापि तस्य सेवार्थं न गतम् ?" इति । तदा कश्चन शिष्यः अवदत् - "ज्ञानप्राप्त्यर्थं ध्यानमार्गः उपदिष्टः । तत्रभवता एव केनापि कारणेन विचलितता न प्राप्तव्या इति भवता एव वयं बोधिताः । अतः तदनुगुणं व्यवहृतम् अस्माभिः" इति ।

एतत् श्रुत्वा बुद्धः कोपेन अवदत् - "मूर्खाः ! भवन्तः । मया यत् उक्तं तत् पालयितुं भवद्भिः प्रयासः यः क्रियमाणः अस्ति सः तु स्तुत्यः एव । किन्तु मम कथनस्य आशयः तु - लौकिककर्षणान् विचलितता न स्यात् इति । ज्ञानसाधनम् अस्माकं लक्ष्यम् । कष्टस्थितौ स्थितस्य सेवातः यः मनस्संस्कारः प्राप्येत स तु अत्युत्कृष्टः । कष्टग्रस्तानां सेवार्थं ध्यानं त्यक्तं चेदपि न कोऽपि दोषः । दीनसेवादिभ्यः एव मार्गस्य शुद्धिः । तस्याः निमित्तं प्राप्तम् अवसरम् उपेक्ष्य ध्यानमार्गेण गमनात् न किमपि प्रयोजनम् । मार्गस्य अनुसरणं यावत् मुख्यं तावदेव मुख्यं भवति मार्गस्य शुद्धता अपि । तां शुद्धताम् उपेक्ष्य भवद्भिः ध्यानमार्गस्य अनुसरणमात्रं यत् कृतं तत् तु अनुचितम् एव" इति ।

एतस्य श्रवणात् सर्वे शिष्याः अवनतशिरस्काः जाताः ।

सम्भाषणसन्देशः,ऑगस्ट २०१५


देशभक्ति: गरीयसी।

स्वात्मत्यागसङ्ग्रामः सः। सर्वत्र देशभक्ति-धारा प्रवहति स्म। राष्टनायकाः स्वस्ववचनैः आचरणैः च स्वातन्त्र्यसङ्ग्रामे भागं वोढुं जनान् निरन्तरं प्रेरयन्ति स्म। जनाः अपि तेषाम् उद्घोषाणां श्रोतुं महतीं समुत्सुकतां दर्शयन्ति स्म, प्राणान् पणीकृत्य राष्ट्रकार्ये प्रवर्तन्ते स्म च।

एकदा कोलकात्तायां राजनीतिसम्बद्धा काचित् सार्वजनिकसभा आयोजिता आसीत्। सर्वत्र उद्घोषितम् आसीत् यत् अस्यां सभायाम् अमुकः नायकः जनान् उद्दिश्य भाषणं करिष्यति इति। दीयम् उद्घोषनं श्रोतुं जनसागरः एव उपस्थितः आसीत्।

कार्यक्रमस्य आरम्भकालः सन्निहितः। कार्यक्रमस्य आरम्भकालः सन्निहितः। सा वार्ता सभास्थानां कर्णोपथम् अपि आगता एव।

अतः जनाः परस्परं सम्भाषणम् आरब्धवन्तः ‘पुत्रशोकग्रस्तः सः कथं वा सभाम् आगच्छेत्? अद्य तस्य उद्घोषणं भवितुं न अर्हति’ इति। तस्य महाशयस्य उद्घोषणश्रवणस्य अवसरः सर्वथा च्युतः एव इति नितरां खिन्नाः अभवन् ते।

केचन ततः प्रतिगमनाय उद्यताः अभवन् अपि। तावता उद्घोषणं श्रुतम् - इदानीं कार्यक्रमः आरप्स्यते इति। सः महाशयः यथापूर्वं निरुद्विग्नतया वेदिकां आरूढवान्। स्वातन्त्र्यसङ्ग्रामे सर्वे जनाः किं करणीयम् इति विषयम् अधिकृत्य सः घण्टां यावत् प्रेरणाप्रदम् अमोघं भाषणम् अकरोत्। यद्यपि स्वपुत्रस्य मरणवार्तां जानाति स्म, तथापि तस्य वदने वा कोऽपि विकारः, विषादः वा न दृष्टः केनापि। तदीयं दार्ढ्यं, देशभक्तिं, कर्तव्यपरायणतां च दृष्ट्वा सर्वे महत् आश्चर्यम् अनुभूतवन्तः।

महादेशभक्तस्य प्रात: स्मरणीयस्य तस्य नाम अस्ति - सुरेन्द्रनाथबैनर्जी इति।

सम्भाषणसन्देश:, जुलै २०१५

देवदर्शनम्।

 कश्चन आश्रमः । तस्य गुरुः परमसाधकत्वेन सुविख्यातः । अतः तत्र अध्ययनाय बहवः छात्राः आगच्छन्ति । आगतानां योग्यतां परिशील्य योग्यान् चित्वा शिष्यत्वेन स्वीकरोति गुरुः । एवं शिष्यत्वेन स्वीकृतः कश्चन तरुणः तत्र दशाधिकानि वर्षाणि अयापयत् । तस्य चिन्तनं यत् अध्ययनसमाप्तेः पूर्वं गुरुः भगवन्तं दर्शयेत् इति । आचार्यः अपि शिष्यस्य एताम् अपेक्षां जानाति । तथापि शिष्येण तु भगवद्दर्शनक्षणः न प्राप्तः एव । अतः कदाचित् शिष्यः गुरुम् अपृच्छत् – “आचार्यवर्य ! भवान् भगवद्दर्शनं कदा कारयेत् ?” इति ।

“श्वः एव कारयितुम् अर्हेयम्” इति शान्ततया अवदत् गुरुः ।

“श्वः एव ।।” इति साश्चर्यम् उक्त्वा शिष्यः पुनः अपृच्छत् – “श्वः एव भगवद्दर्शनं कारयिष्यति इत्येतत् किं सत्यम् ?” इति ।

“आम् । तत्र सन्देहः एव मास्तु । उषसि  एव मत्समीपम् आगच्छ । भगवद्दर्शनं कारयिष्यामि” इति अवदत् गुरुः ।

महता सन्तोषेण शिष्यः प्रत्यगच्छत् ।

‘श्वः अहं देवं द्रक्ष्यामि एव । एवं स्थिते किं ध्यानेन ?’ इति चिन्तयन् ध्यानमपि न कृतवान् सः । रात्रौ निद्रा अपि न प्राप्ता । प्रातः स्नान-पूजा-ध्यानादिषु अपि तस्य मनः न लग्नम् । सः गुरोः कुटीरं प्रति धावितवान् ।

गुरुः अवदत् – “देवः द्रष्टव्यः इति तव चिन्तनं मूर्खतायै एव । तथापि अस्तु नाम, कीदृशं देवं द्रष्टुम् इच्छसि त्वम् ?” इति।

“किं देवे अपि प्रकाराः सन्ति ?” इति साश्चर्यम् अपृच्छत् शिष्यः ।

“आम् । देवः नाम कः इति त्वया किं चिन्तितम् ? देवस्य स्पष्टा कल्पना यस्य न स्यात् सः देवं कथं वा द्रष्टुं शक्नुयात् ? यस्य स्वरूपमेव न ज्ञायते तस्य अन्वेषणं कथं क्रियेत ? देवस्य दर्शनार्थं महान् सन्नाहः स्यात् ।  सः यदि त्वयि न स्यात् तर्हि त्वं देवं द्रष्टुं नार्हसि ।” इति ।

शिष्ये दिग्भ्रान्तिः उत्पन्ना । सः किङ्कर्तव्यता-विमूढतया गुरोः मुखम् अपश्यत् । “ध्याने प्रवृत्तिं कुरु । सः एव सन्नाहमार्गः” इति अवदत् गुरुः ।

सम्भाषणसन्देश:, जुलै २०१५