Showing posts with label सम्भाषणसन्देश: २००९. Show all posts
Showing posts with label सम्भाषणसन्देश: २००९. Show all posts

वाणिज्यकौशलम्।

महावाणिज्यसंस्थायां कस्याञ्चित् विक्रेतु-विभागस्य निमित्तम् अभ्यर्थिनां सन्दर्शनं प्रचलत् आसीत् । अन्तिमाभ्यर्थित्वेन कश्चन सामान्यवेषधारी तरुणः सन्दर्शनप्रकोष्ठं प्राविशत् । प्रबन्धकः तम् अपृच्छत् - "विक्रयण-व्यवहारे किं कोऽपि अनुभवः अस्ति भवतः ?" इति । "न" इति अवदत् तरुणः । तदीयम् अनुभवराहित्यं प्रबन्धकस्य सन्तोषाय न अभवत् । किन्तु तस्य सरलता तस्मै अरोचत । अतः सः तम् उद्योगे न्ययोजयत् । "विक्रयणे विशेषास्था दर्शनीया, प्रगतिः साधनीया च भवता" इति अबोधयत् सः ।

कश्चन कालः अतीतः । प्रबन्धकः तम् आहूय अपृच्छत् - "एतावता कतिभ्यः जनेभ्यः भवता वस्तूनि विक्रीतानि ?" इति । "एकस्मै एव श्रीमन् !" इति विनयेन अवदत् युवकः । "एकस्मै एव । किम् एतत् । यदि उद्योगः रक्षणीयः तर्हि भवता वाणिज्यसामर्थ्यम् इतोऽपि अधिकतया दर्शनीयम् एव । अन्यान् दृष्ट्वा कौशलम् अधिगन्तव्यं भवता। मया दयया उद्योगः दत्तः । किन्तु भवता तु अत्यल्पा प्रगतिः दर्शिता !" इति बहुधा तं तर्जयित्वा अन्ते सः अपृच्छत् "एतावता भवता कियान् लाभः संस्थायै दापितः ?" इति ।

"दशलक्षरूप्यकमितः लाभः श्रीमन् !"

"दशलक्षं रूप्यकाणि । कथम् एतत् ? किं भवता सत्यम् उच्यते ?"

"मम वचनम् अवितथं श्रीमन् । लाभः अस्ति दशलक्षमितः !"

"एवं तर्हि किं विक्रीतं भवता ?" आश्चर्येण अपृच्छत् प्रबन्धकः ।

"आदौ 'मत्स्यग्रहणं कथम् ?' इत्येतत् लघु-पुस्तकं विक्रीतं मया । ततः तस्मै एव मध्यमगात्रकं १० वाणिज्यकौशलम् चन्द्रगुप्तः पुस्तकं विक्रीतम् । अनन्तरं तद्विषयकं बृहद्गात्रकं पुस्तकं विक्रीतम् । ततः मत्स्यग्रहणाय अपेक्षितानि साधनानि तस्मै विक्रीतानि...।"

"कथा कुतूहलकरी अस्ति । ततस्ततः..."

"ततः मया सः पृष्टः यत् मत्स्यग्रहणाय कुत्र गम्यते इति । 'समीपस्थे समुद्रे मत्स्याः ग्रहीष्यन्ते मया' इति तेन उक्तम्। 'तदर्थं भवते नौका आवश्यकी' इति बोधयित्वा मया तस्मै नौका विक्रीता । ततः 'समुद्रतीरे नौकायाः रक्षणाय, भवतः वासाय च किं पटमण्डपः न आवश्यकः' इति पृच्छन् अहं तस्मै पटमण्डपं विक्रीतवान् । 'सर्वाणि वस्तूनि नेतुं वाहनम् आवश्यकम् एव खलु' इति तं बोधयित्वा वाहनम् अपि दापितं मया।"

"किम् एतत्सर्वं कृतं भवता ! एतावत्सर्वं साधयितुं कथं शक्तं भवता ?" इति अपृच्छत् प्रबन्धकः कुतूहलेन ।

तदा सः तरुणः अवदत् "श्रीमन् ! वस्तुतः सः शिरोवेदनानिवारणाय गुलिकां क्रेतुम् आपणम् आगतवान् आसीत् । तत्र स्थितेन मया सः बोधितः यत् शिरोवेदना-निवारणाय मत्स्यग्रहणे प्रवृत्तिः उत्तमः उपायः इति । ततः अग्रे यत् प्रवृत्तं तत् मया विवृतम् एव ।"

प्रबन्धकः महता आश्चर्येण तस्य तरुणस्य मुखम् अपश्यत् ।

सम्भाषणसन्देशः, ऑक्टोबर २००९

सुगन्धमयता।

शबरीं द्रष्टुं तस्याः आश्रमं प्रति आगच्छत् श्रीरामः ।आश्रमं परितः बहवः वृक्षाः लताः च आसन् । ते सर्वे वृक्षलतादयः पुष्पैः पूर्णाः आसन् । तानि पुष्पाणि वर्णैः शोभमानानि सुगन्धपूर्णानि च आसन् ।एकम् अपि पुष्पं म्लानं शुष्कं वा न दृश्यते स्म ।दर्शनमात्रेण वनं मनः हरति स्म ।

तत् वनं दृष्ट्वा सन्तुष्टान्तरङ्गः रामः शबरीम् अपृच्छत् - "आर्ये, एतत् वनं नितरां विशिष्टं दृश्यते । वने एकम् अपि पुष्पं म्लानं शुष्कं वा नास्ति ! कथम् एतत् ?'' इति ।

तदा शबरी अवदत् - "सा च काचित् कथा। पूर्वम् एतस्मिन् आश्रमपरिसरे मातङ्गः नाम महर्षिः निवसति स्म । आश्रमे बहवः विद्यार्थिनः अपि निवसन्ति स्म। महर्षिः आसीत् नितरां वृद्धः । कदाचित् चातुर्मास्य-कालः उपस्थितः । आश्रमे काष्ठसङ्ग्रहः समाप्तप्रायः आसीत् । महर्षिः अचिन्तयत् यत् वृष्टेः आरम्भतः पूर्वं यदि काष्ठानि न स‌ङ्गृह्येरन् तर्हि वर्षाकाले महत् कष्टम् अनुभोक्तव्यं भवेत् इति ।

शिष्येषु केनापि एतद्विषये अवधानं दत्तं न आसीत् ।अतः एकदा प्रातःकाले वृद्धः महर्षिः एव परशुं गृहीत्वा काष्ठसङ्ग्रहाय आश्रमात् निर्गतवान् । एतत् दृष्ट्वा स्वस्य अनवधानतायाः विषये लज्जाम् अनुभवन्तः आश्रमवासिनः शिष्याः स्वयमपि परशुं गृहीत्वा आचार्यम् अनुसृतवन्तः ।

सायङ्कालपर्यन्तं तैः काष्ठसङ्ग्रहः कृतः । सायं सगृहीतानि काष्ठानि सर्वाणि आश्रमम् आगतानि । सूर्यास्तसमये सर्वे नितरां स्विन्नाः सन्तः आश्रमं प्रत्यागतवन्तः । तेषां शरीरतः स्वेदबिन्दवः पतन्ति स्म। यत्र यत्र स्वेदबिन्दवः अपतन् तत्र सर्वत्र सुन्दराणि पुष्पाणि दृष्टानि ।

गच्छता कालेन तानि एव आश्रम-परिसरे लतारूपेण सस्यरूपेण च प्रसूतानि । तस्मात् आश्रमे सर्वत्र वृक्षेषु लतासु च पुष्पाणि दृश्यन्ते । स्वेदात् उत्पन्नानाम् एतेषां पुष्पाणां म्लानता शुष्कता वा नास्ति । अतः एव एषः आश्रमपरिसरः सर्वदा सुगन्ध-मयः भवति" इति ।

सत्यं खलु वाचकाः, श्रमपूर्णानि कार्याणि सदा सुगन्धप्रसारकाणि भवन्ति । श्रमजीविनः स्वेदधारा लोकस्य पोषिका भवति । तस्याः कारणतः एव जनानां जीवनम् अपि सुगन्धमयं भवति ।

सम्भाषणसन्देशः, ऑक्टोबर २००९

निन्द्यं कर्म राक्षसत्वाय।

गुरुनानकः कदाचित् प्रियेण शिष्येण मरदानेन सह विन्ध्याचलपरिसरे गच्छन् आसीत्। तदवसरे केचन वन्यजातीयाः मर-दानं बद्ध्‌वा नीतवन्तः । प्रतिपक्षम् अष्टमीतिथौ ते देव्यै नरबलिम् अर्पयन्ति स्म । मरदानम् अपि बलिरूपेण अर्पयितुम् इच्छन्तः ते तं भैरवीगुहां प्रति नीतवन्तः । मरदानः वृक्षे बद्धः । ततः ते सर्वे ढक्कां वादयन्तः गायन्तः नृत्यम् अकुर्वन् ।

गानस्य नृत्यस्य च समाप्तेः अनन्तरं मरदानः बन्धनात् मुक्तः कृतः । भैरव्याः अर्चकः शूलं गृहीत्वा गर्जन् तस्य मारणाय अभिमुखम् आगतः । तावता समीपात् एव शान्तगम्भीरः कश्चन ध्वनिः श्रुतः 'वाहे गुरु' इति । एतस्य श्रवणात् अर्चके विलक्षणं परिवर्तनं दृष्टम् । सः स्तब्धतया अतिष्ठत् । शूलं तस्य हस्तात् स्वयम् अपतत् ।

एतत् दृष्टवान् वन्यजातीयानां नायकः महान्तं क्रोधं प्राप्य ध्वनिम् उच्चारितवतः पुरतः स्थित्वा उच्चस्वरेण अपृच्छत् - "रे, कः भवान् ?' इति ।

"अहम् अस्मि भवान् इव एव कश्चन मानवः। नानकः इति मम नाम" इति अवदत् गुरुनानकः ।

"मां तु जनाः राक्षसं मन्यन्ते" सः वन्यजातीयानां नायकः अवदत् ।

नानकः अग्रे गत्वा तस्य स्कन्धे हस्तं संस्थाप्य अवदत् "मित्र! न भवान् राक्षसः । भवान् तु मानवः एव । किन्तु भवतः कृत्यं राक्षसकृत्यसदृशम् अस्ति" इति ।

कठोरहृदयस्यापि तस्य वन्यजातिनायकस्य हृदयं द्रुतं जातम्। सः आश्चर्येण नानकस्य मुखम् अपश्यत् । तदा नानकः एव पुनः अपृच्छत् "किं भवतः देवी मृतस्य कस्यापि प्राणान् प्रतिदातुम् अर्हेत् ?" इति ।

"न" इति अवदत् वन्यजातिनायकः ।

"एवं तर्हि कस्यापि प्राणानाम् अपहरणे अपि भवतः कः अधिकारः ? मनुष्यः अन्यस्य मनुष्यस्य प्राणान् न अपहरेत्। प्राणापहरणं यदि भवता परित्यज्येत तर्हि जनाः भवन्तं राक्षसं न वदेयुः । यः मानवः इव न व्यवहरेत् सः एव 'राक्षसः' इति निर्दिश्येत" इति अवदत् नानकः ।

एतस्य श्रवणात् हृदयपरिवर्तनं प्राप्य सः वन्यजाति-नायकः नानकं शरणम् अगच्छत् । तत् दृष्ट्वा अन्ये सर्वे वन्यजातीयाः नानकस्य शिष्याः अभवन् । 'निन्द्यं कर्म इतः परं न करिष्यते इति तैः सर्वैः अपि प्रतिज्ञा कृता ।

सम्भाषणसन्देशः, ऑगस्ट २००९

नरकस्य राज्यपालत्वेन नियुक्ति:।

डा. राजेन्द्रप्रसादमहोदयः सर्वैः भारतीयैः ज्ञात-पूर्वः एव । सः यदा राष्ट्रपतिस्थानं समलङ्कृतवान् आसीत् तदा प्रवृत्ता घटना एषा ।

एकदा दिल्ली-विश्वविद्यालयस्य समारम्भे भागम् अवहत् सः । समारम्भस्तु बहु उत्तमतया जातः । भोजनस्य अनन्तरं कश्चन विरामसमयः आसीत् तस्य । एतत् ज्ञातवन्तः बहवः छात्राः राजेन्द्रप्रसाद-महोदयं परितः युगपत् उपस्थिताः । ते तं प्रार्थितवन्तः "भवतः हस्ताक्षरोपेतः आशीर्वादः अपेक्ष्यते अस्माभिः" इति। राजेन्द्रप्रसादमहोदयः एतत् सहर्षम् अङ्गीकृतवान् । सः हस्ताक्षरकरणे उद्यतः अभवत् । एतत् अन्यैः अपि छात्रैः ज्ञातम् । तस्मात् ते अपि तत्र उपस्थिताः । अतः अचिरात् एव तत्र महान् सम्मर्दः एव जातः । राजेन्द्रप्रसादमहोदयः तु नेत्रे निमील्य इव स्थित्वा हस्ताङ्कनकरणे मग्नः आसीत् ।

कश्चन छात्रः तमेव किश्चित्कालम् अपश्यत् । सः आसीत् अतिबुद्धिमान् । सः स्वस्य पुस्तकस्य उपरि 'मम सर्वकारः महता सन्तोषेण भवन्तं स्वर्गस्य राज्यपालत्वेन नियोजयति' इति लिखित्वा हस्ताक्षराय तत् पुस्तकं राजेन्द्रप्रसादमहोदयाय अयच्छत् । राजेन्द्रप्रसादमहोदयः तत्र लिखितम् अपश्यत् । ततः किमपि अवदन् सः क्षणाभ्यन्तरे एव वाक्यद्वयं लिखित्वा तत् पुस्तकं तस्मै छात्राय प्रत्यार्पयत् । छात्रः कुतूहलेन तत्र लिखितम् अपठत् । तत्र लिखितम् आसीत् "मम सर्वकारः स्वर्गस्य राज्यपालत्वेन भवतः नियोजनं महता सन्तोषेण अनुमन्येत एव । किन्तु खेदस्य विषयः नाम एतावता एव बहवः जनाः एतत् स्थानम् अपेक्षमाणाः तत्र उपस्थिताः सन्ति । अतः तत्र भवन्तं नियोजयितुं नार्हामः वयम् । तथापि अलं चिन्तया । भवन्तं वयं नरकस्य राज्यपालत्वेन नियोजयन्तः स्मः" इति । तत्र लिखितस्य पठनात् तस्य छात्रस्य मुखं विवर्णं जातम् ।

सम्भाषणसन्देशः, ऑगस्ट २००९

धर्मस्य सार:।

पवनः कश्चन राजकुमारः आसीत् । सः सकल-ज्ञानसम्पन्नः । राजोचिताः सर्वाः विद्याः अधीतवान् आसीत् सः । उत्तमं शरीरबलम् अपि तेन सम्पादितम् आसीत् । तस्य पिता कदाचित् तम् अवदत् - "धर्मः नाम कः इति यावत् भवान् न जानीयात्, तं धर्म च न पालयेत् तावत् भवान् उत्तमः राजा न भवेत्" इति ।

राजकुमारेण धर्मलक्षणं न ज्ञातम् । सः पण्डितान् अपृच्छत् । एकैकः पण्डितः एकैक-प्रकारेण धर्मलक्षणं विवृतवान् । एतस्मात् राज-कुमारस्य भ्रमः प्रवृद्धः । अन्ते सः कञ्चित् संन्यासिनं दृष्ट्वा स्वस्य समस्यां निवेदितवान्। सर्वं श्रुत्वा संन्यासी अपृच्छत् "भवतः प्रियतमा क्रीडा का ?" इति ।

राजकुमारः अवदत् - "चतुरङ्गक्रीडा" इति ।

"तस्यां क्रीडायां किं भवान् प्राणान् पणीकर्तुम् अर्हत् ?" इति अपृच्छत् संन्यासी ।

राजकुमारः सम्मतिम् असूचयत् ।

ततः संन्यासी चतुरङ्गपटम् आनाय्य आज्ञाधारकं शिष्यं राजकुमारस्य पुरतः उपवेश्य शिष्यम् उद्दिश्य "भवता चतुरङ्गक्रीडायां भागः वोढव्यः । भवान् तां क्रीडां न जानाति इति अहं जानामि । तथापि भवता भागः वोढव्यः एव । एषा मम आज्ञा । क्रीडायां यः पराजयं प्राप्नुयात् तस्य शिरश्छेदः करिष्यते मया" इति उक्त्वा तीक्ष्णं खङ्गं गृहीत्वा पार्श्वे एव अतिष्ठत् ।

शिष्यः चतुरङ्गे न पटुः । राजकुमारेण बोधितं क्रमम् अनुसरन् सः अक्रीडत्, अचिरात् एव पराजयं प्राप्नोत् च । राजकुमारः तं पुनरपि क्रीडातन्त्राणि अबोधयत् । तथापि शिष्यस्य एव पराजयः। पुनः पुनः शिष्यः पराजयं प्राप्नोत् । शिरसः छेदनस्य भीत्या सः खिन्नः म्लानमुखः च जातः । एतत् दृष्ट्वा दयार्द्रहृदयः राज-कुमारः बुद्ध्या प्रमादान् कुर्वन् स्वयं पराजयं प्राप्नोत् ।

पराजये प्राप्ते शिरश्छेदः निश्चितः इति जानन् अपि सः पराजयं यत् प्राप्नोत् तत् संन्यासिना अवगतम् ।

तदा संन्यासी चतुरङ्गपटं क्षिप्त्वा राजकुमारम् अवदत् "क्रीडा न मुख्या। प्रतिस्पर्धिनि गौरवं प्रधानम् । मृदुः व्यवहारः दयापरार्थं प्राणत्यागाय सज्जता इत्यादयः एव धर्मस्य सारः । सः एव भवता आचरणेन दर्शितः" इति।

एतस्य श्रवणात् सन्तुष्टः राजकुमारः संन्यासिनं कृतज्ञतापूर्वकं प्रणम्य ततः निर्गतवान् ।

सम्भाषणसन्देशः,ऑक्टोबर २००९

भगवान् अस्ति किम्?

कश्चन सज्जनः क्षौरापणं गतवान् क्षौरं कारयितुम्। क्षौरिकः तु सम्भाषणशीलः। अतः तयोः सम्भाषणं प्रवृत्तं बहून् विषयान् अधिकृत्य । अन्ते चर्चा भगवद्विषये आरब्धा। क्षौरिकः अवदत् -"भगवान् अस्ति इत्यत्र नास्ति मे विश्वासः" इति ।

"किमर्थं तथा उच्यते ?" इति कुतूहलेन अपृच्छत् सज्जनः ।

"भगवान् कुत्र अस्ति ? कृपया बहिः गत्वा मार्गे स्थित्वा सकृत् सर्वत्र दृष्टिः प्रसार्यताम्। यदि भगवान् स्यात् तर्हि किं जनाः बुभुक्षया पीडिताः अभविष्यन् ? किं व्याधिभिः ग्रस्ताः अभविष्यन् ? न खलु ? रोगव्याध्यादयः कष्टपीडादयः च महता प्रमाणेन लोके सन्ति इत्यतः सिद्धं यत् भगवान् नास्ति सर्वथा इति ।"

सज्जनः प्रत्युत्तरं किमपि न अवदत् । यतः सः वादम् अनुवर्तयितुं न इच्छति स्म। क्षौरकार्यं समाप्तम्। धनं दत्त्वा सज्जनः आपणात् बहिः आगतवान् । तावता दीर्घमलिनकेशः मलिनश्मश्रुकः च कश्चन तेन दृष्टः । तस्य दर्शनात् सज्जनस्य मनसि कश्चन अंशः स्फुरितः । सः झटिति आपणं प्रविश्य क्षौरिकम् अवदत् "आर्य ! भवता किं ज्ञायते क्षौरिकः लोके नास्ति एव ।" इति ।

"किम् एतत् वचनं भवतः ? क्षौरिकेण मया भवता सह सम्भाषणं कृतं, चर्चा कृता, क्षौरं च कृतम्। एवं स्थिते अपि क्षौरिकः नास्ति इति भवतः वचनं कथं वा सङ्गच्छेत ?" - इति सक्रोधम् अपृच्छत् क्षौरिकः ।

"यदि क्षौरिकः स्यात् तर्हि लोके अकर्तितकेशाः, मलिनकेशाः, अकृतक्षौराः इत्यादयः कथम् अभविष्यन् ? ते सर्वे बहुधा दृश्यन्ते इत्यतः सिद्धं यत् क्षौरिकः नास्ति इति ।"

"विसङ्गतं वचनं भवतः । ते क्षौरिकस्य समीपं न गताः । अतः अकृतक्षौराः दृश्यन्ते ते। अत्र क्षौरिकस्य कः अपराधः ? एतादृशात् तर्कात् क्षौरिकस्य अविद्य-मानत्वं न सिद्धयति ।"

"एवं तर्हि अयमेव न्यायः भगवतः विषये अपि अन्वेति । केचन भगवतः समीपं न गच्छन्ति, तं न पश्यन्ति, न स्मरन्ति वा । अतः एव ते व्याधि-दुःखादिभिः पीडिताः भवन्ति इति अवदत् सज्जनः ।

सम्भाषणसन्देशः, जून २००९

अधीरता न शोभायै।

राजा रणजितसिंहः 'पञ्जाबकेसरी' इति ख्यातः । सः शौर्येण धैर्येण च ख्यातः आसीत् । पराजयं सः नाम्ना अपि न जानाति स्म ।

कदाचित् गुप्तचराः वार्ताम् आनीतवन्तः यत् लुण्ठाकाः केचन राज्यस्य सीमाप्रदेशं प्रविश्य पेशावरपर्यन्तम् अपि आगताः सन्ति, पेशावर-नगरस्य लुण्ठनं कुर्वन्तः सन्ति इति ।

एतां वार्ता श्रुत्वा राजा नितरां क्रुद्धः। सः सेनापतिम् आनाय्य सक्रोधम् अपृच्छत् "सेनापति वर्य ! लुण्ठाकानां गणः पेशावरपर्यन्तम् अपि आगतः अस्ति इति श्रूयते । तेषाम् अवरोधाय किम् अस्मत्सैन्येन किमपि न कृतम् ?" इति ।

तदा सेनापतिः अवदत् "पेशावरे ५०० सैनिकाः आसन् । लुण्ठाकाः तु सन्ति साधैंक-सहस्त्रमिताः । त्रिगुणितप्रमाणेन स्थितान् तान् लुण्ठाकान् अस्मत्सैनिकाः कथं वा अवरोद्धुं शक्नुयुः ? असहायाः आसन् ते" इति ।

एतत् उत्तरं श्रुत्वा नितराम् असन्तुष्टः राजा प्रतिवचनं किमपि अनुक्त्वा झटिति अश्वम् आरुह्य १५० सैनिकैः सह पेशावरं प्राप्नोत्, शत्रुसंहारे उद्युक्तः अभवत् च । तस्य शौर्यं  खड्गप्रहारकौशलं च दृष्ट्वा नितरां भीताः लुण्ठाकाः अचिरात् एव ततः पलायितवन्तः ।

शत्रुपीडां निवार्य राजधानीं प्रत्यागतः राजा सेनापतिम् आनाय्य अपृच्छत् - "मया सह कति सैनिकाः आसन् ?" इति ।

सेनापतिः शिरः अवनमय्य अवदत् -"साधैंकशतं सैनिकाः आसन् महाराज ।" इति ।

"लुण्ठाकाः कियन्तः आसन् ?"

"ते तु सार्धेकसहस्त्रसङ्ख्याकाः आसन्" -लज्जामिश्रितेन स्वरेण अवदत् सेनापतिः ।

"तथापि शत्रवः पलायनम् अकुर्वन् । कथम् एतत् सम्पन्नम् ?" - राजा अपृच्छत् ।

"भवतः शौर्यम् एव अत्र कारणम्" सेनापतिः अवदत् ।

"न मम एकस्य शौर्यम्, अपि तु मम सर्वेषां सैनिकानां शौर्यम् एव अत्र कारणम्। अस्माकम् एकैकः अपि सैनिकः सपादलक्षमितैः शत्रुसैनिकैः समानः इति किं भवान् न जानाति ? अस्माकं सैनिकानां बाहुबले अविश्वासः न शोभावहः । भवतः तु आत्मनि एव विश्वासः न्यूनः आसीत् । अतः एव भवता सैनिकेषु विश्वासः न प्राप्तः" इति अवदत् राजा ।

एतत् श्रुत्वा लज्जाम् अनुभवन् सेनापतिः सङ्कल्पं कृतवान् यत् इतः परं मया अधीरता न आश्रीयते इति ।

सम्भाषणसन्देश:, ऑगस्ट २००९

ईश्वर: तिष्ठति सर्वत्र।

कश्चन गृहस्थः आचार्यस्य एकनाथस्य समीपम् आगत्य अवदत् - “महात्मन् ! भगवद्भक्तिमार्गः कृपया प्रदर्श्यताम् । आत्मकल्याणं प्राप्तुम् अहं भवत्समीपम् आगतवान् अस्मि” इति ।

“किं भवान् एकाकी एव गृहस्थधर्मं पालयन् आसीत् ?” इति तम् अपृच्छत् एकनाथवर्यः।

“न । मम विवाहः जातः अस्ति । पत्नीपुत्रादीन् त्यक्त्वा अहं भवत्समीपम् आगतः अस्मि ।”

“किं भवतः पत्नी अत्र आगमनाय अनुज्ञां दत्तवती ?”

“न । सा यदा निद्रायाम् आसीत् तदा अहं मौनेन उत्थाय आगतवान् अस्मि ।”

“पुत्राणां का कथा ?”

“ते अपि निद्रायां मग्नाः आसन् । किन्तु प्रस्थानसमये लघुशिशुः जागरणं प्राप्य रोदनस्य आरम्भम् अकरोत् । तदा पत्नी निमीलितनेत्रा सती एव तम् आलिङ्ग्य सान्त्वनं कृतवती । यदि सा नेत्रे उद्घाटितवती स्यात् तर्हि मम आगमनं कष्टाय एव अभविष्यत् । श्रीमन् ! मया गृहत्यागः कृतः अस्ति । भगवत्सेवामार्गं ज्ञातुम् इच्छामि ।”

एतत् श्रुत्वा एकनाथवर्यः अवदत् - “अयि मूर्ख ! पत्नीपुत्रादीनां त्यागेन किम् ? दुराचाराणां त्यागः कृतः चेदेव भगवान् प्रसन्नः भवेत् । भगवान् सर्वत्र अस्ति । भवतः गृहे अपि अस्ति । अतः गृहजनानां सेवा क्रियतां श्रद्धया । तावता एव भगवान् सन्तुष्टः भवेत्” इति ।

सः भक्तः शिरः अवनमय्य ततः निरगतवान् मौनेन ।

सम्भाषणसन्देशः, जुलै २००९