धर्मस्य सार:।

पवनः कश्चन राजकुमारः आसीत् । सः सकल-ज्ञानसम्पन्नः । राजोचिताः सर्वाः विद्याः अधीतवान् आसीत् सः । उत्तमं शरीरबलम् अपि तेन सम्पादितम् आसीत् । तस्य पिता कदाचित् तम् अवदत् - "धर्मः नाम कः इति यावत् भवान् न जानीयात्, तं धर्म च न पालयेत् तावत् भवान् उत्तमः राजा न भवेत्" इति ।

राजकुमारेण धर्मलक्षणं न ज्ञातम् । सः पण्डितान् अपृच्छत् । एकैकः पण्डितः एकैक-प्रकारेण धर्मलक्षणं विवृतवान् । एतस्मात् राज-कुमारस्य भ्रमः प्रवृद्धः । अन्ते सः कञ्चित् संन्यासिनं दृष्ट्वा स्वस्य समस्यां निवेदितवान्। सर्वं श्रुत्वा संन्यासी अपृच्छत् "भवतः प्रियतमा क्रीडा का ?" इति ।

राजकुमारः अवदत् - "चतुरङ्गक्रीडा" इति ।

"तस्यां क्रीडायां किं भवान् प्राणान् पणीकर्तुम् अर्हत् ?" इति अपृच्छत् संन्यासी ।

राजकुमारः सम्मतिम् असूचयत् ।

ततः संन्यासी चतुरङ्गपटम् आनाय्य आज्ञाधारकं शिष्यं राजकुमारस्य पुरतः उपवेश्य शिष्यम् उद्दिश्य "भवता चतुरङ्गक्रीडायां भागः वोढव्यः । भवान् तां क्रीडां न जानाति इति अहं जानामि । तथापि भवता भागः वोढव्यः एव । एषा मम आज्ञा । क्रीडायां यः पराजयं प्राप्नुयात् तस्य शिरश्छेदः करिष्यते मया" इति उक्त्वा तीक्ष्णं खङ्गं गृहीत्वा पार्श्वे एव अतिष्ठत् ।

शिष्यः चतुरङ्गे न पटुः । राजकुमारेण बोधितं क्रमम् अनुसरन् सः अक्रीडत्, अचिरात् एव पराजयं प्राप्नोत् च । राजकुमारः तं पुनरपि क्रीडातन्त्राणि अबोधयत् । तथापि शिष्यस्य एव पराजयः। पुनः पुनः शिष्यः पराजयं प्राप्नोत् । शिरसः छेदनस्य भीत्या सः खिन्नः म्लानमुखः च जातः । एतत् दृष्ट्वा दयार्द्रहृदयः राज-कुमारः बुद्ध्या प्रमादान् कुर्वन् स्वयं पराजयं प्राप्नोत् ।

पराजये प्राप्ते शिरश्छेदः निश्चितः इति जानन् अपि सः पराजयं यत् प्राप्नोत् तत् संन्यासिना अवगतम् ।

तदा संन्यासी चतुरङ्गपटं क्षिप्त्वा राजकुमारम् अवदत् "क्रीडा न मुख्या। प्रतिस्पर्धिनि गौरवं प्रधानम् । मृदुः व्यवहारः दयापरार्थं प्राणत्यागाय सज्जता इत्यादयः एव धर्मस्य सारः । सः एव भवता आचरणेन दर्शितः" इति।

एतस्य श्रवणात् सन्तुष्टः राजकुमारः संन्यासिनं कृतज्ञतापूर्वकं प्रणम्य ततः निर्गतवान् ।

सम्भाषणसन्देशः,ऑक्टोबर २००९