Showing posts with label सम्भाषणसन्देश: २००८. Show all posts
Showing posts with label सम्भाषणसन्देश: २००८. Show all posts

व्यामिश्रव्यवहारः।

पुरा चीनदेशे राज्ञः आस्थाने विद्वत्परीक्षाः प्रचलन्ति स्म । तासु ये उत्तीर्णाः भवेयुः ते महाराजतः विपुलं धनं पुरस्कारं च प्राप्नुवन्ति स्म । अथ कदाचित् परीक्षायाः पूर्वदिने त्रयः कस्यचित् ज्योतिषिकस्य गृहं गत्वा "श्वः परीक्षायां वयं किम् उत्तीर्णाः भवेम ?" इति अपृच्छन् ।

ज्योतिषिकः उत्तरं किमपि अदत्त्वा एकाम् अङ्गुलीं दर्शितवान् । त्रयः अपि ततः निर्गताः ।

अनन्तरदिने परीक्षा प्रवृत्ता । तत्र तेषु एकः एव उत्तीर्णः अभवत् । 'ज्योतिषिकेण यथा सूचितं तथैव प्रवृत्तम्' इति जनाः अभावयन् । ज्योतिषिकस्य कीर्तिः सर्वत्र प्रसृता ।

एतत्सर्वं लक्षितवान् ज्योतिषिकस्य शिष्यः अपृच्छत् - "गुरुवर्य ! एकः एव उत्तीर्णः भविष्यति इति भवता कथं ज्ञातम् ?" इति ।

तदा ज्योतिषिकः हसन् अवदत् - "प्रश्नकरणार्थं त्रयः उपस्थिताः आसन् । मया कस्यापि निराशता न इष्टा । अतः अहम् एकाम् अङ्गुलीं प्रादर्शयम् । दैवात् एकः एव उत्तीर्णः । तदा तैः चिन्तितम् एकः एव उत्तीर्णः भविष्यति इति मया उक्तम् इति। यदि द्वौ उत्तीर्णौ स्यातां तर्हि ते अचिन्तयिष्यन् यत् एकः अनुत्तीर्णः भविष्यति इति मया सूचितम् इति । यदि त्रयः अपि उत्तीर्णाः अभविष्यन् तर्हि ते चिन्तितवन्तः स्युः यत् त्रयः अपि एककाले एव उत्तीर्णाः भविष्यन्ति इति मया सूचितम् इति ।"

"यदि एकोऽपि उत्तीर्णः न अभविष्यत् तर्हि...?"

"तदा ते अचिन्तयिष्यन् यत् त्रयः अपि एककाले एव अनुत्तीर्णाः भविष्यन्ति इति मया सूचितम् इति । अतः ज्योतिषिकः सत्यं जानन् अपि सर्वदा अपि अस्पष्टम् एव उत्तरं वदेत्, सङ्केतं दर्शयेत् वा । व्यामिश्रव्यवहारः तस्य यशसः रहस्यम्" इति ।

महत् रहस्यं ज्ञातवता शिष्येण गुरुः श्रद्धया नमस्कृतः ।

सम्भाषणसन्देशः, ऑगस्ट २००८

त्रय: प्रश्ना:।

चन्द्रवर्मा काशीराज्यस्य राजा । कदाचित् तस्य मनसि त्रयः प्रश्नाः उत्पन्नाः उत्तमं कार्यं किम्, उत्तमः पुरुषः कः, उत्तमा वेला च का इति । सः उत्तरं प्राप्तुं बहुधा प्रयत्नं कृतवान्। किन्तु तृप्तिकरम् उत्तरं कुतश्चित् अपि न प्राप्तं तेन ।

एकस्मिन् दिने सः मृगयार्थम् अरण्यं गतवान् । मृगयया नितरां श्रान्तः सः विश्रामार्थ स्थलम् इच्छन् परितः दृष्टिं प्रसारितवान् । अनतिदूरे एव कश्चन आश्रमः तेन दृष्टः । सः तम् आश्रमं प्राविशत् ।

तदवसरे तत्रत्यः संन्यासी जलसेचनं कुर्वन् आसीत् । राज्ञः आगमनं ज्ञात्वा सः संन्यासी तं स्वागतीकृत्य फलादिदानेन सत्कृतवान् । तस्य आतिथ्येन राजा सन्तुष्टः अभवत् ।

अचिरात् एव कश्चन व्रणितः ग्रामीणः तत्र आगतः । संन्यासी झटिति एव व्रणं स्वच्छीकृत्य पट्टिकया बद्ध्‌वा यथोचितम् औषधोपचारं कृतवान् । मधुरवचनैः व्रणितस्य सान्त्वनम् अपि कृतवान् ।

आश्रमात् प्रस्थातुम् उद्युक्तः राजा आत्मानं बाधमानान् प्रश्नान् संन्यासिनं निवेद्य यथोचितम् उत्तरम् अयाचत् । तदा संन्यासी अवदत् - "एतेषां प्रश्नानाम् उत्तरम् एतावता व्यवहारेण एव अहं सूचितवान् अस्मि । भवतः आगमन-काले अहं सस्यापोषणे निरतः आसम् । विरामकाले सर्वदा अपि अहं किमपि कार्यं करोमि एव । विनालस्यं क्रियमाणं सत्कर्म एव उत्तमं कार्यम् । यः अन्येषां साहाय्यार्थम् उद्युक्तः भवेत् सः एव उत्तमः पुरुषः । कष्ट-ग्रस्तानां सेवायै यः समयः व्ययीक्रियेत सा एव उत्तमा वेला" इति ।

संन्यासिनः एतत् उत्तरं श्रुत्वा सन्तुष्टः राजा संन्यासिनं नमस्कृत्य राजधानीं गतवान् ।

सम्भाषणसन्देश:, सप्टेम्बर २००८ 

स्वर्ग: नरक: च इहैव।

कश्चन सज्जनः कदाचित् एकस्य साधोः प्रवचनं ग्रामस्य देवालये आयोजितवान्। प्रतिदिनं साधोः प्रवचनं श्रोतुं जनाः देवालयम् आगच्छन्ति स्म ।

एकस्मिन् दिने साधुः प्रवचने स्वर्गनरकयोः विषये सविस्तरं व्याख्यानम् अकरोत् । प्रवचनानन्तरं सः अपृच्छत्- "भवत्सु कति जनाः स्वर्गं गन्तुम् इच्छन्ति ?" इति ।

तदा सर्वेऽपि एककण्ठेन अवदन् 'अहम्' 'अहम्' इति । किन्तु प्रवचने उपस्थितः एकः बालकः साधोः प्रश्नस्य उत्तररूपेण कमपि प्रतिस्पन्दं न दर्शितवान् । तं बालकं दृष्टवान् अपि साधुः तम् उद्दिश्य किमपि अवदन् पुनरपि सभाम् उद्दिश्य "भवत्सु कति जनाः नरकं गन्तुम् इच्छन्ति? इति अपृच्छत् ।

तदा तु सर्वे ऽपि मौनम् आश्रितवन्तः । साधुः बालकस्य मुखम् अपश्यत्। तदापि बालकस्य प्रतिस्पन्दः कोऽपि न आसीत् । साधुः तं बालकम् अपृच्छत् "स्वर्गनरकयोः विषये भवतः प्रतिस्पन्दः नास्ति किमर्थम् ?" इति ।

तदा बालकः उत्थाय "श्रीमन् ! अहम् अत्रैव भवितुम् इच्छामि। जीवितुम् इच्छामि अपि अत्र एव । अहं यत्र भवामि तत्र स्वर्गं रचयिष्यामि। स्वजीवने ये स्वर्गं द्रष्टुं न अर्हन्ति ते अन्यत्र कथं द्रष्टुं शक्नुयुः ? ये जीवनमेव स्वर्गं कुर्युः ते कदापि नरकं न पश्येयुः" इति उक्त्त्वा उपविष्टवान् ।

तस्य वचनं श्रुत्वा साधुः क्षणकालं यावत् स्तब्धः अभवत्। मनसि एव तं बालकम् अश्लाघत सः ।

सम्भाषणसन्देशः, ऑक्टोबर २००८


सिंहस्य सत्यवादिता।

 पूर्वम् कश्चन शृगालः आसीत्। दिनत्रयं तस्य आहारः न आसीत्। अतः सः कस्यचित् वृक्षस्य अधः उपविश्य चिन्तयन् आसीत् - 'आहारप्राप्त्यर्थं मया किं करणीयम् ?' इति।

तावता तत्र कश्चन सिंहः आगतवान्। सिंहं दृष्ट्वा भीतः शृगालः धावनाय प्रयत्नम् अकरोत्। किन्तु सिंहः तस्य गमनम् अवरुध्य अवदत् - “मित्र शृगाल ! अलं भीत्या। अहम् अचिरात् एव एकं हरिणं मारयित्वा खादित्वा आगतवान् अस्मि। अतः अहम् इदानीं भवन्तं न खादामि" इति।

एतस्मिन् वचने शृगालस्य विश्वासः न उत्पन्नः। अतः सः भीत्या कम्पमानः एव आसीत्। तदा सिंहः पुनः अवदत् - “मित्र शृगाल ! अहम् अस्मि वनस्य राजा। अहं सत्यमेव वदामि। अद्य अहं भवन्तं न खादिष्यामि। अहमस्मि सम्भाषणप्रियः। अतः आगम्यतां समीपम्। आवां किञ्चित्कालं जल्पनं करवाव" इति।

यद्यपि सिंहस्य वचने पूर्णः विश्वासः न आसीत् शृगालस्य, तथापि गत्यन्तराभावात् सः सिंहसमीपम् अगच्छत्। सिंहः झटिति तं पादेन प्राहरत्। व्रणं प्राप्य भूमौ पतितः शृगालः सिंहम् अवदत् - "वनराज ! भवन्तम् अद्य न खादामि इति भवता उक्तम् आसीत्। भवान् अस्ति असत्यवादी" इति।

तदा सिंहः तम् उद्दिश्य - "वनराजः अहम् असत्यवादी कथं भवेयम् ? भवन्तम् अद्य न खादामि इति तु सत्यम् एव। भवन्तम् अद्य न मारयामि इति तु मया न उक्तम्। भवन्तम् अद्य मारयित्वा श्वः खादिष्यामि अहं, न तु अद्य। मिथ्यावादी भवितुं न इच्छामि अहम्" इति उक्त्वा द्वितीयं प्रहारम् अकरोत्। तेन प्रहारेण शृगालः गतप्राणः जातः।

सम्भाषणसन्देशः, जुलै २००८ 

सहजता।

पूर्वं बर्मादेशे बौद्धभिक्षुः कश्चन आसीत् । उत्तमः कलाकारः सः कस्यचन बौद्धालयस्य निर्माणविन्यासं करोति स्म। स्वकार्ये तस्य महती श्रद्धा । भवननिर्माणं समाप्तप्रायम् आसीत् । शताधिकाः जनाः प्रत्यहं भवनं द्रष्टुम् आगच्छन्ति स्म । तथा आगतेषु कञ्चन निरुद्योगी बहुनि दिनानि यावत् तत्रैव स्थितवान् । भिक्षोः कार्यं प्रशंसन् तस्य कार्येषु सहकुर्वन् सः काले काले परिष्कारार्हान् अंशान् अपि ज्ञापयति स्म ।

भवनस्य मुख्यप्रवेशद्वारस्य विन्यासः निर्मातव्यः आसीत् । श्वेतपटस्य उपरि यदा भिक्षुः विन्यासं रचयितुम् आरब्धवान् तदा निरुद्योगी तस्य पृष्ठतः एव स्थितः आसीत् । भिक्षुणा कश्चन विन्यासः रचितः । अनुक्षणं निरुद्योगी 'एतस्य औन्नत्यम् अधिकम्' इति अकथयत् । भिक्षुणा अन्यत् चित्रं रचितम् । तस्य वैशाल्यम् आक्षिपत् निरुद्योगी । अन्यत् अरचयत् भिक्षुः । तत्रापि निरुद्योगिनः आक्षेपः आसीत् एव । एवमेव शताधिकानि चित्राणि रचितानि चेदपि तत्र सर्वत्र दोषः दश्यते स्म निरुद्योगिना ।

मासाः अतीताः । समग्रस्य भवनस्य निर्माणार्थं यावान् समयः यापितः तस्य अर्थभागः द्वारविन्यासनिर्माणाय एव यापितः आसीत् । तथापि न सिद्धः विन्यासः । एतस्मात् नितरां खिन्नः अभवत् भिक्षुः । स्वस्य कुशलतायाः विषये एव स्वयं सः संशयग्रस्तः जातः ।

विन्यासरचनाय विनियुज्य-मानाः सर्वे पटाः समाप्ताः, ऋते एकस्मात् पटात् । विपणिं गत्वा पटान् आनेतुं निरुद्योगिनं प्रेषित-वान् भिक्षुः । एकाकिना भिक्षुणा उपविश्य विन्यासः रचितः । होरामात्राभ्यन्तरे रचितं तत् चित्रम् अत्यद्भुतम् आसीत् । अतः भिक्षुः नितरां सन्तृप्तः। तावता विपणितः प्रत्यागतः निरुद्योगी चित्रं दृष्ट्वा बहुधा अश्लाघत ।

"अल्पे एव काले अद्भुतं चित्रं रचितं भवता । अस्य यशसः रहस्यं किम् ?'' इति पृष्टं तेन ।

तदा भिक्षुः अवदत् एतावन्ति दिनानि तव प्रीत्यर्थं मया चित्राणि रच्यन्ते स्म । सः यत्नः मम सहजताम् अनाशयत् । तव अस्तित्वं मया न विस्मर्यते स्म । अद्य अहं स्वकार्ये सर्वं विस्मृतवान् । केवलस्य आत्मसन्तोषस्य निमित्तम् अहं कार्यं कृतवान् । तस्मात् उत्तमः विन्यासः रचितः अभवत्। यावत् अन्यस्य प्रीत्यर्थं कार्यं क्रियते, तावत् अस्माकं कार्यं श्रेष्ठं न भवति; आत्मसन्तोषार्थं कृतं कार्यं भवति श्रेष्ठम्" इति ।

सम्भाषणसन्देशः, सप्टेम्बर २००८


रक्षया रक्षणम्।

राजस्थानस्य चित्तोडगढे ज्वाला नाम काचित् युवतिः आसीत् । तस्मिन् एव प्रदेशे लक्ष्मणसिंहः नाम कश्चित् महालुण्ठकः आसीत् । आजानुबाहुः सः परमक्रूरः । तस्य आकारः द्रष्टृषु भीतिं जनयति स्म । सः येन मार्गेण आगच्छेत् ततः महिलाः शीघ्रम् अदृश्याः भवन्ति स्म। अन्ये जनाः अपि भयेन तं निवारयितुं प्रयतन्ते स्म ।

तत् श्रावणपूर्णिमादिनम् । सर्वत्र आनन्दोल्लासः दृश्यते स्म । रक्षासूत्रस्य बन्धनं तस्य दिनस्य विशेषः । महिलाः स्वभ्रातॄणां हस्ते रक्षां बध्नन्ति स्म । तेन सह मधुरवितरणम् अपि भवति स्म ।

ज्वाला अपि गृहात् बहिः स्थित्वा मार्गे दृश्यमानान् पुरुषान् आहूय नमस्कृत्य रक्षायाः बन्धने मग्ना आसीत् । अत्रान्तरे तत्र उपस्थितः अभवत् लुण्ठकः लक्ष्मणसिंहः । तस्य दर्शनात् भीता ज्वाला क्षणं यावत् किङ्कर्तव्यतामूढा जाता। द्वित्रेषु क्षणेषु धैर्यं प्राप्य सा किञ्चित् अग्रे गत्वा "अग्रज ! भवतः हस्ते रक्षां बध्नती अस्मि । अद्य आरभ्य मम रक्षणं भवत्सम्बद्धम्" इति उक्त्वा तदीयौ पादौ स्पृष्ट्वा नमस्कृतवती ।

मुखम् अन्नीय तस्य मुखस्य दर्शने अपि तस्याः धैर्यं न आसीत् । अत्रान्तरे तस्याः हस्तस्य उपरि कवोष्णः जलबिन्दुः पतितः । आश्चर्यचकिता ज्वाला मुखम् उन्नीय अपश्यत् । लक्ष्मणसिंहस्य नेत्रे सजले आस्ताम् । प्राप्त-धैर्या सा अपृच्छत् "अग्रज ! किमर्थम् अश्रूणि एतानि ? आगम्यताम् । मम गृहं गच्छाव" इति ।

तदा सः लुण्ठकः अवदत् "भगिनि ! इतः पूर्वं कापि मां प्रीत्या 'अग्रज' इति नैव सम्बोधितवती । भवत्याः प्रीतिविश्वासादीन् दृष्टवतः मम नेत्राभ्याम् अश्रूणि आगतानि। अहम् अद्य नितरां तुष्टः अस्मि । भवती यत् इच्छति तत् दातुम् इच्छामि अहम् । कृपया पृच्छ्यताम्" इति ।

तदा ज्वाला अवदत् - "मदर्थं किमपि न अवश्यकम्" इति ।

"तथापि किमपि प्रष्टव्यम् एव" इति सानुरोधम् अवदत् लक्ष्मणसिंहः ।

क्षणं विचिन्त्य अवदत् ज्वाला "अहं यत् पृच्छामि तत् निर्वर्तयितुं भवता न शक्येत...."

"अवश्यं शक्यते । भवती यत् इच्छति तत् प्रार्थयतु" इति अवदत् लक्ष्मणसिंहः ।

"आर्य । भवत्तः सर्वेऽपि बिभ्यति । अतः इतः परम् एषा कुवृत्तिः सर्वथा परि-त्यक्तव्या भवता इत्यस्ति मम अपेक्षा" इति अवदत् ज्वाला ।

लक्ष्मणसिंहः किञ्चित् विचिन्त्य अवदत् -"भगिनि ! यत् भवती इच्छति तत् दास्यामि इति प्रतिज्ञातम् अस्ति एव मया । अतः अधुना एव दुष्कार्यं परित्यजामि" इति ।

तस्य वचनात् ज्वाला परमसन्तुष्टा जाता ।

सम्भाषणसन्देशः, ऑगस्ट २००८

नादस्य कारणम्।

बालकः कृष्णः नवनीतप्रियः। गृहिण्यः यदा गृहे न भवन्ति तदा मित्रैः सह गत्वा प्रतिवेशिगृहात् नवनीतं चोरयति सः । गोप्यः नवनीतघटं शिक्यायां स्थापयन्ति । कृष्णः तु अधोमुखतया जानुहस्तयोः साहाय्येन उपविष्टवतः मित्रस्य पृष्ठम् आरुह्य नवनीतं चोरयित्वा मित्रेभ्यः अपि दत्त्वा स्वयं खादति । गोप्याः प्रत्यागमनात् पूर्वं सर्वे पलायन्ते ।

कदाचित् काचित् गोपिका अचिन्तयत् 'अहं शिक्यायां घण्टिकां बध्नामि। यदा कृष्णः शिक्यां स्पृशेत् तदा घण्टानादः श्रूयेत । तदा अहं कृष्णं ग्रहीतुं शक्नुयाम्' इति । ततः सा शिक्यायां घण्टिकाम् अबध्नात् ।

मित्रैः सह आगतः कृष्णः शिक्यायां घण्टाम् अपश्यत्। सः घण्टाम् आदिशत्- "अहमस्मि स्वयं विष्णुरूपः । अतः भवत्या मम स्पर्शसमये शब्दः न करणीयः" इति ।

तदा घण्टा अवदत् - "शब्दकरणं मम स्वभावः । तं कथम् अहं त्यजेयम् ?" इति ।

तत् श्रुत्वा कृष्णः अवदत् "अहं भगवान्। भवती मम भक्ता। मम आज्ञायाः पालनं भवत्याः कर्तव्यम्" इति ।

घण्टया एतत् अङ्गीकृतम् । किन्तु कृष्णः यदा नवनीतं मुखे अस्थापयत् तदा घण्टा उच्चैः शब्दम् अकरोत् । गोपिकायाः आगमनात् पूर्वम् एव कथमपि पलाय्य आत्मानम् अरक्षन् कृष्णादयः ।

अनन्तरदिने कृष्णः तदेव गृहं प्रविश्य घण्टाम् अपृच्छत् - "भवत्या मम आज्ञा किमर्थं न पालिता ?" इति ।

तदा घण्टा अवदत् - "यदा भवता शिक्या स्पृष्टा तदा मया शब्दः न कृतः । नैवेद्यसमये नादोत्पादनं मम धर्मः । अतः भवता यदा मुखे नवनीतं स्थापितं तदा मया नादः जनितः" इति । कृष्णः हसन् ततः निर्गतवान् ।

सम्भाषणसन्देश:, ऑक्टोबर २००८

गुरो: वचनस्य पालनम्।

सिक्खगुरुः अमरदासः शताधिकवर्षीयः वृद्धः । अतः तदीयाः सर्वे शिष्याः चिन्तयन्ति स्म - 'मया गुरुसेवा विशेषतः कृता। अतः गुरुपीठस्य उत्तराधिकारित्वं मया एव प्राप्येत' इति ।

अथ कदाचित् गुरुः अमरदासवर्यः सर्वान् शिष्यान् आहूय अवदत् - "भवन्तः सर्वे उत्तमतया अलिन्दान् निर्मान्तु नाम" इति। शिष्यैः महता उत्साहेन अलिन्दाः निर्मिताः । गुरुः सर्वान् अलिन्दान् परीक्ष्य अवदत् "एतेषु एकोऽपि अलिन्दः उत्तमः नास्ति । एतान् भञ्जयित्वा अन्ये अलिन्दाः निर्मातव्याः" इति ।

शिष्याः आत्मना निर्मितम् अलिन्दं भञ्जयित्वा नूतनम् अलिन्दं निर्मितवन्तः । गुरुः तु तान् अपि तिरस्कृतवान् । पञ्चषवारम् एवमेव प्रवृत्तम् । तस्मात् खिन्नाः सर्वे शिष्याः अलिन्दनिर्माणकार्यं परित्यज्य ततः निर्गताः ।

किन्तु शिष्यः रामदासः एकः एव निराशतां किञ्चिदपि अप्राप्नुवन् पुनरपि अलिन्दनिर्माणकार्ये उद्युक्तः अभवत् । एतत् दृष्ट्वा अन्ये शिष्याः तम् अवदन् -"भोः, किम् एतेन अलिन्दनिर्माणेन ? अस्माकं गुरुः तु विकलमतिः जातः अस्ति । अस्माभिः निर्मितस्य अलिन्दस्य भञ्जनात् एव तस्य तृप्तिः । एतादृशस्य गुरोः आज्ञा किमर्थं पालनीया ?" इति ।

तदा रामदासः शान्तस्वरेण अवदत् - "गुरुः तु भगवत्स्वरूपः । तस्मिन् विकलमतित्वस्य आरोपणम् अनुचितम्। गुरोः आज्ञा सर्वदा भवति शिरोधार्या । आज्ञा गुरूणाम् अविचारणीया इति वचनं किं भवद्भिः न श्रुतम् ? अतः यदि गुरुः वदेत् तर्हि आजीवनम् अपि अहम् एतदेव कार्यं कर्तुं सज्जः एव" इति ।

ततः तेन सप्ततिवारम् अलिन्दाः निर्मिताः इति श्रूयते। तस्य कार्यश्रद्धां गुरुभक्तिं च दृष्ट्वा अमरदासवर्यः तमेव स्वस्य उत्तराधिकारिणम् अकरोत् ।

सम्भाषणसन्देशः,ऑगस्ट २००८

अनुभोक्तव्यम् एव पापफलम् ।

चन्द्रः नाम चोरः चौर्यकर्मकलाकोविदः । रक्षकभटेभ्यः आत्मानं रक्षन् सः उपायेन चौर्यं करोति स्म । बहुत्र चौर्यं कृतवन्तम् अपि तं ग्रहीतुम् असमर्थाः आसन् भटाः । अतः 'चतुरः चन्द्रः' इत्येव ख्यातिः आसीत् तस्य । 

कदाचित् तेन लक्षाधिकानि रूप्यकाणि प्राप्तानि चौर्येण। सः तत् धनं सुरक्षिते स्थले स्थापयित्वा निश्चिन्ततां प्राप्नोत् ।

सुखेन शयानस्य तस्य मनःपटले कुलदैवतस्य विष्णोः मूर्तिः उपस्थिता । चोरस्यापि तस्य कुल-दैवते महती भक्तिः आसीत् एव । अतः सः अचिन्तयत् - 'एतदवसरे अहं समग्रं धनं भगवतः पादपद्ये समर्पयिष्यामि' इति । 

ततः सः विष्णुमन्दिरं गत्वा दानपात्रे समग्रं धनम् अर्पितवान् । एतस्मात् पुण्यकर्मणः फलरूपेण तेन विलक्षणः आनन्दः, महती तृप्तिः च अनुभूता । गच्छता कालेन सः मरणं प्राप्नोत् । यमभटैः सः चित्रगुप्तकार्यालयं प्रति नीतः । चित्रगुप्तः तस्य पाप-पुण्यादिविवरणं परिशील्य अवदत् "लक्षरूप्यकाणां यत् चौर्यं कृतं तस्य निमित्तं मासात्मकः नरकवासः दण्डः एतस्य" इति । तत् श्रुत्वा चोरः चन्द्रः अवदत् "मया तावत् धनं चोरितम् इति तु सत्यम् । 

किन्तु तत् समग्रं मया भगवते अर्पितम्। तत् तु पुण्यकरं कार्यम् । यत् पापम् आचरितं तस्य दुष्फलं पुण्यकर्मणः कारणात् क्षालितं भवेत् खलु ? अतः मया नरकवासः अनुभोक्तव्यः नास्ति" इति। तदा चित्रगुप्तः अवदत् "यत् पापम् आचरितं तन्निमित्तं नरकवासः अनुभोक्तव्यः एव । अतः एव मया भवतः नरकवासदण्डनम् आदिष्टम् । नरकवासस्य अनन्तरम् एव पुण्यकर्मणः फलम् अनुभूयेत । पुण्यकर्मणः कारणतः पापफलभूतात् नरकवासात् मुक्तिः तु न भवति" इति ।

सम्भाषणसन्देशः,ऑक्टोबर २००८