Showing posts with label सम्भाषणसन्देश: २०१६. Show all posts
Showing posts with label सम्भाषणसन्देश: २०१६. Show all posts

श्रमेण अर्जितं श्रेष्ठम्।

कश्चन आश्रमः । तस्य मुख्यः साधुमहाराजः सर्वदा वदति स्म "परिश्रमेण यत् सम्पाद्येत तदेव सेवनीयम् । तस्य वितरणमपि चिन्तनीयम् । 'केवलाघो भवति केवलादी' इति वेदवाक्यं स्मर्तव्यम्" इति । विरामसमये सः कागदेन पुटकान् निर्माति स्म । तस्य विक्रयणात् यत् धनं प्राप्येत तस्य कश्चन भागः स्वनिमित्तम् उपयुज्यते स्म तेन । आश्रम जनाः अपि एतमेव नियमं पालयन्ति स्म ।

एकदा कश्चन धनिकः आगत्य साधुमहाराजम् अपृच्छत् - "महोदय । मया दानं कर्तुम् इष्यते। कस्मै देयम् ?" इति ।

"यस्य जीवने धनस्य आवश्यकता स्यात् तस्मै" इति अवदत् साधुमहाराजः ।

धनिकः कस्मैचित् वृद्धाय भिक्षुकाय एकं सुवर्णनाणकम् अयच्छत् । भिक्षुकः तत् कृतज्ञतापूर्वकं स्व्यकरोत् । अनन्तरदिने धनिकः मार्गे गमनसमये सः भिक्षुकः अन्यं भिक्षुकं यत् वदन् आसीत् तत् अश्रृणोत् । सुवर्णनाणकस्वीकर्ता अन्यम् अवदत् -"ह्वाः कश्चन उदारः धनिकः एकं सुवर्णनाणकम् अयच्छत् । मया महता आनन्देन भूरिभोजनं कृतम्, आकण्ठं मदिरा पीता च। रात्रौ तादृशी निद्रा प्राप्ता, यत्र इहप्रपञ्चबोधः एव न आसीत्" इति ।

एतस्य श्रवणात् धनिकस्य महान् खेदः- मया दत्तस्य धनस्य सदुपयोगः न जातः इति । सः साधुमहाराजं दृष्ट्वा स्वस्य अनुभवम् अश्रावयत्। तदा साधुमहाराजः स्वसम्पादनस्य शेषभूतम् एकं नाणकं तस्मै दत्त्वा -"एतत् कस्मैचित् याचकाय देहि। सः किं कुर्यात् इति परीक्षस्व इति अवदत् ।

धनिकः कस्मैश्चित् याचकाय नाणकं दत्तवान्। सः तत् स्वीकृत्य गृहं प्रविश्य कञ्चित् पक्षिणं गृहीत्वा बहिः आगत्य तं पक्षिणं विमुक्तवान् । पक्षी सन्तोषेण उड्डीय गतः ।

तदा धनिकः तं पृष्टवान् -"किमर्थम् एवं कृतं भवता ?" इति ।

तदा सः याचकः अवदत् "मम कुटुम्बस्य बुभुक्षायाः निवारणाय अयं पक्षी गृहीतः आसीत् मया । किन्तु अद्य भवता यत् नाणकं दत्तं ततः अस्माकं सर्वेषां बुभुक्षा निवारिता भविष्यति । अतः अहम् एतं पक्षिणं बन्धविमुक्तं कृतवान्" इति ।

तदा धनिकः अवगतवान् यत् परिश्रमेण सम्पादितस्य, परिश्रमं विना प्राप्तस्य च धनस्य कः भेदः इति । तस्मात् दिनात् सोऽपि शरीर-परिश्रमम् आरब्धवान् ।

सम्भाषणसन्देशः, जून २०१६


त्रिषु अंशेषु अवधानम्।

कश्चन राजा । सः न्यायेन क्रमेण राज्यशासनं करोति । प्रजावत्सलः शासनदक्षः च सः । सर्वत्र तस्य कीर्तिः प्रसूता आसीत् ।

अधिकख्यातिमत्तः अपि तस्य गर्वः न आसीत् । ज्येष्ठानां, गुरूणां, ज्ञानिनां च मार्गदर्शनप्राप्तौ सर्वदा समुत्सुकः भवति स्म सः । तादृशानां मार्गदर्शनमेव विकासस्य परिकल्पयति इत्यत्र विश्वासः तस्य ।

कदाचित् कुलगुरुम् उपसृत्य सः अपृच्छत् - "गुरुवर्य ! मम शासनं सर्वदा उत्तममेव भवेत् इति मम इच्छा । तदर्थं किं करणीयं मया ?" इति । 

तदा कुलगुरुः अवदत् - "त्रिषु अंशेषु भवतः अवधानं भवतु" इति । "ते के त्रयः अंशाः ?" राजा कुतूहलेन अपृच्छत् ।

"बलवत् दुर्गं, स्वादु भोजनं, मृद्वी शय्या च स्यात् भवतः" - कुलगुरुः अवदत् ।

"एतानि तु प्रायः सुखसाधनानि । एतानि सन्ति चेत् अहङ्कारः वर्धेत, आलस्यं च अस्मासु प्रविशेत् । तदा प्रजापालनविषये अनादरः एव स्यात्" इति अवदत् राजा ।

तत् श्रुत्वा कुलगुरुः हसन् अवदत् - "एतेषां सामान्यार्थः गृहीतः भवता, न तु विशिष्टार्थः । अतः एवं पृच्छसि ।"

"कः विशिष्टार्थः एतेषाम् ?" - कुतूहलेन अपृच्छत् राजा ।

"बलवत् दुर्गं नाम गुरुज्येष्ठादीनाम् उपदेशः । चारित्र्यरूपं दुर्गं राज्ञानं रक्षितुम् अर्हति । तस्य परिरक्षणविषये सर्वदा अवधानं देयम् । तत् चारित्र्यरूपं दुर्गं यस्मिन् दिने विनश्येत् तस्मिन् एव दिने राज्ञः अधःपतनस्य आरम्भः अपि भवेत् ।"

"स्वादु भोजनं नाम ?" - राजा अपृच्छत् ।

"मिताहारः एव स्वादुभोजनम् । मिताहारे सेविते एव आहारस्य स्वादुता ज्ञायते । परिश्रमशीलता सर्वदा स्यात् चेत् भोजनं सर्वदा स्वादुतया भासेत । जिह्वा अस्माकं दासी स्यात्, न तु वयं जिह्वायाः दासाः स्याम ।..."

"मृद्वी शय्या इत्यस्य कः आशयः ?"

"प्रजारक्षणस्यैव यदा प्राधान्यं चिन्त्येत, प्रजारक्षणात् यदा तृप्तिः प्राप्येत तदा निश्चिन्ततया निद्रा प्राप्येत । तल्पे इव कटे भूमौ वा शयनात् अपि निद्रायाः बाधा न स्यात् । प्रजारक्षणचिन्तनमेव राज्ञः मृद्वी शय्या ।"

एतत् विवरणं श्रुत्वा राजा कृतज्ञतापूर्वकं कुलगुरुं नमस्कृतवान् ।

सम्भाषणसन्देशः, जुलै २०१६

नाम्न: चिरस्थायितायै प्रयास:।

पूर्वम् आसीत् कश्चन राजा । तस्य राज्यं सुसमृद्धम् आसीत् । प्रजाः अपि धर्मपराः । पूर्वजानां शासनमपि प्रजाहितपरम् आसीत् इत्यतः शासनव्यवस्था अत्युत्तमा आसीत् । वृष्ट्यादयः काले काले भवन्ति स्म इत्यतः देशे कृष्यादिकार्याणि उत्तमतया प्रचलन्ति स्म । कृषिकाः वणिजादयः च करदाने बद्धादाः । अतः राजकोषः सर्वदा धनेन पूर्णः भवति स्म ।

पूर्वजानां परम्पराम् अनुसरन् राजा मन्दिरधर्म-शालादिकं निर्मापयति स्म। कासारसरोवरादीन् अपि निर्मापयति स्म सः । उत्तमान् मार्गान् परिकल्पयति स्म । उद्यानादीन् अपि व्यवस्थापयति स्म । मन्दिर कासारादीनां पार्श्वे प्रतिष्ठापितानि शिलाफलकानि तस्य दानशीलतां ख्यापयन्ति स्म ।

शिलाफलकानां दर्शनात् जनाः राज्ञः एतादृशानि जनहितपराणि कार्याणि स्मरन्ति स्म । शिलाफलकानि प्रदर्श्य ते वदन्ति स्म - "एतादृशः राजा अन्यः न स्यात् एव । अस्माकं सौभाग्येन एव वयम् एतं राजत्वेन प्राप्त-वन्तः" इति ।

कदाचित् कञ्चन महात्मा तदीयं प्रासादम् आगत-वान् । राजा तेन सह राजधान्यां सञ्चरन् आत्मना कृतानां जनहितकार्याणां विषये अवदत् । शिलाफलकानि च अदर्शयत् ।

तानि दृष्ट्वा सः महात्मा उच्चैः अहसत् । एतत् दृष्ट्वा राजा महत् आश्चर्य प्राप्नोत् । सः अपृच्छत् "महात्मन् ! किमर्थम् एवं हसितं भवता ?" इति ।

तदा महात्मा अवदत् "भूमि, वायु, जलं, प्रकाशम्, अन्नम्, ऐश्वर्यं, जनशक्तिं, निसर्गानुकूल्यं च प्रदत्तवान् अस्ति भगवान् एव । एतानि सर्वाणि सन्ति अत्यमूल्यानि । एतानि सर्वाणि दत्तवान् अपि भगवान् तु मौनेन तिष्ठति । तदीयानि उपायनानि उपयुज्य कानिचन कार्याणि कृत्वा भवान् शिलाफलकेषु स्वनाम लेखयित्वा साभिमानं वदति मया कारितानि एतानि इति । कर्ता कारयिता च अस्ति सः भगवान् एव । अन्यच्च, तेन सृष्टानि नदीजलवायुप्रभृतीनि निरन्तरं परहितमेव कुर्वन्ति । किन्तु आत्मानं तु न ख्यापयन्ति । वृक्षादीन् पश्य । ते फलच्छायादीन् दत्त्वा आजीवनं परोपकारं कुर्वन्तः अपि मौनेन तिष्ठन्ति । मेघाः वर्षन्तः सस्यसमृद्धिं कल्पयन्तः अपि मौनव्रतधारिणः भवन्ति । निसर्गे परोपकाररताः कियन्तः अंशाः न सन्ति ? तेषु कोऽपि आत्मख्यापनाय न उद्यतः। वयं मानवाः एव अल्पं कार्यं कृत्वा स्वकार्यस्य विषये गर्वं वहामः । स्वनाम्नः चिरस्थायिता भवतु इति चिन्तयन्तः तदर्थ बहुधा प्रयतामहे । यत् शाश्वतं यस्य च प्राप्त्यर्थ विशेषतः प्रयासः करणीयः तद्विषये अवधानमेव न भवति अस्माकम् । एतत्सर्वं स्मरतः मम मुखात् हासः निर्गतः" इति ।

सम्भाषणसन्देश:, सप्टेंबर २०१६

कष्टानि भवन्ति अनुभवाय।

रामकृष्णपरमहंसस्य आश्रमः। कदाचित् आश्रमस्य पुरतः चिन्ताक्रान्तः सन् उपविष्टः आसीत् विवेकानन्दः। प्रार्थनां समाप्य आश्रमात् बहिः आगतः रामकृष्णपरमहंसवर्यः एतत् अपश्यत्। सः विवेकानन्दम् उपसृत्य अपृच्छत् - “किमर्थम् एवं चिन्ताक्रान्तः असि?” इति।

तदा विवेकानन्दः अवदत् - “गुरुवर्य! जनानां जीवनम् एवं कष्टकरं किमर्थं भवति? किमर्थम् उत्तमाः जनाः अधिकं कष्टम् अनुभवन्ति?”

रामकृष्णपरमहंसः: कष्टानि भवन्ति अस्माकम् उत्कर्षाय एव। उद्घर्षणात् विना वज्रं न प्रकाशते। दाहे विना सुवर्णस्य परिशुद्धिः न सिद्ध्यति। कष्टसम्मुखीकरणं विना मानवः अनुभववान् न भवति। कष्टेषु उपस्थितेषु अस्माकं पुरतः मार्गद्वयं भवति - सम्मुखीकरणं पलायनं च इति। अधीरः पलायते। धीरश्च धैर्येण कष्टानि सम्मुखीकरोति। जीवने कष्टानि किमर्थं भवन्ति इत्यादिभिः व्यर्थचिन्तनैः अलम्। कर्मणि उद्यतो भव।

विवेकानन्दः: गुरुवर्य! कष्टानि सम्मुखीकृत्य एव अनुभवः प्राप्तव्यः किम्? अनुभवस्यैव परमप्राधान्यम् अस्ति किं जीवने?

रामकृष्णपरमहंसः: अनुभवः एव ज्ञानम्। ज्ञानमेव गुरुः, मार्गदीपः च। लोके पाठशालादिषु आदौ बोध्यते, ततः परीक्षा व्यवस्थाप्यते। किन्तु जीवनरूपिण्यां पाठशालायां तु आदौ परीक्षा उपस्थिता भवति, ततः एव पाठः पठनीयः भवति। परीक्षार्थिना स्वयमेव द्रष्टव्यम्। चक्षुरिन्द्रियं बिम्बानि दर्शयति। किन्तु जीवनमार्गं तु दर्शयति हृदयम्। अन्तरङ्गं परिशुद्धम् अस्ति चेत् शुद्धं ज्ञानं प्राप्यते। तदेव जीवनमार्गं दर्शयति।

विवेकानन्दः: यशसः मार्गः कण्टकैः आकीर्णः। तत्र असाफल्यानि अपि भवन्ति बहुधा। ततः मानवाः हतोत्साहाः भवन्ति। एतस्य निवारणार्थं किं करणीयम्?

रामकृष्णपरमहंसः: वत्स! साफल्य-वैफल्ययोः वास्तविकः अर्थः न ज्ञायते जगता। साफल्यमपि पतनस्य कारणं भवितुम् अर्हति। वैफल्यमपि अग्रिमकार्यस्य प्रेरकं भवितुम् अर्हति। पराजयः विजयस्य सोपानलेन भावनीयः। वैफल्यं मार्गस्य अपरिष्कृततां, प्रयत्नस्य अपर्याप्ततां, जागरूकतायाः अनाश्रयणं च द्योतयति। एतत् अनवगच्छन्तः वयं भगवन्तं निन्दामः। असाफल्यं दत्तम् इति भूतकालं दृष्ट्वा अवगच्छामः। मया कियद् दूरम् आगतम् इति। आत्मविश्वासेन वर्तमाने कार्याणि कुर्मः। तदा एव निर्भीकतया भविष्यं सम्मुखीकर्तुं धैर्यं प्राप्यते। अनुभवः यावत् भवता सह तिष्ठेत् तावत् असाफल्यं न भवेत्। यदि कदाचित् असाफल्यं प्राप्येत तर्हि अपि नूतनः अनुभवः यः प्राप्येत सः एव पुनः अग्रे गमने उपकारकः भविष्यति।

सम्भाषणसन्देश:, सप्टेम्बर २०१६

गुरो: श्रेष्ठता।

कश्चन राजकुमारः । आ बाल्यात् एव गुरुकुले अध्ययनं कृतम् आसीत् तेन। तदीयश्रद्धायाः कारणतः गुरुकुले सर्वप्रियः आसीत् सः । सर्वविधविद्याः अधीत्य सः प्रासादं प्रत्यागतवान् ।

कदाचित् सः राजमार्गेण गच्छन् आसीत् । तदवसरे तदीयः गुरुः, चक्रवर्ती पिता च अभिमुखम् आगतौ। राजकुमारः झटिति रथात् अवातरत् । आदौ गुरुं पाद स्पर्शपूर्वकं प्रणम्य ततः पितरमपि प्राणमत् सः । तयोः अनुज्ञां प्राप्य सः रथम् आरुह्य अग्रे अगच्छत् स्वकार्याय ।

तदवसरे तदीयः सुहृत् अपृच्छत् "मित्र। आगमनावसरे गुरुः पिता च अभिमुखम् आगतौ । जन्मदाता पिता एव खलु सर्वश्रेष्ठः । भवान् अचिरात् एव चक्रवर्ती भविष्यति यत् तस्य कारणम् अपि पिता एव । सः चक्रवर्ती अपि । अतः आदौ भवता पिता खलु नमस्कर्तव्यः आसीत् ? भवान् तु आदौ गुरुं नमस्कृत्य पितरम् अनन्तरं नमस्कृतवान् । एतत् किमर्थम् ?' इति ।

"गुरुः एव श्रेष्ठः इत्यतः" - राजकुमारः अवदत् ।

"तत् कथम् ?" इति अपृच्छत् सुहृत् ।

"पित्रा जन्म दत्तम् इति तु सत्यम् । तत्कारणतः मया प्राप्तं तु नश्वरं शरीरम् । पितुः कारणतः मया या सम्पत्तिः प्राप्ता सान स्थिरा । चक्रवर्तित्वं यत् प्राप्येत तदपि नश्वरम् एव ।...."

"जनकात् अपि गुरोः श्रेष्ठता कथं स्यात् ? गुरुः न बन्धुः । अध्ययनकालमात्रे तस्य सम्बन्धः । आजीवनं तस्य सम्बन्धः न भवति अपि ।..."

"किन्तु गुरुः मम अज्ञानं नाशवित्वा माँये ज्ञानम् उत्पादितवान् । मम विकासं विशेषतः सम्पादितवान् सः। मम आचारचारित्र्यादीन् परिष्कृतवान् । तेन यत् ज्ञानं दत्तं तत् शाश्वतं महार्घं च । तादृशस्य दाता सर्वस्मादपि श्रेष्ठः कथं न भवेत् ? आजीवनं तस्य सम्बन्धः मम न भवेत् । किन्तु तेन दत्तं ज्ञानं तु आजीवनं स्थास्यति एव खलु ? कष्टकाले तदेव मम मार्गदीपः । जनाः यथा मां स्मरेयुः तथा व्यवहरणीयं चेत् तेन बोधितः उपदेशः एव शरणम् । अहम् अधःपतनादिकं यथा न प्राप्नुयां तथा समुचितः मार्गः दर्शितः तेन एव । अतः एव तस्य श्रेष्ठता" इति अवदत् राजकुमारः ।

सम्भाषणसन्देश:, सप्टेम्बर २०१६

गार्हस्थ्यजीवनस्य रहस्यम्।

कदाचित् कस्यचित् तरुणस्य विवाहः निश्चितः । गार्हस्थ्य-जीवनं कथं भवेत् इति विषये मार्गदर्शनं प्राप्तुं सः कबीरवर्यस्य गृहं गतवान् । स्वस्य विवाहनिश्चयवार्ता श्रावयित्वा सः गार्हस्थ्य-जीवनविषये मार्गदर्शनं क्रियताम् इति प्रार्थितवान् ।

'किञ्चित्कालम् उपविश्यताम्' इति तम् उक्त्वा कबीरः पत्नीम् अवदत् - "कञ्चित् दीपं प्रज्वाल्य आनीय मम पुरतः स्थापय" इति ।

सः आसीत् मध्याह्नकालः । सर्वत्र महान् प्रकाशः आसीत् एव । तथापि कबीरस्य पत्नी पत्युः आदेशं पालयन्ती दीपम् आनीय कबीरस्य पुरतः स्थापितवती ।

किञ्चिदनन्तरं सा क्षीरचषकद्वयं गृहीत्वा आगत्य एकैकस्मै एकैकं चषकं दत्तवती । उभौ अपि क्षीरस्य पानम् आरब्धवन्तौ । अल्पस्य क्षीरस्य सेवनात् एव सः तरुणः अवगतवान् यत् क्षीरे लवणं स्थापितं, न तु शर्करा इति। सः कबीरस्य मुखं दृष्टवान्। कबीरः तु आनन्देन एव क्षीरस्य पाने मग्नः आसीत् ।

तावता कबीरस्य पत्नी पृष्टवती "क्षीरे शर्करा पर्याप्तमात्रेण अस्ति किम् ? किमहं शर्करां पुनरपि आनयानि ?" इति ।

"क्षीरं स्वादु अस्ति । पुनः शर्करा न आवश्यकी" इति अवदत् कबीरः । ततः पत्नी कार्यार्थम् अन्तः गतवती ।

किञ्चिदनन्तरं कबीरः तं तरुणं पृष्टवान्- "गार्हस्थ्य-जीवनं कथं भवेत् इति विषये मार्गदर्शनं प्राप्तं नु त्वया ?" इति ।

"तत्रभवता किमपि न बोधितमेव । एवं स्थिते मया किं वा प्राप्येत ?'' इति अवदत् तरुणः ।

"मया सर्वमपि बोधितम् । भवता तत् न लक्षितं, तावदेव । महति प्रकाशे सत्यपि मया पत्नी उक्ता- दीपम् आनय इति । प्रकाशे दीपस्य न आवश्यकता इति जानती अपि मम पत्नी दीपम् आनीय मम पुरतः स्थापितवती । क्षीरे शर्करायां योजनीयायां, लवणं योजितम् इति मया अपि ज्ञातम् एव । अहं जानामि यत् कापि बुद्धया क्षीरे लवणं न योजयेत् इति । अतः मया तूष्णीं स्थितम् । एवम् आवाम् अन्यस्य प्रमादान् सहावहे । परस्परदोषारोपः कदाचिदपि न क्रियते आवाभ्याम् । सर्वदा औदार्यम् अवलम्ब्यते । अतः एव महत्यां विपदि उपस्थितायाम् अपि अस्मदीयं कुटुम्ब-जीवनं स्वस्थं तिष्ठति । एतदेव गृहस्थ-जीवनस्य परमं रहस्यम् । एतत् ज्ञात्वा यः एतदनुगुणतया व्यवहरेत् तस्य गार्हस्थ्य-जीवनं सुखमयमेव स्यात् । यः एतत् न अनुतिष्ठेत् सः बहुधा कष्टम् अनुभवेत्" इति विवृतवान् कबीरः ।

तरुणः कबीराय कृतज्ञतां समर्प्य ततः निर्गतवान् ।

सम्भाषणसन्देशः, ऑक्टोबर २०१६

धनादपि मूल्यं श्रेष्ठम्।

कश्चन ग्रामः। तत्र निवसति स्म कश्चन निर्धनः कृषिकः। तस्य गृहस्य पृष्ठतः आसीत् कश्चन कासारः। तत्र किञ्चित् अपूर्वं पुष्पं विकसितम्। तस्य विक्रयणाय सः विपणिम् अगच्छत्। विपणौ कश्चन वणिक् तम् उपसृत्य अवदत् – “भोः, एतत् अपूर्वं पुष्पम्। एतस्मिन् काले एतादृशस्य पुष्पस्य विकासः न भवति। एतत् मह्यं दीयताम्। शतं सुवर्णनाणकानि दास्यामि” इति।

तावता सेनापतिः तत्र आगतः। सः अवदत् – “अहं सहस्रं सुवर्णनाणकानि दास्यामि। एतत् पुष्पं मह्यं देहि" इति।

अत्रान्तरे मन्त्री तत्र उपस्थितः। सः अवदत् – “अहं दशसहस्रं सुवर्णनाणकानि दास्यामि। एतत् पुष्पं मह्यमेव देहि" इति।

तदनन्तरे राज्ञः रथः तत्र समागतः। राज्ञः दूतः रथात् अवतीर्य अवदत् – “महाराजः लक्षं सुवर्णनाणकानि दातुं सज्जः। अतः एतत् राज्ञे एव देयम्” इति।

‘यस्य मूल्येन अहम् एकरूप्यकमात्रस्य प्राप्तिम् इष्टवान्, तस्य निमित्तं प्रभूतं धनं दातुम् एते अहम्-अहमिकया किमर्थं दर्शयन्ति ?’ इति चिन्तयन् सः कृषिकः सेनापतिम् अपृच्छत् – “भवन्तः अधिकं मूल्यं दातुं किमर्थं सज्जाः ?” इति।

तदा सेनापतिः अवदत् – “अद्य गौतम-बुद्धः एतन्नगरम् आगमिष्यति। तस्य स्वागतार्थं वयं प्रस्थिताः। अकाले प्राप्यमाणम् एतत् पुष्पं यदि तस्मै अर्पयेत् तर्हि सः नितरां सन्तुष्टः भवेत्। अतः एतत् क्रेतुं वयं प्रयासरताः” इति।

एतत् श्रुत्वा कृषिकः अवदत् – “एतत् अहं विक्रेतुं न इच्छामि। अहमेव बुद्धाय समर्पयिष्यामि एतत्” इति।

ततः सः कृषिकः बुद्धसमीपम् अगच्छत्। तावता वणिक्-सेनापति-मन्त्रि-राजभृतयः तत्र उपस्थिताः आसन्। कृषिकः बुद्धाय भक्त्या तत् पुष्पं समर्पितवान्। तस्य पुष्पस्य दर्शनात् बुद्धः नितरां प्रसन्नः जातः।

तदा मन्त्रिप्रभृतयः प्रवृत्तं सर्वं बुद्धं न्यवेदयन्। बुद्धः कृषिकम् अपृच्छत् – “भोः, महत् ऐश्वर्यं प्राप्तुम् अवसरे प्राप्ते अपि त्वया एतत् पुष्पं किमर्थं न विक्रीतम् ?” इति।

तदा कृषिकः अवदत् – “महत्या भक्त्या यत् अर्पणं क्रियेत तत् प्राप्यमाणात् अपि अधिका स्यात्। अतः मया विक्रये मतिः न कृता” इति।

तत् श्रुत्वा बुद्धः राजादीन् उद्दिश्य अवदत् – “पश्यत अस्य भक्त्यतिशयम्। धनात् अपि मूल्यानि एव श्रेयांसि इति अयं स्वव्यवहारेण दर्शितवान् अस्ति। अयम् अकिञ्चनः स्यात्। तथापि गुणेन तु आढ्यः एव” इति।

सम्भाषणसन्देशः, ऑगस्ट् २०१६ 

धीर: सत्यनिष्ठ: तरुण:।

कदाचित् प्रयाणकाले शिवराजः (शिवाजिः) स्वशिबिरे शयितः आसीत् । तदा कश्चन तरुणः तं मारयितुं प्रयासम् अकरोत् । तदवसरे सेनापतिः तानाजिः तं गृहीतवान् । शिवराजः तल्पे उपविश्य तं तरुणम् अपृच्छत् - “भोः, कः भवान् ? किमर्थं मम मारणाय भवता प्रयासः कृतः ?” इति ।

तदा सः तरुणः अवदत् – “अहम् एतद्देशीयः एव । मम नाम मालाजिः इति । भवतः शत्रुः सुभानरायः माम् अवदत् यत् यदि शिवराजः संह्रियेत तर्हि प्रभूतं धनं दास्यते इति । अतः मया अत्र आगतम् ।...।”

“धनं ददामि इति शत्रुपक्षीयः यदि वदेत् तर्हि किं भवान् राजद्रोहं कुर्यात् ? किम् एतत् उचितम् ?” – शिवराजः अपृच्छत् ।

“भवतः विषये मम क्रोधः आसीत् एव । शत्रुपक्षीयेण तत्र आज्यम् अर्पितम्” - तरुणः क्रोधमिश्रितेन स्वरेण अवदत् ।

“मम विषये क्रोधः !! सः किमर्थम् ? मया तादृशं किं वा कृतम् ?”

“मम पिता आसीत् कश्चन सैनिकः । सः कदाचित् युद्धे मृतः । किन्तु शासनपक्षीयैः केनापि मम कुटुम्बविषये अवधानं न दत्तम् । दारिद्र्यकारणतः मम माता सन्तप्ता अस्ति । अस्वस्था सती सा शय्याम् आश्रितवती । दिने द्विवारं भोजनम् अपि कष्टाय । एवं स्थिते तस्याः चिकित्सा कथं क्रियेत मया ? मम माता कथमपि रक्षणीया । तदर्थं धनम् आवश्यकम् । न्यायान्याय्यं यदि चिन्तयेयं तर्हि मया मातृवियोगः प्राप्तव्यः भवेत् । अतः एतस्मिन् कार्ये उद्यतः मया ।’’

एतत् श्रुत्वा तानाजिः अवदत् – “एतस्य दुष्कृत्यस्य फलं तु मरणदण्डनम् एव । तदर्थं सज्जः भव ।”

तदा सः तरुणः अवदत् – “अहं मरणात् न बिभेमि । देशे मादृशाः अन्ये अपि भवेयुः । तेषां विषये महाराजस्य अवधानम् आक्रष्टुं मया । तस्मात् कृतकृत्यः अस्मि । मम शिरश्छेदं कर्तुम् अर्हन्ति भवन्तः । शय्यां श्रितवतीं मातरं मरणात् पूर्वं सकृत् द्रष्टुम् इच्छामि । तदर्थम् अनुज्ञा दीयताम् ।”

शिवराजः एतत् अङ्गीकृतवान् । ततः निर्गतः सः तरुणः मातरं दृष्ट्वा अनन्तरदिने शिवराजस्य पुरतः उपस्थितः भूत्वा – “इदानीं मरणदण्डनं दातुम् अर्हन्ति भवन्तः” इति अवदत् ।

तदा शिवराजः आनन्दाश्रूणि स्रावयन् – “भवादृशं धीरं सत्यनिष्ठं तरुणं कथं वा अहं दण्डयेयम् ? मम शासनस्य लोपं दर्शयता भवता महान् उपकारः अपि कृतः । भवादृशानां कारणात् एव देशस्य गौरवं वर्धते” इति उक्त्वा तं सैन्ये नियोजितवान् ।

कदाचित् प्रयाणकाले शिवराजः (शिवाजिः) स्वशिबिरे शयितः आसीत् । तदा कश्चन तरुणः तं मारयितुं प्रयासम् अकरोत् । तदवसरे सेनापतिः तानाजिः तं गृहीतवान् । शिवराजः तल्पे उपविश्य तं तरुणम् अपृच्छत् - “भोः, कः भवान् ? किमर्थं मम मारणाय भवता प्रयासः कृतः ?” इति ।

तदा सः तरुणः अवदत् – “अहम् एतद्देशीयः एव । मम नाम मालाजिः इति । भवतः शत्रुः सुभानरायः माम् अवदत् यत् यदि शिवराजः संह्रियेत तर्हि प्रभूतं धनं दास्यते इति । अतः मया अत्र आगतम् ।...।”

“धनं ददामि इति शत्रुपक्षीयः यदि वदेत् तर्हि किं भवान् राजद्रोहं कुर्यात् ? किम् एतत् उचितम् ?” – शिवराजः अपृच्छत् ।

“भवतः विषये मम क्रोधः आसीत् एव । शत्रुपक्षीयेण तत्र आज्यम् अर्पितम्” - तरुणः क्रोधमिश्रितेन स्वरेण अवदत् ।

“मम विषये क्रोधः !! सः किमर्थम् ? मया तादृशं किं वा कृतम् ?”

“मम पिता आसीत् कश्चन सैनिकः । सः कदाचित् युद्धे मृतः । किन्तु शासनपक्षीयैः केनापि मम कुटुम्बविषये अवधानं न दत्तम् । दारिद्र्यकारणतः मम माता सन्तप्ता अस्ति । अस्वस्था सती सा शय्याम् आश्रितवती । दिने द्विवारं भोजनम् अपि कष्टाय । एवं स्थिते तस्याः चिकित्सा कथं क्रियेत मया ? मम माता कथमपि रक्षणीया । तदर्थं धनम् आवश्यकम् । न्यायान्याय्यं यदि चिन्तयेयं तर्हि मया मातृवियोगः प्राप्तव्यः भवेत् । अतः एतस्मिन् कार्ये उद्यतः मया ।’’

एतत् श्रुत्वा तानाजिः अवदत् – “एतस्य दुष्कृत्यस्य फलं तु मरणदण्डनम् एव । तदर्थं सज्जः भव ।”

तदा सः तरुणः अवदत् – “अहं मरणात् न बिभेमि । देशे मादृशाः अन्ये अपि भवेयुः । तेषां विषये महाराजस्य अवधानम् आक्रष्टुं मया । तस्मात् कृतकृत्यः अस्मि । मम शिरश्छेदं कर्तुम् अर्हन्ति भवन्तः । शय्यां श्रितवतीं मातरं मरणात् पूर्वं सकृत् द्रष्टुम् इच्छामि । तदर्थम् अनुज्ञा दीयताम् ।”

शिवराजः एतत् अङ्गीकृतवान् । ततः निर्गतः सः तरुणः मातरं दृष्ट्वा अनन्तरदिने शिवराजस्य पुरतः उपस्थितः भूत्वा – “इदानीं मरणदण्डनं दातुम् अर्हन्ति भवन्तः” इति अवदत् ।

तदा शिवराजः आनन्दाश्रूणि स्रावयन् – “भवादृशं धीरं सत्यनिष्ठं तरुणं कथं वा अहं दण्डयेयम् ? मम शासनस्य लोपं दर्शयता भवता महान् उपकारः अपि कृतः । भवादृशानां कारणात् एव देशस्य गौरवं वर्धते” इति उक्त्वा तं सैन्ये नियोजितवान् ।

सम्भाषणसन्देशः, जुलै २०१६

भगवत्कृपया रक्षित:।

जगदीशचन्द्रशास्त्री कश्चन क्रान्तिकारिदलस्य सियालकोटस्थे रेलयाने स्थितः त्रयः आरक्षकाः मारिताः इति आरोपः आसीत् तद्विषये। सः विज्ञानानन्दसरस्वतीनाम्ना तिष्ठन् कस्मिश्चित् गुरुकुले अध्यापयति स्म। तं गृहीतुं यः साहाय्यं कुर्यात् तस्मै योग्यः पुरस्कारः दास्यते इति सर्वकारेण घोषितम् आसीत्।

कदाचित् जगदीशचन्द्रशास्त्री देहरादूनां प्रति प्रस्थितः। प्रयाणावसरे विश्रामार्थं सः राजपुरमार्गे स्थितं कञ्चित् आश्रमं प्राविशत्। आश्रमस्थः साधुः दर्शनमात्रेण एव जगदीशचन्द्रवर्यम् अभिज्ञातवान्। अतः सः पुरस्काराशया आरक्षकान् असूचयत्। आरक्षकाः आगत्य शास्त्रिवर्यं आरक्षकालयम् अनयन्। शास्त्रिवर्यः तु अल्पमपि धैर्यच्युतिं न प्राप्नोत्।

आरक्षकाधीक्षकः नामादिकं विचार्य तदीयस्य स्यूतस्य परिशोधनाय आज्ञापितवान्। कश्चन आरक्षकः शास्त्रिणः स्यूतस्य परिशीलनम् आरब्धवान्। प्रथमं वस्त्रं स्यूतात् बहिः स्थापितम्। द्वितीयमपि बहिः स्थापितम्। तृतीयं वस्त्रं स्यूतात् यदा बहिः स्वीकृतं तदा तस्मात् अशीत्यधिकानि रजतनाणकानि भूमौ अपतन्।

"भोः, एतानि नाणकानि कुतः प्राप्तानि भवता?" - आरक्षकाधीक्षकः अपृच्छत्। "अहं गङ्गोत्रीं गच्छन् अस्मि। तत्र अन्नदानं करणीयम् इति उक्त्वा बन्धुमित्रादिभिः दत्तं धनम् एतत्" इति अवदत् जगदीशचन्द्रशास्त्री।

तदा आरक्षकाधीक्षकः आरक्षकम् उद्दिश्य - "कश्चित् साधुं क्रान्तिकारित्वेन निर्दिश्य अत्र आनयतः तव विवेकः सर्वथा विनष्टः। धिक् त्वाम्" इति उक्त्वा धने वस्त्राणि च पुनरपि स्यूते संस्थाप्य कोषात् दश रूप्यकाणि निष्कास्य "गच्छतु" इति उक्त्वा आरक्षकाय रूप्यकदशकं दत्त्वा "एतत् आर्यभोजयित्वा अग्रे प्रेषयतु" इति आदिशत्।

आरक्षकेण सह आरक्षकालयात् किञ्चिद्दूरं गत्वा जगदीशचन्द्रशास्त्री तम् आरक्षकम् अवदत् - "भोः, तत् रूप्यकदशकं मह्यं दीयताम्। अग्रे कश्चित् अहं भोजनं करिष्यामि। इदानीं भवता भोजनं दापनीयं नास्ति" इति।

तदा आरक्षकः तस्मै रूप्यकदशकं दत्त्वा - "आर्य ! भवान् एव जगदीशचन्द्रशास्त्री इति मया आरक्षकालये ज्ञातम्। भवतः स्यूते तृतीयवस्त्रस्य अधः लघु-भुशुण्डिः या आसीत् सा मया लक्षिता एव। अतः एव अन्यत्र अन्वेषणाम् अवधानस्य आकर्षणाय भवतः वस्त्रे स्थितानि नाणकानि मया पातितानि। भगवत्कृपया अद्य भवान् अपायात् रक्षितः। अग्रे आत्मरक्षणविषये भवता इतोऽपि अधिकजागरूकता वोढव्या। शुभास्ते पन्थानः।" इति अवदत्। तस्मै इत्थं हितपूर्वकं कृतज्ञतां समर्प्य प्रयाणम् अनुवर्तितवान् जगदीशचन्द्रशास्त्री।

सम्भाषणसन्देशः, ऑगस्ट २०१६


बहव: मार्गा: न अनुसर्तव्या:।

आसीत् कस्मिंश्चित् ग्रामे कश्चित् पुरुषः। सः युङ्ग्झि-    वर्यस्य प्रातिवेशिकः । एकदा तस्य मेषः नष्टपथः अभवत् । प्रातिवेशिकः तम् अन्वेष्टुं स्वभृत्यान् नानादिक्षु प्रेषितवान् । तेन प्रार्थितः युङ्ग्झिवर्यः अपि स्वभूत्यं तैः सह मेषान्वेषणाय प्रेषितवान् । युङ्ग्झि वर्यः तम् अपृच्छत्- "एकं मेषम् अन्वेष्टुम् एतावन्तः जनाः किमर्थं प्रेष्यन्ते ?" इति ।

"मार्गाः सन्ति बहवः । केनापि मार्गेण सः मेषः गन्तुम् अर्हेत् । अतः सर्वत्र अन्वेष्टव्यम् एव" इति अवदत् सः प्रातिवेशिकः ।

स्वभृत्यः यदा प्रतिनिवृत्तः तदा तम् अपृच्छत् युङ्ग्झिवर्यः "अपि त्वं नष्टपथं मेषम् अपश्यः ?" इति ।

"न अपश्यम्" इति अवदत् सः भूत्यः । "तत्र किं कारणम् ?" इति अपृच्छत् युङ्ग्झिवर्यः । "मार्गाः बहवः सन्ति । एकः मार्गः अन्यं मार्गं नयति । केन मार्गेण गन्तव्यम् इति मया न ज्ञातम् । अतः अहं प्रतिनिवृत्तः" इति अकथयत् सः भृत्यः ।

तत् श्रुत्वा युङ्ग्झिवर्यः चिन्तामग्नः अभवत् । कञ्चित् कालं सः तूष्णीम् अतिष्ठत्। तस्मिन् दिने सः न अहसत्, न अभाषत वा । एतत् दृष्ट्वा विस्मयोपेताः तस्य अनुयायिनः अपृच्छन् "एषः मेषः कश्चन सामान्यः पशुः । सोऽपि न भवदीयः । एतदर्थं भवान् सम्भाषणं हसनं च किमर्थं त्यजेत् ?" इति ।

तदा यूङ्गुझिवर्यः अवदत् "अहं मेषविषये चिन्तयन् नास्मि । जनानां विलक्षणव्यवहारविषये चिन्तयामि" इति । तत् श्रुत्वा ते अनुयायिनः पुनः अपृच्छन् - "जनानां व्यवहारे का विलक्षणता लक्षिता भवता ?" इति ।

तदा युङ्ग्झिवर्यः गाम्भीर्येण अवदत् "बहवः मार्गाः सन्ति इत्यतः न कोऽपि मेषम् अन्वेष्टुं शक्त-वान् । केन मार्गेण गन्तव्यम् इत्यत्र अनिर्णयः एव अत्र कारणम् । बह्वीषु विद्यासु आसक्तः जनः कस्यांश्चिदपि विद्यायां श्रमम् अकृत्वा वृथा परिभ्रमति । ज्ञानस्य मूलम् एकमेव । तत् ज्ञातुं मार्गाः भवन्ति बहवः । एकमेव सद् बहुधा वर्ण्यते जनैः। भिद्यमानाः मार्गाः साधकं लक्ष्यं न प्रापयन्ति। सः मार्गेषु एव परिभ्रमति वृथा । अत एव उच्यते एकः एव मार्गः अनुसर्तव्यः इति । मेषप्रसङ्गे भवतां व्यवहारं स्मरन् अहं चिन्तामग्नः आसम्" इति ।

एतस्मात् स्वदोषं ज्ञातवन्तः शिष्याः बहुत्र आसक्तिं न्यूनीकृत्य एकत्र एव अवधानं कुर्वन्तः उन्नतिं प्राप्तुं प्रयासरताः अभवन् ।

सम्भाषणसन्देशः, ऑक्टोबर २०१६ 


अतिशैत्यं कस्मिन् मासे भवति?

कश्चन निर्जनः अरण्यमार्गः। तत्र निवसति स्म कश्चन प्रेतः ।

कदाचित् तेन मार्गेण गच्छन्तं यात्रिकं गृहीत्वा सः अपृच्छत् -"कस्मिन् मासे अधिकं शैत्यं भवति ?"

यात्रिकः स्वस्य अनुभवस्य आधारेण अवदत् "माघमासे अधिकं शैत्यं भवति" इति ।

"न । भवतः उत्तरम् अयुक्तम्" इति उक्त्वा सः प्रेतः तं यान्त्रिकम् अहनत् ।

पुनः कदाचित् तेन मार्गेण अपरः यात्रिकः आगतः। प्रेतः तमपि गृहीत्वा अपृच्छत् "रे पथिक कस्मिन् मासे अधिकं शैत्यं भवति ?"

तेन पथिकेन उत्तरितम् - "पौषमासे अधिकं शैत्यं भवति" इति ।

"न । भवतः उत्तरम् अयुक्तम्" इति उक्त्त्वा सः प्रेतः तमपि यात्रिकं हतवान् ।

इत्थं तेन मार्गेण गच्छतः सर्वान् अपि गृहीत्वा एनमेव प्रश्नं करोति स्म सः प्रेतः ।

शीतकालीनाः चत्वारः मासाः भवन्ति मार्ग-शीर्षः, पौषः, माघः, फाल्गुनः चेति। तेन प्रेतेन गृहीतः यात्रिकः मार्गशीर्षादिषु अन्यतमस्य कस्यचित् मासस्य नाम वदति स्म। सर्वस्य उत्तरस्य अयुक्तताम् उक्त्वा सः प्रेतः सर्वेषां हननं करोति स्म ।

गच्छता कालेन सः मार्गः तस्य प्रेतस्य कारणतः आतङ्कितः जातः । कोऽपि जनः तेन मार्गेण गन्तुं साहसं न करोति स्म ।

ग्रीष्मऋतोः कस्मिंश्चिद् मासे तेन मार्गेण आगतः कश्चन अन्यराज्यीयः यात्रिकः मरणं प्राप्य प्रेत-रूपतां गतः आसीत् । परन्तु सः कस्मिन् मासे मृतः इति कोऽपि न जानाति स्म । यदि तस्य प्रश्नस्य उत्तररूपेण 'ज्येष्ठमासः' इति कश्चित् वदति तर्हि तमपि सः प्रेतः मारयति स्म । अनुमीयते स्म यत् सः शीतकाले एव प्रेतयोनिं प्राप्तवान् स्यात् इति ।

एकदा पुनः तेन मार्गेण गच्छन्तं कमपि यात्रिकं सः प्रेतः गृहीतवान् । तमपि सः प्रेतः अपृच्छत्-"कस्मिन् मासे अधिकं शैत्यं भवति ?" इति ।

तदा तेन यात्रिकेण उक्तम् "घने मेघे, घने वाते च स्थिते अधिकं शैत्यं भवेत् सर्वस्मिन्नपि मासे" इति ।

'सर्वेषु अपि मासेषु यदा मेघाः वर्षन्ति, वायुश्च वैगेन वाति तदा अतिशैत्यं भवितुम् अर्हति एव' इति आसीत् तस्य वाक्यस्य तात्पर्यम् । युक्तियुक्तम् एतत् उत्तरं श्रुत्वा तुष्टः सः प्रेतः तं यात्रिकं मोचितवान् । ततः आरभ्य तेन मार्गेण गच्छन्तं कमपि यात्रिकं सः न ग्रसितवान् ।

सम्भाषणसन्देशः, ऑक्टोबर २०१६