Showing posts with label सम्भाषणसन्देश: २०१०. Show all posts
Showing posts with label सम्भाषणसन्देश: २०१०. Show all posts

व्याघ्रायत।

कस्मिन् ग्रामे देवदत्तः नाम कश्चन काष्ठविक्रेता आसीत्। भक्तिमान् सः प्रतिदिनं देवालयं गच्छति। तदनन्तरमेव काननं गत्वा काष्ठानि सङ्गृह्य तानि विक्रीय तस्मात् जीवनयापनं करोति स्म। एकदा वने अटनसमये तेन कश्चन शृगालः दृष्टः। सः च वृद्धः। भोजनार्थं मृगान् मारयितुम् अपि अक्षमः। तस्य दर्शनात् देवदत्ते कारुण्यम् उत्पन्नम्। तस्मिन्नेव समये कश्चन व्याघ्रः तत्र आगतः। तं व्याघ्रं दृष्ट्वा भीतः देवदत्तः समीपस्थं कञ्चित् वृक्षम् आरूढवान्। सः व्याघ्रः मृगमेकं मारयित्वा खादित्वा पूर्णोदरः भूत्वा अवशिष्टं तत्रैव परित्यज्य यथेच्छं गतवान्। तदनन्तरं शृगालः तच्छेषं यथेच्छं खादितवान्, तृप्तः अभवत् च।

इदं सर्वं विलोकितवान् देवदत्तः। अचिन्तयत् – ‘वृद्धाय तस्मै शृगालाय अपि परमेश्वरः काले आहारं ददाति। किं मह्यं महाभक्ताय न दद्यात् ? अहं प्रतिदिनं देवमन्दिरं गच्छामि। कुतो वा मया आतपे वृष्टिकाले च प्रयासः करणीयः ? काष्ठानि किमर्थं सङ्ग्रहणीयानि ? एतां वृत्तिं त्यजामि। भगवान् एव मह्यम् अपि आहारं व्यवस्थापयिष्यति’ इति।

ततः परं सः कदाचिदपि अरण्यं न गतः। ‘भगवान् मम निमित्तम् अन्नपानादिव्यवस्थाम् अवश्यं करिष्यति’ इति चिन्तयन् सः परशुम् अपि त्यक्तवान्। द्वित्राणि दिनानि अतीतानि। तथापि खादितुं किमपि न प्राप्तम्। बुभुक्षापिपासाभ्यां बहुधा पीडितः सः। कुपितः सन् मन्दिरं गत्वा देवं दृष्ट्वा उक्तवान् – “हे प्रभो ! कुतः माम् एवं परीक्षसे भवान् ? शृगालाय आहारं दत्तवतः भवतः कारुण्यं दृष्ट्वा मया विश्वासः कृतः यत् भवान् सर्वेभ्यः अपि आहारं व्यवस्थापयिष्यति इति। किन्तु भवान् मां दुःखगर्ते पातितवान्। दिनत्रयतः मया आहारः न प्राप्तः। किम् एतत् उचितम् ?” इति।

तदा तत्र प्रत्यक्षभूतः भगवान् उक्तवान् – “रे मूढ ! भवान् शृगालायते। तत् न उचितम्। व्याघ्रः स्मर्यताम्। व्याघ्रः किम् आहारार्थं प्रयत्नं न अकरोत् ? व्याघ्रवत् एव प्रयत्नेन आहारः प्राप्यताम्। तदेव उचितम्” इति।

ततः आरभ्य देवदत्तः उद्योगपरः अभवत्।

सम्भाषणसन्देशः, ऑगस्ट २०१०

वेदप्रामाण्यम्।

आचार्यः कुमारिलभट्टः दर्शनशास्त्रेषु सुनिपुणः। कदाचित् मगधप्रदेशे प्रवृत्तायां शास्त्रार्थसभायां बौद्धदार्शनिकः धर्मकीर्तिः तेन पराजितवान्। अतः कुमारिलभट्टः निर्णीतवान् यत् मया बौद्धसिद्धान्ते तलस्पर्शि पाण्डित्यं प्राप्य वेदनिन्दकाः एते बौद्धाः जेतव्याः इति। तस्मात् सः श्रमणकवेषं धृत्वा बौद्धमठं प्रविश्य अध्ययनरतः अभवत्।

परम् अध्ययनसमाप्तेः पूर्वम् एव तत्रत्याः व्यवस्थापकाः ज्ञातवन्तः यत् अयं प्रच्छन्नवैदिकः इति। अतः ते वाग्बाणैः तं बहुधा अपीडयन्। विविधैः प्रकारैः वैदिकमतम् अनिन्दन्। "वैदिकाः पशुमारणरताः, मिथ्याचारिणः, अज्ञानगर्तपतिताः च" इति अवदन्।

एतानि वेदनिन्दां दीर्घकालं श्रोतुम् अशक्नुवन् कुमारिलभट्टः वेदानां श्रेष्ठतां सयुक्ति प्रतिपादितवान्, बौद्धमतस्य दौर्बल्यं सप्रमाणं निरूपितवान् च। एतस्मात् बौद्धानां कोपः प्रवृद्धः। अतः ते कुमारिलम् अवदन् - "भोः, वेदानां प्रामाण्यविषये भवतः अनितरसाधारणी श्रद्धा खलु। भक्तिं दर्शयन्तः किं वेदाः रक्षेयुः ? यदि वेदाः प्रमाणं स्युः तर्हि पर्वतशिखरात् कूर्दनं क्रियताम्। तदा यदि भवतः प्राणाः रक्षिताः भवेयुः तर्हि वेदानां माहात्म्यं वयम् अङ्गीकुर्याम" इति।

कुमारिलः एतत् अन्वमन्यत। ततः बौद्धाः तम् उन्नतपर्वतशिखरं नीत्वा अवदन् - "अधः कूर्द्यताम्" इति।

कुमारिलः नेत्रे निमील्य वेदमातरं क्षणं यावत् ध्यात्वा सधैर्यम् अधः कूर्दितवान् एव। दैवात् तस्य प्राणानाम् अपायः कोऽपि न जातः। शरीरे केचन अल्पाः व्रणाः तु जाताः। एतत् दृष्ट्वा बौद्धाः उपहासपूर्वकम् अवदन् - "भवतः वेदमाता पुत्ररक्षणे न समर्था। अतः एव व्रणाः जाताः" इति।

तदा कुमारिलभट्टः अवदत् - "अत्र दोषः मम एव, न तु वेदमातुः। कूर्दनात् पूर्वं क्षणं यावत् वेदमातुः सामर्थ्यविषये सन्देहः आसीत् मयि। तस्य फलम् एतत्। अनन्तरक्षणे तु मया पूर्णरूपेण विश्वस्य मया कूर्दनं कृतम्। तस्मात् सा मम प्राणान् रक्षितवती" इति।

सम्भाषणसन्देशः, ऑगस्ट २०१०


त्वमेव गुरुः।

आन्ध्रप्रदेशे महनद्याः तीरे जयमङ्गल-नामकः शुचिपूर्णः ग्रामः आसीत् । तत्र क्रि. पू. ५५७ तमे संवत्सरे भट्टाचार्य-कुमारकः जन्म लब्धवान् । तस्य पिता यज्ञेश्वरभट्टकुमारिलः । एषः कृत-वेदाध्ययनः कर्मकाण्डैकवादी चेति प्रख्यातः । शङ्करदिग्विजयात् ग्रन्थात् ज्ञायते यत् अयं छद्मरूपेण बौद्धेभ्यः बौद्धदर्शनानि अधीत्य शास्त्रार्थे बौद्धाचार्यान् पराजितवान् इति ।

तीर्थराजप्रयागे पवित्रे त्रिवेणीसङ्गमतटे आचार्यस्य कुमारिलभट्टस्य गुरुकुलम् आसीत् । तत्र अनेके ब्रह्मचारिणः आश्रमचर्यापुरस्सरं शास्त्राणाम् अध्ययनं कुर्वन्ति स्म । आचार्यस्य कुमारिलस्य शिष्येषु प्रभाकरमिश्रः मण्डनमिश्रः च अन्यतमौ ।

एकदा भट्टकुमारिलः अन्तेवासिनः पाठयति स्म । तदा तस्मिन् पाठे-'अत्रापि नोक्तं तत्र तु नोक्तमिति द्विरुक्तम्' इति पङ्किः समुपस्थिता । तदानीम् आचार्यकुमारिले अनुयोगः समुत्पन्नः 'अत्र, तत्र उभयत्रापि नोक्तम् इति उच्यते । परम् अग्रे 'द्विरुक्तम्' इत्यपि उक्तम् । तत् कथमिव द्विरुक्तं स्यात् ?' इति। परम् आचार्येण तस्य दिनस्य पाठः तत्रैव स्थगितीकृतः । कार्यान्तर-करणाय सः अन्यत्र प्रस्थितः ।

तदनन्तरम् एकः ब्रह्मचारी तामेव पङ्किम् अधि-कृत्य एकस्मिन् कागदपुटे 'अत्र अपिना उक्तम्, तत्र तुना उक्तम्' इति वाक्यस्थपदानि शोभनं संयोज्य लिखित्वा तं मातृस्थानीयायै आचार्यान्यै दत्तवान् । आचार्यप्रवरः यदा गृहं प्रत्यागतः तदा आचार्यानी तं कागदपुटं तस्मै समर्पितवती । भट्टाचार्यः कुमारिलः अन्तेवासिनः बुद्धिमत्तां वीक्ष्य आश्चर्येण चमत्कृतः अभवत् । तस्य हृदयं शिष्यस्य अवगमनकौशलेन अतीव प्रसन्नम् अभवत् ।

सः भार्याम् अपृच्छत् - "पुटोऽयं केन प्रदत्तः ?" इति ।

"प्रभाकरेण" इति प्रत्युत्तरितम् आचार्यान्या ।

अपरस्मिन् दिने पाठकाले असौ आचार्यः शिष्यं प्रभाकरं सम्बोध्य - "त्वमेव गुरुः" इति तं प्रशंसितवान्।

ततः आरभ्य इह लोके प्रभाकरमतं गुरुमतम् इति ख्यातम् अभवत् । मीमांसाजगति एतयोः गुरुशिष्ययोः मतद्वयमपि समानां महत्ताम् आवहति ।

सम्भाषणसन्देशः, जून २०१०

सा पुष्परागिणी।

कदाचित् स्वर्गे स्थितः शिशुरूपः जीवात्मा कश्चन ईश्वरम् अपृच्छत् - "अहं लघुतमः क्षीणः शक्तिहीनः च । भूमण्डले अहं कथं जीविष्यामि ?"

तदा ईश्वरः अवदत् - "मया आदौ एव भूमण्डले तव पालनाय, तव रक्षणाय एका पुष्पपरागिणी प्रेषिता अस्ति । सा तत्र त्वां प्रतीक्षते ।"

"अत्र स्वर्गलोके अहं हसामि, गायामि च । भूमण्डले एतत् कर्तुं शक्नोमि किम् ?"

"चिन्तां माऽस्तु । सा पुष्पपरागिणी तव कृते हसिष्यति, गास्यति, नर्तिष्यति, त्वयि अतीव स्नेहं करिष्यति च । त्वं न ज्ञास्यसि कथं, कदा, कुत्र तया सह त्वया हसनं गानं नर्तनं च प्रारब्धम् इति ।"

"यया भाषया भूमण्डले जनाः व्यवहरेयुः तां भाषाम् अहं कथं जानीयाम् ?"

"सा पुष्पपरागिणी मधुरेण स्वरेण तालिकानादं कृत्वा सानन्दं त्वां तां भाषां शिक्षयिष्यति । शब्दोच्चारणं, वाक्यबन्धनं, भावप्रकटनं चेति अखिलं त्वां बोधयिष्यति सा ।"

"अहं कथं सम्भाषिष्यामि ? अहं तु कृशः !"

"सा पुष्पपरागिणी त्वां शनैः शनैः उत्थानोपवेशनादिकं सर्वं शिक्षयिष्यति ।"

"भूमण्डले यदा अहं त्वया सह संवादं कर्तुम् इच्छेयं तदा किं कुर्याम् ?"

"तदा सा पुष्पपरागिणी त्वां दर्शयेत् - कथं हस्तौ निबन्धव्यौ, नेत्रे कथं निमीलयितव्ये, ईश्वरः कथं प्रार्थयितव्यः इत्यादिकम् । सा रुचिरस्वरेण त्वां प्रात्यक्षिकं कृत्वा सर्वं दर्शयिष्यति ।"

"मया श्रुतं यत् भूमण्डले नैके दुर्जनाः निवसन्ति इति । तेभ्यः मां कः रक्षेत् ?"

"सा पुष्पपरागिणी स्वशरीरं रक्षाकवचं कृत्वा त्वां संरक्षिष्यति । आश्वस्तः भव ।"

"प्राप्ते सर्वस्मिन्, हे पितः, यदि भवतः अनुपस्थितिः माम् अस्वस्थं कुर्यात् तर्हि मया कथं वर्तितव्यम् ?"

"सा पुष्पपरागिणी वारं वारं त्वां मम स्मरणं कारयिष्यति ।"

"कथं ज्ञास्यामि अहं मम क्षुधाम् ?"

"चिन्तां मा कुरु । तव आदौ एव क्षुधां पुष्पपरागिणी जानीयात् ।"

"मत्कृते सुयोग्यं स्वादु अन्नं कः दद्यात् ?"

"सा पुष्पपरागिणी स्वहस्ते एव रुचिरं, सुपाच्यम् आहारम् आदौ एव सिद्धं रक्षेत् ।"

"मम चरमः प्रश्नः - किमस्ति तस्याः पुष्परागिण्याः नाम ? केन नाम्ना अहं तां सम्बोधयेयम् ?"

"तस्याः नाम सुलभं स्वल्पाक्षरं च । 'मा' इति, 'माता' इति वा त्वं ताम् निर्दिश ।"

सम्भाषणसन्देशः, जून २०१० 

पठने आसक्ति:।

कश्चन बालकः सर्वदा विद्यालयं प्रति विलम्बेन आगच्छति स्म । तथापि अध्ययने तु सः अन्ये छात्राः इव एव आसीत् । क्वचित् तु सः अन्यान् अपि अतिशेते स्म । अथ कदाचित् सः बालकः प्रतिदिनम् इव विद्यालयं विलम्बेन एव आगतवान् । किन्तु विशेषः नाम तस्मिन् दिने तस्य वस्त्राणि पुस्तकानि च छिन्नानि आसन् ।

सः बालः यदा द्वारसमीपम् आगतवान् तदा अध्यापकः तर्जितवान् "भोः, अन्तः मा आगच्छ । इतः पूर्वं मया बहुधा सूचना दत्ता। तथापि त्वं विलम्बेन एव आगच्छन् असि । दण्डनं विना स्वभावे परिष्कारः न भवेत् । अतः अद्य तुभ्यं मया कक्ष्यायां प्रवेशः न दीयते" इति ।

सः छात्रः म्लानमुखः सन् कक्ष्यातः बहिः एव अतिष्ठत् । प्रथमावधिः समाप्तः । अध्यापकः कक्ष्यातः बहिः आगतवान् । तिष्ठतः बालकस्य हस्ते पुस्तकलेखन्यौ आस्ताम् । अध्यापकः तेन लिखितं प्रत्यक्षरं परिशीलितवान् । कक्ष्यायां ये ये अंशाः बोधिताः ते सर्वे अंशाः पुस्तके लिखिताः आसन् तेन । एतत् दृष्ट्वा अध्यापकः नितरां सन्तुष्टः जातः । सः तं छात्रम् अपृच्छत्- "किमर्थं विलम्बेन आगच्छसि प्रतिदिनम् अपि ?" इति ।

तदा सः छात्रः क्षमायाचनस्वरेण अवदत् -"श्रीमन् । मम ग्रामः इतः अष्ट कि.मी. दूरे अस्ति । ततः पादाभ्याम् एव आगच्छामि अहम् । क्वचित् मया गृहकार्ये मातुः साहाय्यम् अपि करणीयं भवति । समये उपस्थातुम् अहं प्रयासं तु करोमि । तथापि विद्यालयप्राप्तौ कदाचित् विलम्बः भवति एव । किं करवाणि ?" इति ।

एवं वदतः तस्य छात्रस्य नेत्रे आर्दे जाते आस्ताम् । तस्य श्रवणात् अध्यापकस्य हृदयम् अपि दयार्द्रं जातम् । सः तं छात्रं कक्ष्यायाः अन्तः आहूय तदीये स्थाने तम् उपवेश्य "वत्स । कक्ष्यातः बहिः स्थित्वा अपि त्वं सम्यक् एव पाठं श्रुतवान् । सर्वं त्वया लिखितम् अपि । यावत् त्वया अवगतं तावत् अन्यैः छात्रैः न अवगतम् । इतः परं विद्यालयं समये आगन्तुं विशेषप्रयासं कुरु । अध्ययने आसक्तिं मा परित्यज" इति बोधयित्वा तस्य सान्त्वनं कृतवान् ।

सः बालः एव अस्माकं देशस्य भूतपूर्वराष्ट्रपतिः मान्यः के. आर्. नारायणन्वर्यः ।

सम्भाषणसन्देशः, ऑक्टोबर २०१०


कृष्णभक्त: रसखान:।

रसखानः कश्चन मुसलमानः। कदाचित् सः स्वस्य गुरुणा सह मक्कादीनायात्रार्थं प्रस्थितः। गुरुः अवदत् - "मध्येमार्गं वृन्दावनं प्राप्यते। तत्र कश्चन घोरः कृष्णसर्पः निवसति। यः तं पश्येत् तं सः दशेत्। अतः तत्र भवता इतस्ततः न द्रष्टव्यम्। मम अनुसरणमात्रं भवतु। अवधानं भवतु" इति। रसखानः एतत् अङ्गीकृतवान्। तौ अग्रे प्रस्थितवन्तौ।

वृन्दावनम् आसन्नम्। गुरुः रसखानं पुनः अवदत् - "वृन्दावनम् आसन्नम्। अतः इतस्ततः सर्वथा न द्रष्टव्यं भवता" इति।

यदा वृन्दावनप्रदेशः सम्प्राप्तः तदा रसखानेन सुमधुरः वेणुनादः श्रुतः। नूपुरध्वनिः अपि श्रुतः। सः ध्वनिः कदाचित् वामतः, पुनः कदाचित् दक्षिणतः च श्रूयते स्म। रसखानः तु महता कष्टेन दर्शनेच्छां निगृह्य अग्रे गच्छन् आसीत्।

यमुनानदी यदा आसन्ना तदा तु सुमधुरः वेणुध्वनिः तस्य मनः पूर्णतः अहरत्। आत्मानं निरोद्धुम् अशक्नुवन् सः पार्श्वे अपश्यत् एव। तत्र सुन्दरः वृन्दावनाधीशः दृष्टिगोचरतां गतः। तस्य दर्शनात् हतहृदयः रसखानः अग्रे गमनं विस्मृत्य तत्रैव अतिष्ठत्। तावता भगवान् अदृश्यः जातः। 'हे भगवन्, दर्शनं देहि' इति बहुधा विलपन् रसखानः तत्रैव मूर्च्छां गतः।

अल्पकालस्य अनन्तरं सचेतनतां गतः। रसखानः मन्दम् उत्थाय भगवन्तं श्रीकृष्णम् अन्विष्यन् मन्दिरं गतवान्। मन्दिरस्थाः अन्तः गमनाय तस्मै अनुज्ञां न दत्तवन्तः। अतः सः मन्दिरस्य पुरतः एव उपविशन् श्रीकृष्णनामजपं कुर्वन् निराहारं दिनत्रयं यापितवान्।

तृतीय दिने रात्रौ भगवान् स्वयं तत्समीपम् आगत्य नैवेद्यरूपेण अर्पितं क्षीरान्नं स्वपात्राम् आनीय स्वहस्ताभ्यां भोजितवान्। अनन्तरदिने प्रातः जनाः रसखानस्य मुखे क्षीरान्नपुलाकान्, पार्श्वे नैवेद्यपात्रं च दृष्टवन्तः। गर्भगृहे तु यथापूर्वं कीलितम् एव आसीत्। तस्मात् ते अवगतवन्तः यत् एषः रसखानः भगवतः प्रीतिपात्रम् इति। अतः ते तं भक्त्या नमस्कृत्य सत्कृतवन्तः। अग्रेषु दिनेषु रसखानस्य कृष्णभक्तत्वं सर्वत्र ख्यातं जातम्।

सम्भाषणसन्देशः, ऑगस्ट् २०१० 

कार्यसंस्कृति:।

कश्चन अमेरिकीयः कस्याश्चित् संस्थायां घण्टाद्वयात्मकम् उद्योगं प्राप्तवान् । किन्तु यत् कार्यं तस्मै दत्तं तत् घण्टाभ्यन्तरे एव समाप्यते स्म । पक्षं यावत् एवमेव प्रवृत्तम् । एतस्मात् सः अमेरिकीयः तरुणः नितरां खिन्नः सन् मित्रस्य भारतीयतरुणस्य पुरतः स्वस्य खेदं निवेदितवान् ।

तदा भारतीयः अवदत् - “भवता घण्टाद्वयस्य निमित्तं वेतनं तु प्राप्येत एव खलु ? पुनः का चिन्ता ?” इति ।

“किन्तु घण्टामात्रं कार्यं कृत्वा घण्टाद्वयस्य निमित्तं वेतनस्य प्राप्तिः दोषाय खलु ?” - अमेरिकीयः तरुणः अवदत् ।

“तद्विषये भवतः संस्था चिन्तयतु नाम । भवान् तु घण्टां यावत् कार्यं कृत्वा शिष्टं समयं सुखेन यापयतु । हानिः तु संस्थायाः स्यात्, न तु भवतः । अतः किं चिन्तया ?”

“संस्थायाः हानिः ममापि हानिः भवेत् एव खलु ? अतः संस्थायाः हानिः मया न एष्टव्या ।”

“संस्थायाः हानिः भवतः हानये कथं भवेत् ? यदि एषा संस्था नश्येत् तर्हि संस्थानान्तरं प्रति गन्तुम् अर्हेत् एव भवान् । उद्योगस्य प्राप्तौ कोऽपि क्लेशः न भवेत् भवतः ।”

“भवतः चिन्तनम् अयुक्तम् । उद्योगस्य त्रिविधानि मुखानि भवन्ति । उद्योगिना वेतनं प्राप्यते इति तु एकं मुखम् । ततः संस्थायाः लाभः हानिः वा भवति इति तु अपरं मुखम् । इतः एव देशस्य हितम् अहितं वा सिद्ध्येत् इति तु तृतीयं मुखम् । यदि अहं वेतनानुरूपं कार्यं न कुर्यां तर्हि अहं दोषी पापभाक् च भवेयम् । मादृशानां कारणात् संस्था यदि हानिं प्राप्नुयात् तर्हि देशस्य अर्थस्थितौ विपरिणामः भवेत् । देशस्य उन्नतिः साधनीया चेत् देशास्थैः सर्वैः कार्यसंस्कृतिविषये अवधानवद्भिः भवितव्यम् एव” इति अवदत् अमेरिकीयः तरुणः ।

एतस्य श्रवणात् सः भारतीयः तरुणः लज्जया अवनतशिरस्कः जातः ।

सम्भाषणसन्देशः, जुलै २०१० 


योग्य: पुरस्कार:।

पूर्वं कश्चन राजा आसीत् । सः दानशीलः । पण्डितेषु कलाकारेषु च तस्य विशेषादरः । अतः तदा तदा विद्वत्सभाम् आयोज्य सः पण्डितादीन् सत्करोति स्म ।

विविधेषु कर्मसु कुशलाः अपि राजतः पुरस्कारं प्राप्नुवन्ति स्म । अर्हेभ्यः निर्धनेभ्यः अपि राजा धनं यच्छति स्म । अतः तस्य दानशीलता सुविख्याता आसीत् ।

एकदा कश्चन मध्यवयस्कः आगत्य तं नमस्कृतवान् । राजा तम् अपृच्छत्- "कस्मिन् कार्ये भवान् कुशलः ? किं नाम भवतः ?" इति ।

"महाराज ! मम नाम रसेशः इति। रजतं, ताम्र, लोहं च अहं सुवर्णं करोमि" इति अवदत् सः मध्यवयस्कः |

"उत्तमा एव विद्या आसादिता भवता । भवतः आपणः क्व अस्ति ?' इति पृष्टवान् राजा ।

"मम आपणः क्वापि नास्ति । ग्रामं ग्रामं गच्छन् सुवर्णेच्छुकेभ्यः लोहादिकं प्राप्य अहं सुवर्णं प्रतियच्छामि" इति अवदत् रसेशः ।

राजा ज्ञातवान् यत् अयं कश्चन वञ्चकः इति । तथापि किमपि अवदन् सः एकं रिक्तं लोहपात्रं तस्मै दत्तवान् ।

एतस्य दर्शनात् रसेशः नितरां खिन्नः । सः राजानम् अवदत् "महाराज ! पण्डितादिभ्यः भवान् सुवर्णनाणकानि ददाति । मह्यं तु रिक्तं लोहपात्रं दत्तं भवता । एतत् तु मम विद्यायाः अपमानाय एव । किं मम विद्यां सामान्यां मन्यते भवान् ?" इति ।

तदा राजा हसन् अवदत् "भवतः विद्या अपूर्वा एव इत्यत्र नास्ति सन्देहः । भवान् तु स्वयम् एव सुवर्णस्य निर्माणे समर्थः । अतः मया रिक्तं पात्रं दत्तम्। निर्मितस्य सुवर्णस्य सङ्ग्रहाय एतस्य उपयोगः भवितुम् अर्हति । अथवा एतत् पात्रम् एव भवान् सुवर्णरूपेण परिवर्तयितुम् अपि अर्हति" इति ।

एतस्य श्रवणात् रसेशः अवगतवान् यत् राजा मम स्वरूपं ज्ञातवान् अस्ति इति । अतः सः विना प्रतिवचनं ततः निर्गतवान् । 

सम्भाषणसन्देश:, नोव्हेंबर २०१०