पठने आसक्ति:।

कश्चन बालकः सर्वदा विद्यालयं प्रति विलम्बेन आगच्छति स्म । तथापि अध्ययने तु सः अन्ये छात्राः इव एव आसीत् । क्वचित् तु सः अन्यान् अपि अतिशेते स्म । अथ कदाचित् सः बालकः प्रतिदिनम् इव विद्यालयं विलम्बेन एव आगतवान् । किन्तु विशेषः नाम तस्मिन् दिने तस्य वस्त्राणि पुस्तकानि च छिन्नानि आसन् ।

सः बालः यदा द्वारसमीपम् आगतवान् तदा अध्यापकः तर्जितवान् "भोः, अन्तः मा आगच्छ । इतः पूर्वं मया बहुधा सूचना दत्ता। तथापि त्वं विलम्बेन एव आगच्छन् असि । दण्डनं विना स्वभावे परिष्कारः न भवेत् । अतः अद्य तुभ्यं मया कक्ष्यायां प्रवेशः न दीयते" इति ।

सः छात्रः म्लानमुखः सन् कक्ष्यातः बहिः एव अतिष्ठत् । प्रथमावधिः समाप्तः । अध्यापकः कक्ष्यातः बहिः आगतवान् । तिष्ठतः बालकस्य हस्ते पुस्तकलेखन्यौ आस्ताम् । अध्यापकः तेन लिखितं प्रत्यक्षरं परिशीलितवान् । कक्ष्यायां ये ये अंशाः बोधिताः ते सर्वे अंशाः पुस्तके लिखिताः आसन् तेन । एतत् दृष्ट्वा अध्यापकः नितरां सन्तुष्टः जातः । सः तं छात्रम् अपृच्छत्- "किमर्थं विलम्बेन आगच्छसि प्रतिदिनम् अपि ?" इति ।

तदा सः छात्रः क्षमायाचनस्वरेण अवदत् -"श्रीमन् । मम ग्रामः इतः अष्ट कि.मी. दूरे अस्ति । ततः पादाभ्याम् एव आगच्छामि अहम् । क्वचित् मया गृहकार्ये मातुः साहाय्यम् अपि करणीयं भवति । समये उपस्थातुम् अहं प्रयासं तु करोमि । तथापि विद्यालयप्राप्तौ कदाचित् विलम्बः भवति एव । किं करवाणि ?" इति ।

एवं वदतः तस्य छात्रस्य नेत्रे आर्दे जाते आस्ताम् । तस्य श्रवणात् अध्यापकस्य हृदयम् अपि दयार्द्रं जातम् । सः तं छात्रं कक्ष्यायाः अन्तः आहूय तदीये स्थाने तम् उपवेश्य "वत्स । कक्ष्यातः बहिः स्थित्वा अपि त्वं सम्यक् एव पाठं श्रुतवान् । सर्वं त्वया लिखितम् अपि । यावत् त्वया अवगतं तावत् अन्यैः छात्रैः न अवगतम् । इतः परं विद्यालयं समये आगन्तुं विशेषप्रयासं कुरु । अध्ययने आसक्तिं मा परित्यज" इति बोधयित्वा तस्य सान्त्वनं कृतवान् ।

सः बालः एव अस्माकं देशस्य भूतपूर्वराष्ट्रपतिः मान्यः के. आर्. नारायणन्वर्यः ।

सम्भाषणसन्देशः, ऑक्टोबर २०१०