Showing posts with label सम्भाषणसन्देश: २०२०. Show all posts
Showing posts with label सम्भाषणसन्देश: २०२०. Show all posts

यत् यदा, तत् तदैव।

कश्चन राजा मृगयार्थम् अरण्यं गतवान्। रात्रौ अरण्ये एव तस्य वासव्यवस्था परिकल्पिता । निद्रां गतः राजा मध्यरात्रे अकस्मात् जागरणं प्राप्नोत् । स्वस्य शरीरस्य उपरि कश्चन घोरः सर्पः तेन दृष्टः । 'यदि अहं शरीरकम्पनं कुर्यां तर्हि सर्पः मां वशेत्' इति चिन्तयन् राजा निश्चलतया शयनम् अकरोत् ।

अल्पः कालः अतीतः। तावता कश्चन चोरः विना शब्दं शिबिरं प्राविशत् । तेन राज्ञः शरीरे शयितः सर्पः लक्षितः । सः झटिति विना शब्द ततः निर्गत्य कञ्चित् कण्डोलम् आनीय सर्प कण्डोले पूरयित्वा बहिः नीत्वा पर्यत्यजत् । तावता तत्र आगतः राजा तस्मै कृतज्ञतां समर्प्य दश सुवर्णनाणकानि उपायनत्वेन दत्त्वा प्रेषितवान् ।

अनन्तरsदिने भटाः तमेव गृहीत्वा राज्ञः पुरतः उपस्थाप्य अवदन्- "ह्यः रात्रौ अयं चौर्यार्थम् भवच्छिबिरं प्रविष्टवान् आसीत्" इति ।

तदा राज्ञा आदेशः कृतः "अनेन दण्डत्वेन दश रजतनाणकानि दातव्यानि" इति ।

तदा तत्रत्यः कश्चित् अवदत् "ह्यः रात्रौ भवतः प्राणरक्षणम् अनेनैव कृतम् । अतः अयं क्षन्तुम् अर्हः" इति ।

तदा राजा अवदत् "अनेन ह्यः मम प्राणाः रक्षिताः इति अहं जानामि । तेन यत् कृतं तदर्थं यथायोग्यम् उपायनं मया ह्यः एव दत्तम्। अद्य तु चौर्यार्थं यः प्रयत्नः अनेन कृतः तदर्थं मया दण्डः विहितः ।"

चोरेण कोषाधिकारिणे दण्डधनं दत्तम् । तदा कोषाधिकारी कुतूहलेन तम् अपृच्छत् "ह्यः चौर्यार्थम् आगतेन त्वया चौर्यप्रवृत्तिं परित्यज्य राज्ञः प्राणरक्षणाय किमर्थम् उद्यतम् ?" इति ।

तदा चोरः अवदत् "महोदय | चौर्यमेव मम वृत्तिः इति तु सत्यम्। किन्तु अहं मनुष्यः अपि । परेषां प्राणरक्षणाय प्रयासः मानवमात्रस्य आद्यं कर्तव्यम्। तदेव मया आदौ कृतम्" इति।

'यत् यदा कर्तव्यं तत् तदैव करणीयम् । राज्ञा चोरेण चापि तदेव कृतम्' इति अचिन्तयत् कोषाधिकारी।

सम्भाषणसन्देशः, ऑक्टोबर २०२०



विग्रहः तु मदीयः।

पूर्वं कश्चन कृष्णभक्तः आसीत्। सः सवा भगवतः ध्याने पूजायां च निरतः भवति स्म । तस्य भक्त्या सुप्रीतः कृष्णः कदाचित् तस्य पुरतः प्रत्यक्षः अभवत् । तं दृष्ट्वा भक्तः नित्तरां सन्तुष्टः । आनन्दाश्रूणि स्त्रावयन् सः कृष्णं साष्टाङ्गं नमस्कृतवान् ।

कृष्णः हसन्मुखतया परितः पश्यन् अवदत् "एतत् भवतः गृहम् अतीव सुन्दरम् ।..."

"एतत् तु भवदीयमेव गृहं देव ।" इति विनयेन अवदत् भक्तः ।

आश्चर्येण तत्त्य मुखं पश्यन् तं परीक्षितुम् इच्छन् देवः अपृच्छत्- "एवम् । एवं तर्हि भवतः भूसम्पत्तिः, ऐश्वर्यं, स्थानमानादिकं च कस्य ?" इति ।

"तद्विषये प्रष्टव्यं किम् अस्ति ? तत् सर्व भवदीयम् एव इति दृढस्वरेण अववत् भक्तः ।


भक्तस्य पार्श्वे आसीत् रमणीया देव-मूर्तिः । तां दर्शयन् अवदत् देवः "एषा मूर्तिः अपि मदीया ननु ?"

तदा भक्तः अवदत् "न। एषा भवदीया न, अपि तु मदीया ।"

तदा आश्चर्य प्रकटयन् देवः अपृच्छत् "सर्वम् अपि भवदीयम् इति इदमिदानीमेव उक्तं त्वया। किन्तु पुनः बदसि एषा मूर्तिः तु स्वीया इति । कथम् एतत् सङ्गच्छते ?" इति ।

तदा भक्तः विनयेन अवदत् "मम समीपे यद् यत् स्यात् तत्सर्वं भवतः कृपया एव लब्धम् । अतः तत्सर्वं भवदीयम् एव इत्यत्र सन्देहः एव नास्ति ।..."

"किन्तु अयं विग्रहः कथं मदीयः न ?" मध्ये एव अपृच्छत् देवः ।

"एतं विग्रहम् अहं प्रतिदिनं पूजयामि तया पूजया एवं सन्तुष्टः भवान् इदानीं मम पुरतः प्रत्यक्षः जातः अस्ति। अग्रे अपि भवद‌नुग्रह-पात्रतां रक्षितुम् अयं विग्रहः एव मम आधारः । अतः अयम् एकः एव मद्दीयः। अन्यत् सर्वमपि भवदीयम् एव" हति अवदत् मक्तः ।

"अहं भक्ताधीनः। भक्त्या त्वं मामपि वशीकृतवान् असि । अतः अहं त्वदधीनः" इति उक्त्वा तम् आशिषा अनुगृह्य ततः अन्तर्हितः अभवत् भगवान् ।

सम्भाषणसन्देशः, ऑक्टोबर २०२०

स्वरक्षणं स्वयमेव करणीयम् ।

तत् किञ्चन महत् अरण्यम्। तत्र कश्चन शशः निवसति स्म। 'सर्वे प्राणिनः मम सुहदः। सर्वे मया सह आदरेण व्यवहरन्ति' इति शशस्य महान् विकासः आसीत्, यश्च विभासः परावलम्बनं द्योतयति रम।

एकदा शशः क्रीडाङ्गणे खेलन् आसीत् । तदा दुरात् शुनकानां भषणम् अश्रूयत। तत् श्रुत्वा अपि शशः तस्मात् प्रदेशात् न अधावत् । 'कुतोऽहं धावानि ? सुहदः सन्ति मम रक्षणाय । ते अवश्यं मां रक्षिष्यन्ति' इति अचिन्तयत् शशः ।

तदनन्तरं सः अश्वम् उपसर्प्य - "भोः अश्व! शुनकाः अत्र आगच्छन्तः स्युः । त्वं स्वपृष्ठे माम् उपवेश्य तेभ्यः रक्ष" इति अवदत्।

तदा अश्वः अवदत् - "क्षमस्व मित्र! अहं सहकर्तुं न शक्नोमि। यतः मम स्वामिनः कार्यम् इतोऽपि न समाप्तम्" इति।

ततः शशः वृअभस्य सकाशं गत्वा - "मां रक्ष" इति प्रार्थयत।

किन्तु वृषभः अवदत् - "किञ्चन त्वरितं कार्यम् आपतितम् अस्ति। अन्यथा निश्चयेन तव रक्षणाय साहाय्यम् अकरिष्यम्" इति।

ततः शशः मेषस्य समीपं गत्वा साहाय्यं पृष्टवान्। मेषः अवदत् - "महोदय। अहम् अधुना मम मित्रस्य गृहं गच्छन् अस्मि त्वरया" इति ।

तदनन्तरं शशः गोगर्दभसूकरादीन् साहाय्यम् अयाचत्। किन्तु सर्वे अपि किमपि कारणं वदन्तः ताः पलायनं कृतवन्तः।

एतावता अनतिदूरे एव शुनकानां भषणध्वनिः अश्रूयत। 'अधुना अहं मित्रेषु विश्वसिमि चेत् मम मरणं निश्चितं भवेत्। तेषु विश्वासकारणात् न किमपि प्रयोजनम्। अतः आत्मनि विश्वस्य अधुना मया धावनीयम् अस्ति' इति विचिन्त्य शशः स्वरक्षणात् ततः अधावत्।

सम्भाषणसन्देशः, जुलै २०२०

सुयोग्यः पुत्रः।

कदाचित् तिस्रः महिलाः कूपात् जलम् उद्धृत्य जलपूर्णं घटं वहन्त्यः गृहं प्रति प्रस्थिताः। तदवसरे पुत्राणां श्रेष्ठताविषये तासां चर्चा आरब्धा। एका अवदत् - 'मम पुत्रः महाविद्वान् अस्ति। शास्त्रार्थसभासु भागं गृहीत्वा महापण्डितान् अपि पराजितान् करोति सः। राजसभायां अपि तस्य विशेषसम्मानः अस्ति। अद्यत्वे सः राजधान्यां निवसति' इति।

तदा अपरा अवदत् - "मम पुत्रः अल्पे एव वयसि वाणिज्ये प्रवृत्तः जातः। इदानीं पितुः वाणिज्यं स्वयं निर्वहन् तत् बहुधा विस्तारयन्नपि अस्ति। प्रतिवर्षं तस्य आयः वर्धते। नगरे वसता तेन गृहं प्रति आगमनाय अपि समयः न प्राप्यते" इति।

किन्तु तृतीया स्वपुत्रविषये किमपि न अवदत्। तदा अन्ये तां पृष्टवत्यौ - "भवत्या स्वपुत्रविषये किमपि न उच्यते..." इति।

तदा सा तृतीया अवदत् - 'मम पुत्रः शास्त्रम् अधीतवान्। गृहे एव तिष्ठन् विश्रामसमये अन्यान् आसक्तान् शास्त्रग्रन्थान् अध्यापयति। पित्रा सह कृषिकार्यं कृत्वा कौशलं प्राप्य अद्यत्वे समग्रं कृषिकार्यं स्वयमेव निर्वहति सः। ग्रामे कस्यचित् अपि कष्टं यदि स्यात् तर्हि तन्निवारणाय झटिति तत्र धावति। शास्त्रे अन्ये जेतव्याः इत्यत्र, प्रभूतं धनं सम्पादनीयम् इत्यत्र च तस्य इच्छा नास्ति।' इति।

तावता राजधान्यां गच्छन् प्रथमायाः पुत्रः अभिमुखम् आगतः। ताः नमस्कृत्य सः अग्रे अगच्छत्। किञ्चिदनन्तरं द्वितीयायाः पुत्रः अपि अभिमुखम् आगतः। सोऽपि तां प्रणम्य वेगेन ततः निर्गतवान्। तावता तृतीयायाः पुत्रः तत्र आगत्य - "भवत्यः एतस्मिन् आपणे किमर्थं घटवहनश्रमं कुर्वन्ति? अहं घटं भवतीनां गृहं प्रापयिष्यामि" इति उक्त्वा तासां हस्तात् अनुरोधपूर्वकं घटं स्वीकृत्य अग्रे प्रस्थितवान्।

यदा सः अग्रे अगच्छत् तदा उभे तृतीयाम् उक्तवत्यौ - "भवत्याः पुत्रः एव श्रेष्ठः। सः न केवलं भवत्याः, अपि तु आवयोः अपि भारम् ऊढवान्। आवयोः पुत्रौ तु शिष्टाचारं परिपाल्य आवयोः कष्टविषये अविचिन्त्य अग्रे गतवन्तौ। सः एव योग्यः पुत्रः। भवत्याः जीवनमेव धन्यम्" इति।

सम्भाषणसन्देशः, जुलै २०२०

सत्कार्याणि कानि?

पूर्वं कश्चन राजा आसीत्। सः देवभक्तः। बहूनि मन्दिराणि तेन निर्मितानि । तस्य धार्मिकश्रद्धां जनाः बहुधा प्रशंसन्ति स्म । तं द्रष्टुम् आगताः बहवः वदन्ति स्म "भवान् यानि धार्मिककार्याणि करोति ततः भवतः स्वर्गप्राप्तिः निश्चिता । महापुण्यशाली भवान्" इति। एतस्य अवणात् राजा महान्तं सन्तोषं प्राप्नोति स्म ।

जनाः प्रशंसां कुर्युः इति इच्छा प्रबला आसीत् तस्मिन् । अतः यः यः तं द्रष्टुम् आगच्छेत् तस्य तस्य पुरतः सः आत्मना कृतानां कार्याणां विवरणम् उपस्थापयति स्म । तत् श्रुत्वा ये प्रशंसा कुर्युः तान् बहुधा सत्करोति स्म सः । अतः तं द्रष्टुम् आगताः सर्वे तस्य प्रशंसां कुर्वन्ति स्म एव ।

कदाचित् कश्चन संन्यासी तं द्रष्टुम् आगतः । राजा तस्य पुरतः आत्मना कृतानि कार्याणि विस्तरेण श्रावितवान् । एतत् शान्ततया श्रुत्वा स संन्यासी अवदत् - "भवता यानि कार्याणि कृतानि तानि सर्वाणि प्रयोजनहीनानि । ततः किमपि न प्राप्नोति भवान्" इति ।

एतस्य श्रवणात् राज्ञा महत् आश्चर्यं प्राप्तम्। सः अवदत् - "सर्वे वदन्ति यत् भवता स्वर्गवास-सुखमेव प्राप्येत इति। भवान् तु वदति भवता किमपि न प्राप्स्यते इति। कथम् एतत् ?" इति ।

"भवता स्वर्गवाससुखं प्राप्येत इति ये उक्तवन्तः ते सर्वे भवन्तं संस्तुत्य किमपि प्रयोजनं प्राप्तुम् इच्छन्ति स्म । अतः ते प्रशंसार्थं तथा अवदन् । भवान् तु फलकामनया कार्याणि अकरोत् । तानि सत्कर्मत्वेन न परिगण्यन्ते....

"सत्कर्माणि नाम कानि ? राजा अपृच्छत्। 

तदा संन्यासी अवदत् "फलप्राप्तीच्छां विना यानि उत्तमानि कार्याणि क्रियेरन् तानि एव सत्कर्माणि भवेयुः । अस्मिन् लोके प्रशंसां, पर लोके स्वर्गसुखं च प्राप्तुम् इच्छन् भवान् यानि कर्माणि कृतवान् तानि दुष्टफलदायीनि न स्युः चेदपि सत्फलं तु न यच्छेयुः। अतः यत् क्रियेत तत् निःस्वार्थभावनया कर्तव्यनम् । जनानाम् उपकारः यतः स्यात् तादृशानि कार्याणि करणीयानि तानि दृष्ट्वा यदि केचन प्रशंसां कुर्युः तर्हि अपि भवता समचित्तेन भवितव्यम् । येभ्यः कार्येभ्यः मनसः आत्मनः च संस्कारः भवेत् तानि एव उत्तमानि कार्याणि । यतः विकृतिः उत्पद्येत तत् न हि श्रेष्ठम् । प्रशंसाप्राप्तीच्छा अपि विकृतिरूपा एव । अतः तादृशीम् इच्छां परित्यज्य शुद्धेन हृदयेन प्रजाहित-कार्याणि कुरु । ततः तव श्रेयः सिद्धयेत्" इति ।

एतस्मात् राज्ञा ज्ञानोदयः प्राप्तः । सः सत्कार्य-सङ्कल्पं कृत्वा तं संन्यासिनं भक्त्या नमस्कृतवान् ।

सम्भाषणसन्देश:, सप्टेम्बर २०२०


सन्तोषप्राप्त्यै मार्ग:।

कदाचित् कश्चन गृहस्थः महात्मानं दृष्ट्वा नमस्कृत्य पृष्टवान् - "श्रीमन् । मम जीवने सन्तोषः एव नास्ति । अतः एव अहं भवत्सन्निधिम् आगतवान् अस्मि । मया किं करणीयम् इति उपदिश्यताम्" इति ।

"सन्तोष प्राप्तुं भवता कि किं कृतम् ?" महात्मा अपृच्छत् ।

"कि किं न कृत्तम् इति पृच्छ्यताम् । मया उद्योगः कृतः । वाणिज्यं कृतम् । तीर्थक्षेत्राणि दृष्टानि । पर्वताः आरूढाः । प्रबोधनानि श्रुतानि। पुस्तकानि पठितानि । उद्यानेषु विहृतम् । सुहृदां मार्गदर्शनं प्राप्तम् ।... एवं सर्वं कृतं चेदपि सन्तोषः तु न प्राप्तः ।

"भवान् कानिचन दिनानि अस्मदाश्रमे तिष्ठतु। ततः पश्याम" इति अवदत् महात्मा ।

गृहस्थः आश्रमे वासम् आरब्धवान् । आश्रम-मुख्यः तं कूपखननकायें योजितवान्। सः गृहस्थः श्रद्धया उत् कार्यम् अकरोत् । केषाञ्जित् दिनानाम् अनन्तरं कूपे जलम् उद्गतम् । तत् द्रष्टुम् आगतः महात्मा वं गृहस्थम् अपृच्छत् "भोः, अत्र जलं कुतः आगतम् ? किम् अन्यस्मात् आगतं तत् ?"

"न श्रीमन्। भूमेः अन्तः जलम् आसीत् एव । वयं जलस्थितिस्थले लक्षणैः अभिज्ञाय तत्र मृत्तिकायाः अपसारणं कृतवन्तः । ततः जलं प्राप्तम्।... गृहस्थः अवदत् ।

"मृत्तिकापसारणम् अल्पेन एव श्रमेण सिद्ध किम्?"

"नैव श्रीमन् । अस्माभिः द्वित्रैः कानिचन दिनानि यावत् परिश्रमः कृतः ....."

"मृत्तिका एकस्मिन् एव स्थले अपसारिता, उत विभिन्नेषु स्थलेषु ?"

"विभिन्नेषु स्थलेषु खननात् जलं कथं प्राप्येत ? एकस्मिन् एव स्थले खननं कृतम् अस्माभिः।..."

तदा महात्मा हसन् अवदत् "भवता सन्तोष-प्राप्तिमार्गः पृष्टः आसीत् ननु ? कूपखननस्य या नीतिः सा एव अनुसरणीया सन्तोषप्राप्त्यै अपि । ऊर्ध्वभागे विद्यमानाः विघ्नकारकाः अंशाः अप-नीताः चेत् सन्तोषः स्वयमेव उद्गच्छति। सन्तोषः अस्माकम् अन्तः तिष्ठति एव । अवरोधकाः अंशाः प्रवर्तते निवारणीयाः। निरन्तरप्रयासः अपि अपेक्ष्यते तदर्थम् सन्तोषः बाह्यतत्त्वं  न अवलम्बते। मनसः नैर्मल्यं सम्पादितं चेत् सन्तोषः स्वयं प्राप्येत ।..."

सम्भाषणसन्देशः, ऑगस्ट २०२०

सदाचारस्य अनुष्ठानम्।

वाराणस्यां स्थितः बनारस-हिन्दु-विश्वविद्यालयः तु सुविख्यातः। पूर्वम् आचार्यः नरेन्द्रदेवः तस्य कुलपतिः आसीत् । कदाचित् सः सैकल् रिक्षायाने उपविश्य कुत्रचित् गच्छन् आसीत् । तदवसरे तदीयः कश्चन सुहृत् अभिमुखम् आगतः । तं दृष्ट्वा नरेन्द्रदेववर्यः रिक्षाचालकम् असूचयत् "क्षणकालं स्थीयताम्" इति। चालकः रिक्षायानं स्थगितवान् ।

ततः सुहृद् कुशलसम्भाषणं प्रवृत्तम् । तस्मिन् वत्सरे सः सुहृत् साश्चर्यम् अपृच्छत् "आचार्यवर्य । कुत्र गम्यते भवता ? तदपि एवं रिक्षायानेन ?" इति ।

तदा नरेन्द्रदेववर्यः अवदत् "मम बन्धुः कश्चन अस्वस्थः इति श्रूयते। तं द्रष्टुम् अहं प्रस्थितः ।..."

"भवान् अस्ति इदानीं सुविख्यातस्य विश्वविद्यालयस्य कुलपतिः । कुलपतये सर्वकारः कार्यानव्यवस्था करोति एव ।.."

तदा नरेन्द्रदेववर्यः अवदत् "सर्वकारेण कार्यानव्यवस्था तु कृता अस्ति एव । सर्वत्र तस्य उपयोगाय यः इन्धनतैलव्ययः भवेत् तं वोढुं सामर्थ्यं नास्ति ननु सामान्यस्य मम ।..."

"इन्धनतैलव्ययं तु सर्वकारः एव निर्वहति ननु ?"

"आम्। सर्वकारीयकार्यार्थं यत् अट्यते तस्य व्ययं सर्वकारः एव निर्वहति। इदानीं तु अहं मित्रस्य दर्शनाय गच्छन् अस्मि । एतत् तु वैयक्तिक कार्यम् ।"

"कार्ये वैयक्तिकः सर्वकारीयः चेति भेदः किमर्थ करणीयः ? वैयक्तिकाय कार्याय यः अल्पः व्ययः भवेत् तं सर्वकारः निर्वहत् चेत् का हानिः ?"- सः सुहृत् अपृच्छत् ।

"सर्वकारव्ययेन यदि अहं वैयक्तिककार्याणि निर्वहेयं तर्हि न कोऽपि आक्षिपेत् अपि माम् । किन्तु उन्नतस्थाने तिष्ठता मया आचारशुद्धिः परिरक्षणीया एव ननु ? यदि महाशयानाम् आचारे एव शुद्धिः न भवेत् तर्हि समाजे सदाचारः कथं तिष्ठेत् ? अतः मया वैयक्तिककार्याय सर्वकारीयव्यवस्थायाः उपयोगः न क्रियते इति दृढस्वरेण अवदत् नरेन्द्रदेववर्यः ।

सम्भाषणसन्देशः, ऑक्टोबर २०२०


निर्लिप्तभावेन प्रशासनम्।

व्यासपूजादिनं तत् । गुरोः रामदासस्य आश्रमं प्रति भक्ताः आगत्य गुरुपूजां निमित्तीकृत्य किमपि समर्पयन्ति स्म । गुरुः रामदासः तानि वस्तूनि धनादिकं च स्पृष्ट्वा स्वीकृतिं दर्शयित्वा तत्सर्वम् आश्रमप्रबन्धकाधीनं कृत्वा वस्तुधनादिकम् अर्पितवन्तं जनम् आशीर्वादेन अनुगृह्णाति स्म ।

गुरुपूजानिमित्तं स्थितानां भक्तानां पङ्कौ राजा शिवराजः अपि स्थितः आसीत् । अग्रे स्थितेषु जनेषु यथाशक्ति समर्प्य गतेषु शिवराजः समर्पणाय रामदासस्य पुरतः अतिष्ठत् । साष्टाङ्गप्रणामः कृतः तेन। तदा गुरुणा सः अभिज्ञातः । गुरुः आसनात् उत्थाय शिवराजं प्रीत्या आलिङ्गय "महाराज। भवता अपि उपस्थितम् अत्र ।" इति ससन्तोषम् अवदत् ।

शिवराजः प्रतिवचनं किमपि अनुक्त्वा एकं कागदं स्थालिकायां संस्थाप्य तां स्थालिकां गुरुदेवस्य पुरतः अस्थापयत् । तस्य नेत्रयोः समर्पणभावः दृश्यते स्म, आनन्दाश्रूणि निर्गच्छन्ति स्म च। रामदासः शिवराजेन अर्पितं कागदम् उद्घाट्य अपठत्। तत्र लिखितम आसीत् "मम राजपदवी, राज्यं, सम्पत्तिः च गुरुदेवस्य पदतले अर्पितम् अस्ति" इति ।

रामदासः अपृच्छत्- "एतत्सर्वं मह्यम् अर्पयित्वा त्वं किं कर्तुम् इच्छसि ?" इति ।

"संन्यासं स्वीकृत्य भवतः सेवां कर्तुम् इच्छामि" अवदत् शिवराजः।

"अद्यपर्यन्तं भवता यत् कृतं तत् मम सेवा किं न ?" रामदासः अपृच्छत् ।

"नाहं जानामि ।..." शिवराजः उक्तवान् । "सा अपि मम सेवा एव । स्वराज्यं सुराज्यं क्रियताम्। उत्तमं प्रशासनं व्यवस्थाप्यताम् । संन्यासिनः यः मनोभावः तेनैव निर्लिप्त-मनोभावेन कार्यं क्रियताम् । राज्यम् एतत् अपि संन्यासिनः एव । तस्य सङ्केतरूपेण राज्यध्वजः काषायवर्णीयः भवतु ...."

तस्मात् दिनात् शिवराजप्रशासनस्य राज्य-ध्वजः काषायवर्णीयः जातः । सः एव भगवद् ध्वजः इति निर्दिश्यते ।

सम्भाषणसन्देशः, ऑगस्ट २०२०

ज्ञानप्रकाशस्य उद्दीपनम्।

कदाचित् कश्चन शिष्यः आचार्यम् अपृच्छत् "श्रीमन् । अस्माभिः अत्र ग्रन्थाः अधीयन्ते, ज्ञानं सम्पद्यते च। मम प्रश्नः एतस्मात् ज्ञानात् किं प्रयोजनम् ? वृत्तिप्राप्तिः, मानसम्मानप्राप्तिः एवं किम् एतस्य प्रयोजनम् ?" इति ।

तदा आचार्यः अवदत्, "न तावदेव, इतोऽपि अधिकं प्रयोजनमपि अस्ति। तत् तु कालान्तरे त्वया ज्ञायेत" इति। शिष्यः प्रतिवचनं किमपि अवदन् स्वस्थानम् अगच्छत्।

कदाचित् आचार्यः तम् आहूय कञ्चित् ग्रन्थं दत्त्वा अवदत् - "एतं ग्रन्थं मम प्रकोष्ठे स्थापय" इति ।

शिष्यः ग्रन्थं स्वीकृत्य गतः। क्षणाभ्यन्तरे भीत्या प्रत्यागतः। स अवदत् "आचार्यवर्य प्रकोष्ठे भवन्मञ्जस्य उपरि कश्चन सर्पः तिष्ठति ।...."

तत् श्रुत्वा आचार्यः हसन् - "मम प्रकोष्ठे सर्पः कथं प्रविशेत् ? भ्रान्तिः तव। अकस्मात् आगतः स्यात् चेदपि सः एतावता गतः स्यात् । अथवा अहम् एकं मन्त्रम् उपदिशामि। तं जपन् गच्छ । सर्पः प्रकोष्ठात् अपगतः भविष्यति ।..." इति वदन् एकं मन्त्रं बोधितवान् । शिष्यः तं मन्त्रं जपन् प्रकोष्ठं गतवान्। सर्पः तदा अपि मञ्चस्य उपरि आसीत् एव । शिष्यः भीत्या प्रत्यागत्य सर्पस्य अनपगमनम् आचार्याय निवेदितवान् ।

"एवं तर्हि दीपं नय। दीपप्रकाशदर्शनात् सर्पः निश्चयेन पलायनं कुर्यात्" इति असूचयत् आचार्यः । शिष्यः एकं दीपं गृहीत्वा आचार्यस्य प्रकोष्ठम् अगच्छत् । दीपप्रकाशे तेन दृष्टं यत् मञ्चस्य उपरि तिष्ठति रज्जुः, न तु सर्पः इति ।

प्रकोष्ठात् बहिः आगतः सः आचार्याय प्रवृत्तं सर्वम् अवदत् । तदा आचार्येण उक्तम् - "वत्स । अन्धकारकारणात् रज्जुः सर्पः इव अभासत । यदा प्रकाशः नीतः तदा त्वया वस्तुस्थितिः ज्ञाता, भ्रान्तिश्च अपगता । जीवने अपि एवमेव भवति अज्ञानस्य कारणतः अस्मासु अनेकविधाः भ्रान्तयः जायन्ते। ताः तु बाधेरन् बहुधा। तासां निवारणाय अन्तरङ्गदीपः उद्दीपनीयः सः अन्तरङ्गदीपः उद्दीपितः चेदेव ज्ञानप्रकाशः प्राप्येत तत् अन्तरङ्गदीपोद्दीपनं न हि सरलं कार्यम् । सर्वे तत् अन्तरङ्गदीपोद्दीपनं कर्तुं न अर्हन्ति । भ्रमजालस्य अपसारणाय आत्मप्रकाशस्य प्राप्त्यै च निरन्तरगभीराध्ययनम् एकमेव शरणम् ।.....

सम्भाषणसन्देश:, सप्टेम्बर् २०२०


दिग्भ्यः नमस्कारार्पणम्।

आश्रमे गुरुः प्रतिदिनं प्रातः अष्टसु दिक्षु नमस्कारं करोति स्म। कदाचित् कश्चन शिष्यः तम् उपसर्प्य अपृच्छत्- "आचार्यवर्य। प्रतिदिनं भवता अष्टसु दिक्षु नमस्कारः क्रियते । किं भवान् दिक्पालकान् नमस्करोति ?" इति ।

तदा आचार्यः अवदत् "दिक्पालकान् नमस्करोमि इति चिन्तने अपि न दोषः। वस्तुतः मम नमस्करणस्य उद्देशः अन्यः एव..."

"कः उद्देशः सः ?" आश्चर्येण अपृच्छत् शिष्यः ।

आचार्येण उक्तम् "एतत् जगत् प्रति यौ अस्मान् आनीतवन्तौ तौ सङ्केतयति पूर्वा दिक् । जीवने पत्नीपुत्रादयः ये प्राप्यन्ते तान् सङ्केतयति पश्चिमा दिक् । उत्पत्तिकारणाय आश्रयस्थानाय च नमस्कारः समर्प्यते मया ।..."

"दक्षिणोत्तरदिशौ किं तत्त्वं सङ्केतयतः ?" शिष्यः अपृच्छत्

"दक्षिणा दिक् बोधकम् आचार्यम्, उत्तरा दिक् सुहृद्‌बान्धवादीन् च सङ्केतयति ।...."

"ऊर्ध्वदिक् अधोदिक् च कं तत्त्वविशेषं स्मारयतः ?"

"भूमिः अधोभागे तिष्ठति । अस्मत्सेवां साहाय्यं च ये कुर्वन्ति तान् सङ्केतयति अधो-दिक् । सहायकसहोद्योग्यादिभ्यः कृतज्ञता समर्पयितुम् अधोदिक् नमस्क्रियते । अस्मान् यः उन्नतं स्थानं प्रापयेत् तादृशम् उत्कृष्टं मार्गदर्शकं सङ्केतयति आकाशः। आत्मतत्त्वस्य स्मारकः अपि अस्ति सः एव । अतः एव आकाशः अपि नमस्क्रियते मया ।..."

"अन्धश्रद्धया दिक्‌पालान् नमस्करोति भवान् इति चिन्तितम् आसीत् मया ।..."

"दिक्पालेभ्यः नमस्कारार्पणम् अन्धश्रद्धा तु न । तत् आस्तां तावत् । येभ्यः मया उपकारः प्राप्यते तेभ्यः कृतज्ञतासमर्पणाय मया प्रतिदिनं नमस्कारः क्रियते । तादृशं कृतज्ञतासमर्पणम् अस्माकम् आद्यं कर्तव्यम् ।..."

"दिग्भ्यः नमस्कारार्पणम् एवं विशिष्टेन उद्देशेन भवति इति अद्य मया ज्ञातम् । इतः परम् अहमपि दिशः नमस्करिष्यामि " इति अवदत् शिष्यः ।

सम्भाषणसन्देश:, सप्टेम्बर २०२०


देशीया संस्कृति:।

कश्चित् भारतीयः कश्चन युवा संन्यासी विदेशं गतवान्। सः काषायं कञ्चुकं शिरोवेष्टं च धृत्वा सर्वत्र अटति स्म। अन्यत् किमपि वस्त्रं वा न आसीत् तस्य सकाशे। अतः सर्वेषु सभासमारम्भेषु तदेकमेव वस्त्रं धरति स्म सः। किन्तु सर्वत्र महता उत्साहेन भागं वहति स्म सः।

यद्यपि तस्य वस्त्रं साधारणम् आसीत्, तथापि तत्रत्यं वातावरणं तस्य शरीरस्य उपरि किमपि दुष्परिणामं न अजनयत्। यतो हि तस्य मनोबलम् आरोग्यं च तावत् प्रबलम् आसीत्।

एकदा सः संन्यासी कश्चित् समारोहं समाप्य स्ववासस्थानं यदा गतवान् तदा तत्र कश्चन विदेशीयः आक्षिपन् तं पृष्टवान् - "भोः महाशय। एतत् साधारणं वस्त्रं विना किमपि नास्ति कि भवतः समीपे? सर्वदा इदमेव वस्त्रं धृत्वा सर्वत्र गम्यते भवता। किं लज्जा न अनुभूयते?"

"लज्जा किमर्थम् अनुभूयेत? यत् अस्ति तत् प्रियते मया।"

"अहो, कीदृशी दारिद्र्योपेता संस्कृतिः स्यात् भवताम् !! प्रतिदिनम् एकैकम् ऊरुकं युतकं च धर्तव्यम्। तत् न कुर्वन्ति एव भवन्तः'' इति।

तदा सः युवा संन्यासी स्मित-वदनः सन् अवदत् - "भोः गृहस्थ। भवताम् अस्माकं च संस्कृतिः परस्परं भिन्ना एव अस्ति। भवतां संस्कृतेः निर्माणं भवदीयस्य सौचिकस्य सौविध्यं चिकीर्षुः। किन्तु अस्माकं सनातनी संस्कृतिः अस्माकं चारित्र्यं निर्माति। कस्यचन देशस्य सांस्कृतिकः विकासः तत्रत्येन चारित्र्यबलेन मापनीयः, न तु सौचिककौशलेन' इति।

तदानीं सः विदेशीयः मौनेन स्थितवान्।

सः युवा संन्यासी न अन्यः कोऽपि। सः अस्ति स्वामी विवेकानन्दः।

सम्भाषणसन्देशः, ऑगस्ट २०२०

अपराधकृत्येषु न्यूनता।

कश्चन राजा वेषान्तरं धृत्या राज्ये सञ्चरन् आसीत्। तदवसरे कश्चन रज्जकः तेन दृष्टः। तेन सह दशाधिकाः गर्दभाः आसन्। सर्वे गर्दभाः पङ्क्तिबद्धाः सन्तः एव चलन्तः आसन्।

तत् दृष्ट्वा राजा पृष्टवान् - “भोः, भवता एतेभ्यः कीदृशं प्रशिक्षणं दत्तं, येन एते पङ्क्तिबद्धाः सन्तः गच्छन्ति ?” इति।

तदा रज्जकः उक्तवान् - “नात्र प्रशिक्षणस्य प्रसक्तिः। यः पङ्क्तिभङ्गं करोति तं गर्दभं सम्यक् ताडयामि अहम्। अतः दण्डभीत्या एते पङ्क्तौ गच्छन्ति। दण्डभीत्या सर्वं साधयितुं शक्यम्।”

तदा राजा स्वस्य परिचयम् उक्त्वा अपृच्छत् - “मम देशे अपराधकृत्यानि बहुधा प्रवर्तन्ते। किं तेषां निग्रहः कर्तुं शक्यः ?”

“कुतो न ? किन्त्वत्र कठोरदण्डेन दण्डनीयाः। सा वार्ता सर्वत्र प्रसरेत्। ततः सहजतया अपराधकृत्येषु न्यूनता भविष्यति एव।"

“एवं तर्हि भवान् अद्यैव न्यायाधिकरणिकत्वेन नियोजयामि। भवान् स्वसामर्थ्यं दर्शयतु तावत्” इति उक्त्वा राजा तं न्यायाधिकरणिकत्वेन नियोज्य आदेशं प्रसारितवान्।

अनन्तरदिने सः रज्जकः न्यायाधिकरणिकस्थाने उपाविशत्। आदौ चौर्यप्रकरणस्य कस्यचित् विचारणा प्रवृत्ता। रज्जकेन निर्णयः श्रावितः - “कृतस्य अपराधस्य दण्डत्वेन अस्य हस्तौ कर्तनीयौ” इति।

चोरः तत्रत्यं लिपिकारं नेत्रसङ्केतेन किमपि असूचयत्। ततः लिपिकारः न्यायाधिकरणिकम् उपसृत्य मन्दस्वरेण अवदत् - “श्रीमन् ! एषः जनः अस्मदीयः। अतः... ”

न्यायाधिकरणिकस्थाने उपविष्टः रज्जकः दृढस्वरेण अवदत् - “एतस्य हस्तौ कर्तनीयौ इति आदेशः कृतः एव ननु मया ? सः किं भवता न श्रुतः ?"

“श्रीमन् ! अस्मदीयः जनः अयम् । यदि दण्डः न्यूनीक्रियेत तर्हि यथाशक्ति दद्यात् अयम्” इति मन्दस्वरेण अवदत्।

न्यायाधिकरणिकस्थानस्थः रज्जकः तेन कोपेन दृष्ट्वा पुनः आज्ञां कृतवान् - “चौरस्य हस्तौ कर्तनीयौ, अस्य लिपिकारस्य जिह्वा छेत्तव्या च” इति।

एकस्य न्यायनिर्णयस्य कारणात् एव देशे अपराधकृत्येषु महती न्यूनता जाता। सन्तुष्टः राजा तस्मै रज्जकाय पारितोषिकं दत्त्वा सत्कृतवान्।

सम्भाषणसन्देश:, जुलै २०२०

अभिनन्दनं कस्मै?

रवीन्द्रनाथटागोरवर्यः यदा नोबेल्प्रशस्तिं प्राप्नोत् तत्कालीना घटना एषा । नोबेल्प्रशस्ति-दात्री संस्था रवीन्द्रनाथवर्यं तन्त्रीवार्तया असूचयत् यत् भवता गीताञ्जलिनिमित्तं साहित्यक्षेत्रीया नोबेल्प्रशस्तिः प्राप्ता अस्ति इति ।

रवीन्द्रनाथवर्यः एतां वार्तां श्रुत्वा सन्तोषं तु प्राप्तवान्, किन्तु ताम् अन्यान् श्रावयितुं कमपि उत्साहं न दर्शितवान्। ततः सप्ताहाभ्यन्तरे पत्रिकासु एषा वार्ता प्रकाशिता। ऐदम्प्राथम्येन भारतीयेन प्राप्ता अत्युच्चप्रशस्तिः एषा इति वदन्त्यः पत्रिकाः रवीन्द्रनाथवर्यस्य प्रशंसां बहुधा कृतवत्यः ।

तस्मिन् काले रवीन्द्रनाथवर्यः शान्तिनिकेतने निवसति स्म । पत्रिकाद्वारा वार्तां ज्ञातवन्तः पञ्च शताधिकाः जनाः शान्तिनिकेतनं गतवन्तः । अभिनन्दनसभा प्रवृत्ता । सभायां बहूनि मधुरखाद्यानि वितीर्णानि । 'बङ्गालस्य वरपुत्रः' 'साहित्यक्षेत्रस्य ध्रुवनक्षत्रम्' 'भारतमातुः कीर्ति-हेतुः' इत्यादिभिः वचनैः तस्य प्रशंसा बहुभिः कृता। जयघोषाः अपि बहुधा प्रवृत्ताः ।

रवीन्द्रनाथवर्येण सर्वमपि मन्दहासपूर्वकं स्वी-कृतम् । न अत्युत्साहः प्राप्तः, न वा नीरस-प्रतिस्पन्दः दर्शितः । सर्वेषाम् अभिमानिनां निर्गमनस्य अनन्तरं कश्चन आप्तः तम् अपृच्छत् -"महोदय ! एतावन्तः जनाः आगत्य अभिनन्दनं कृतवन्तः । भवतः प्रशंसा बहुधा कृता । सर्वे महता सन्तोषेण आसन्। किन्तु भवान् तु स्थित-प्रज्ञः इव व्यवहृतवान् । तेषाम् आगमनं निमित्तीकृत्य शान्तिनिकेतने विशेषभोजनं वा व्यवस्थापनीयम् आसीत् । आगतानां विशेष-सत्कारः करणीयः आसीत्..." इति ।

तदा रवीन्द्रनाथवर्यः शान्ततया अवदत् -"गीताञ्जलिपुस्तकं तु बहुभ्यः वर्षेभ्यः पूर्वमेव प्रकाशितम् आसीत् । अद्य आगतेषु कोऽपि तत् पुस्तकं न पठितवान् एव । तस्य वैशिष्ट्यमपि केनापि न अवगम्यते । एतादृशं पुस्तकं पठित्वा अवगत्य तत्रत्याः गुणाः ग्रहीतव्याः इत्यत्रापि नास्ति आस्था कस्यापि । नोबेल्प्रशस्तिः प्राप्ता इति वार्तां पठित्वा श्रुत्वा च अभिनन्दनाय आगताः आसन् ते । वस्तुतः तेषाम् अभिनन्दनं किं कृत्यै ? अथवा किं कृतिकाराय ? न । उभयोः कृते अपि न । अभिनन्दनम् आसीत् नोबेल्पुरस्काराय । यत् अभिनन्दनं कृत्यै कृतिकाराय वा न स्यात् तादृशेन अभिनन्दनेन कथं सन्तोषः प्राप्येत ? शिष्टाचारपालनाय मया अभिनन्दनावसरे सुमुखता दर्शिता, तावदेव" इति ।

सम्भाषणसन्देशः, जून् २०२०