Showing posts with label सम्भाषणसन्देश: १९९४. Show all posts
Showing posts with label सम्भाषणसन्देश: १९९४. Show all posts

मरणकारणं किम्?

पूर्व कश्चन सज्जनः आसीत् । सः कदापि कस्यापि अहितं न करोति स्म । सर्वदा परहितम् एव चिन्तयति स्म । अतः सात्त्विकजीवनबलात् तेन विशिष्टा शक्तिः प्राप्ताः आसीत्। देहरहितान् अपि देवता-पिशाचादीन् द्रष्टुं तस्य सामर्थ्यम् आसीत् ।

कदाचित् सः कार्यनिर्मित्तम् अन्यग्रामं गच्छन् आसीत् । तदा मार्गे तेन काचित् क्षुद्रदेवता दृष्टा। तस्याः दर्शनात् एव सः सात्त्विकः ज्ञातवान् यत् एषा काचित् साङ्क्रामिकरोगस्य देवता इति ।

सः तां नमस्कृत्य पृष्टवान् -"भवती का ? कुत्र च गच्छन्ती अस्ति ?" इति । तदा सा देवता उक्तवती "अहं प्लेगरोगस्य अधिदेवता । पार्श्वस्थं ग्रामं प्रति गच्छन्ती अस्मि" इति।

'प्लेगरोगाधिदेवता यं ग्रामं प्रविशति तस्मिन् ग्रामे महती जीवहानिः भविष्यति' इति जानाति स्म सः सात्त्विकः । किन्तु तस्याः देवतायाः गमनं निवारयितुं तु तस्य सामर्थ्यं न आसीत् । अतः सः ग्रामस्य हानिं जानन् अपि तां निवारयितुम् अशक्नुवन् मौनम् अग्रे गतवान् ।

प्लेगदेवता ग्रामं प्रविष्टवती। सर्वत्र प्लेगरोगः प्रसृतः । रोगग्रस्ताः बहवः मरणं प्राप्तवन्तः । सात्त्विकः स्वप्राणापायम् अपि अविगणय्य जनानां सेवां कृतवान् । रोगप्रसारस्य निवारणार्थं यद्यत् आवश्यकं तत्सर्वं कृतवान्।

रोगः पार्श्वग्रामेषु न प्रसरेत् इत्यतः सः समीपस्थेषु ग्रामेषु रोगप्रतिबन्धकोपायान् कृतवान् । कदाचित् एतादृशं कार्यं समाप्य स्वग्रामं प्रति गच्छन् आसीत् सः।

तावता ग्रामात् निर्गता प्लेगरोगाधिदेवता तस्य अभिमुखम् आगता । तां पृष्टवान् सात्त्विकः "तृप्ता खलु भवती ? भवत्याः कार्य समाप्तं खलु ?" इति ।

तदा सा देवता शान्तस्वरेण उक्तवती "वत्स ! अलं कोपेन ! वयं सर्वे विधिनियमाधीनाः खलु ? अहं कुत्रापि स्वयं न प्रविशामि । यत्र जनाः स्वच्छतां न रक्षन्ति तत्रैव मम प्रवेशः । जनाः अस्वच्छतादिभिः एव मां स्वागतीकुर्वन्ति" इति ।

"तदस्तु, एतस्मिन् ग्रामे कति जनान् यमसदनं प्रेषितवती भवती ?" इति पृष्टवान् सात्त्विकः।"चत्वारिंशजनान्" इति उत्तरं दत्तवती देवता।

एतत् श्रुतवतः सात्त्विकस्य महान् कोपः आगतः । यतः शताधिकानां जनानां मरणं सः प्रत्यक्षं दृष्टवान् आसीत् । अतः सः क्रोधमिश्रितेन स्वरेण पृष्टवान्, किम् एतत्   असत्यकथनं भवत्याः ? ग्रामे शताधिकाः जनाः मृताः । भवती वदति अहं 'चत्वारिंशजनानां मरणस्य कारणम्' इति । सर्वथा अनुचितम् एतत्" इति ।

तदा सा प्लेग्रोगाधिदेवता मन्दहासपूर्वकम् उक्तवती "शताधिकाः जनाः मृताः इति तु सत्यम् एव । किन्तु मत्कारणतः - तन्नाम रोगकारणतः चत्वारिंशज्जनाः मृताः इत्यपि सत्यम् एव । रोगकारणतः तावन्तः एव मृताः । अन्ये सर्वे रोगभीतिकारणतः मृताः । मया असत्यं किमपि न उक्तम्" इति ।

सम्भाषणसन्देश:, डिसेम्बर १९९४

मम नाम 'स्वतन्त्र:'।

दीपावली-उत्सवस्य सन्दर्भे कस्य वा सन्तोषः न भवति? तस्मिन् सन्दर्भे तु बालानाम् अधिकः सन्तोषः । ते तु मातापितॄन् पीडयन्तः स्फोटकानि आनाय्य ज्वालयित्वा सन्तोषम् अनुभवन्ति ।

एकः ग्रामः । एवमेव दीपावलीसन्दर्भे तस्मिन् ग्रामे अपि मार्गे सर्वत्र स्फोटकानां ध्वनिः, प्रकाशः च आसीत् । पञ्चषाः बालकाः एकत्र मिलित्वा स्फोटकानि ज्वालयन्तः आसन् । तदा तेषु अष्टवर्षीयः एकः बालकः अन्यान् सर्वान् बालकान् स्वसमीपम् आहूय "भोः, भवतां सकाशे विद्यमानानि स्फोटकानि सर्वाणि आनयन्तु । सर्वाणि स्फोटकानि एकत्र राशीकृत्य ज्वालयामः चेत् महान् प्रकाशः भवति । महान् आनन्दः च भवति" इति उक्तवान् ।

सर्वे अन्ये बालकाः स्फोटकानि आनीय एकत्र राशीकृतवन्तः । सः बालकः एकाम् अग्निशलाकां प्रज्वाल्य स्फोटकानि ज्वालितवान् । एकवारमेव महान् प्रकाशः शब्दः च उत्पन्नः । सर्वे बालाः सन्तोषेण हसन्तः नृत्यं कृतवन्त:।

तदा सः बालकः उक्तवान् - "सर्वेषां स्फोटकानि योजयित्वा ज्वालयामः चेत् कियान् प्रकाशः भवति इति दृष्टं खलु" इति । सर्वे बालकाः "सत्यं, सत्यम्" इति उक्तवन्तः ।

तदा तेषु कश्चित् तस्य बालकस्य दक्षिणहस्तं दृष्टवान् । सः हस्तः दग्धः आसीत् । सः उच्चैः "भोः, एतस्य हस्तः दग्धः अस्ति । पश्यन्तु भोः । वयं सर्वे गत्वा एतस्य मातरम् आनयाम" इति उक्तवान् । ततः सर्वे बालकाः तस्य बालकस्य मातरम् आनेतुं प्रस्थितवन्तः ।

तदा सः बालकः एव तान् वारयन् उक्तवान् - "भोः, भीरवः ! भीतिः मास्तु । एषः व्रणः एकस्मिन् एव दिने न्यूनः भविष्यति । अतः एतदर्थं पुनः माता किमर्थम् आह्वातव्या ? आगच्छन्तु, वयं सर्वे मिलित्वा अवशिष्टानि स्फोटकानि ज्वालयामः" इति ।

एषः एव बालकः अग्रे संस्कृताध्ययनार्थ काशीनगरं गतवान् । तदा स्वातन्त्र्यसङ्ग्रामस्य कालः । सर्वे नेतारः स्वातन्त्र्यान्दोलने रताः आसन् । स्वातन्त्र्यसङ्ग्रामस्य अङ्गतया सर्वत्र असहकार-आन्दोलनं प्रचलत् आसीत् । तथैव काशीनगरे अपि एकस्मिन् दिने आन्दोलनस्य अङ्गतया शोभायात्रा प्रचलन्ती आसीत् । आरक्षकाः तत्र आगत्य दण्डप्रहारं कृतवन्तः । शोभायात्रायाः अग्रभागे ध्वजं गृहीत्वा स्थितवन्तं कञ्चित् ज्येष्ठं पुरुषम् आरक्षकाः सम्यक् ताडितवन्तः ।

एतत् सर्वं सः बालकः दूरे स्थित्वा पश्यन् आसीत् । तस्य महान् कोपः आगतः । सः एकं शिलाखण्डं स्वीकृत्य एकम् आरक्षकाधिकारिणं लक्ष्यीकृत्य क्षिप्तवान् । सः शिलाखण्डः वेगेन आगत्य आरक्षकाधिकारिणः ललाटं घट्टितवान् । कुद्धः अधिकारी  "तं बालकं बद्ध्वा आनयन्तु" इति अन्यान् आरक्षकान् आज्ञापितवान् । ते तं ग्रहीतुं गतवन्तः । तदा सः ततः धावितवान् । आरक्षकान् सम्यक् आटयित्वा अन्ते तैः बद्धः अभवत् ।

अनन्तरदिने आरक्षकाः तं न्यायालयं नीतवन्तः । तत्रत्यः न्यायाधीशः बहु क्रूरः दुष्टः च आसीत् । सः देशभक्तेभ्यः कठिनं दण्डनं ददाति स्म । सः न्यायाधीशः कूरतया तं बालकं पश्यन् पृष्टवान् "भवतः. नाम किम् ?" इति । 

तस्य दर्पं दृष्ट्वा बालकः निश्चितवान् यत् एतस्य प्रश्नानां योग्यम् उत्तरं दातव्यमिति । सः उच्चैः उत्तरं "मम नाम आजाद: (स्वातन्त्र्यम्) इति दत्तवान् । 'आजाद:' इत्यस्य हिन्दीभाषायां 'स्वतन्त्र:' इत्यर्थः । वस्तुतः तत् तस्य नाम न ।

न्यायाधीशः तं पुनश्च पृष्टवान् "भवतः पिता कः ?" इति । बालकः उत्तरं दत्तवान् "स्वाधीनता" इति । "भवतः वासः कुत्र ?" इति पृष्टवान् न्यायाधीशः । बालकः उक्तवान् "मम वासस्थानं कारागृहम्" इति ।

बालकस्य उत्तराणि श्रुत्वा तत्र सम्मिलिताः जनाः सर्वे यद्यपि सन्तुष्टाः, तथापि दुष्टेन न्यायाधीशेन दीयमानं दण्डनं स्मरन्तः भीताः ।

न्यायाधीशः तस्मै बालकाय द्वादशवेत्रप्रहारात्मकं दण्डनं विहितवान् । काशीनगरस्य कारागृहं नीत्वा आरक्षकाः तं विवस्त्रं कृत्वा वेत्रेण प्रहृतवन्तः । एकैकेन प्रहारेणापि महतीं वेदनाम् अनुभवति स्म बालकः । तस्य शरीरात् रक्तमपि प्रवहति स्म । तथापि सः प्रत्येकप्रहारसन्दर्भेऽपि इति "वन्दे मातरम्" इति उच्चैः घोषणं कृतवान्, यच्च समग्रे कारागृहे प्रतिध्वनितं भवति स्म ।

पश्चात् सः आरक्षकैः कारागृहात् बहिः क्षिप्तः । तदा सः बालकः प्रतिज्ञां कृतवान् यत् जीवने कदापि आरक्षकैः बद्धः न भवामि इति । तथैव जीवने आचरितवान् अपि ।

सः बालकः एव चन्द्रशेखर-आजादः । क्रान्तिकारी सः देशसेवां कुर्वन् भारतमातुः पादतले स्वजीवनपुष्पं समर्पितवान् । 

सम्भाषणसन्देश:, डिसेम्बर १९९४

परेषां दु:खं महत्।

केरलराज्यस्य कस्मिंश्चित् ग्रामे कृष्णः नाम प्रसिद्धः चित्रकारः वसति स्म । तस्य कुटुम्बं लघु । तत्र तस्य माता, पत्नी, पुत्रद्वयं च आसीत् । ते धनिकाः तु न आसन् । चित्रकलया कृष्णः यावत् धनं सम्पादयति तावत् तेषां जीवनार्थं पर्याप्तं भवति स्म ।

एकस्मिन् दिने रात्रौ सर्वे शयनं कृतवन्तः आसन् । तदा ते पार्श्वगृहतः आक्रन्दनं श्रुतवन्तः । कृष्णः झटिति उत्थाय बहिः आगत्य दृष्टवान् । पार्श्वगृहं अग्निना ज्वलत् आसीत् । गृहस्य अन्तः अग्नेः ज्वाला सर्वत्र प्रसृता आसीत् । गृहस्य अन्त: शिशुद्वयम् अस्ति इति सः ज्ञातवान् । गृहं प्रवेशः कष्टकरः आसीत् । तथापि कृष्णः झटिति अग्नेः मध्ये एव गृहं प्रविश्य शिशुद्वयमपि बहिः आनीतवान् । अग्नौ एव गतवान् इति कारणेन तस्य शरीरं पूर्ण दग्धम् आसीत् । चिकित्सालयं प्रति नयनात् पूर्वमेव सः दिवङ्गतः ।

तस्य परोपकारगुणं सर्वे जनाः श्लाघितवन्त: । केरलस्य प्रसिद्ध-पत्रिकायाः मातृभूम्याः व्यवस्थापकः एतं विषयं ज्ञात्वा तस्य कुटुम्बस्य साहाय्यं कर्तुम् इष्टवान् । पत्रिकायां प्रकटनद्वारा धनसाहाय्यं कर्तुं जनान् प्रार्थितवान् । केषुचित् दिनेषु एव चतुर्विंशतिसहस्रं रूप्यकाणि (रू. २४,०००) सङ्गृहीतानि ।

पत्रिकायाः व्यवस्थापकः तत् धनं स्वीकृत्य मित्रैः सह कृष्णस्य गृहं गतवान् । कृष्णस्य पत्नी तान् स्वागतीकृतवती । पश्चात् अन्तः गत्वा श्वश्रूम् आहूतवती । श्वश्रूः आगत्य तेषां कुशलवार्ता विचारितवती ।

सः व्यवस्थापकः कृष्णस्य प्रशंसां कुर्वन् "अम्ब ! भवत्या पुत्रः  परोपकारार्थं प्राणान् एव अर्पितवान् अस्ति । वयं तु भवत्याः पुत्रशोकं दूरीकर्तुं न शक्नुमः । तथापि भवताम् अग्रिमजीवने साहाय्यं भवतु इति किञ्चित् धनं सङ्गृह्य आनीतवन्तः स्मः । कृपया एतत् धनं स्वीकरोतु" इति वदन् धनस्यूतं तस्याः पुरतः स्थापितवान् ।

तदा सा तत् धनम् अस्वीकुर्वती उक्तवती - "भोः, पुत्रस्य मरणं यावत् पीडयति ततोऽप्यधिकं प्रतिवेशिनां कष्टं मां पीडयति । अस्माकं तु वासार्थं गृहम् अस्ति । तेषां तदपि नास्ति । अतः कृपया भवन्तः एतेन धनेन तेषां निमित्तम् एकं गृहं निर्माय यच्छन्तु" इति ।

मातुः वचनं श्रुत्वा पत्रिकायाः व्यवस्थापकः स्तब्धः अभवत् ।

सम्भाषणसन्देश:, नोव्हेंबर १९९४

कर्तव्ये तृणायते कष्टम्।

पूर्व गढवालप्रदेशं सोमनाद्रिः नाम राजा पालयति स्म। तदा यवनाः गढवालराज्यं आक्रम्य जेतुं प्रयत्नं कृतवन्तः। किन्तु ते सफलाः न अभवन्।

सोमनाद्रेः सकाशे एकः उत्तमः अश्वः आसीत्। सः अश्वः युद्धे सोमनाद्रेः बहु साहाय्यं करोति स्म। एवं सोमनाद्रेः जये अश्वस्य अपि महत् पात्रम् आसीत्। एतं विषयं यवनाः ज्ञातवन्तः। ते समयं प्रतीक्षमाणाः कदाचित् तम् अश्वम् उपायेन अपहृतवन्तः।

अश्वस्य अपहरणम् अभवत् इति विषयं ज्ञात्वा सोमनाद्रिः चिन्ताक्रान्तः अभवत्। "यः अश्वं प्रत्यानयति तस्मै विशिष्टम् उपायनं ददामि" इति सोमनाद्रिः उद्घोषणं कृतवान्।

सोमनाद्रे: सैन्ये कश्चित् युवकः सैनिकः आसीत्। सः मूर्तिमान् पराक्रमः इव आसीत्। 'राज्ञः अश्वः कथञ्चित् प्रत्यानेतव्यः' इति सः सङ्कल्पं कृतवान्। अनन्तरं सः कर्मकरस्य वेषं धृत्वा हरिततृणानां बन्धं शिरसि धृत्वा यवनानां निवासस्य दिशि प्रस्थितवान्।

अश्वानां निमित्तं तृणं विक्रेतुम् आगतः इव सः यवनानां वसतिं प्रविष्टवान्। अन्तः गत्वा सोमनाद्रेः अश्वः कुत्र अस्ति इति अन्विष्टवान्। सायङ्कालपर्यन्तं तृणं विक्रीणानः इव तत्रैव अटितवान्।

योग्यसमये अश्वशालां प्रविश्य सः अश्वानां निमित्तं स्थापिते तृणराशौ आत्मानं गोपितवान्। तावति काले सः अश्वः बन्धन-रज्जुम् आकृष्य कीलम् उत्पाटितवान्। तत् दृष्ट्वा कश्चित् यवनसैनिकः उन्मूलितं कीलं पुनः भूमौ दृढं स्थापयितुम् भूमौ कीलं संस्थाप्य दृढं ताडनम् आरब्धवान् ।

किन्तु यत्र सः कीलं संस्थाप्य ताडयन् आसीत् तत्रैव सैनिकस्य हस्तः आसीत् । कीलः हस्तं विदार्य भूमेः अन्तः गतः । यद्यपि महती वेदना तेन सैनिकेन अनुभूता, तथापि सः कर्तव्यं स्मरन् किञ्चिदपि शब्दं न कृतवान्, न वा कम्पितवान्

कीलं दृढ संस्थाप्य यवनसैनिकः गतवान्। किञ्चित्समयानन्तरं सः सैनिकः प्रयत्नेन स्वहस्तं कीलात् प्रतिस्वीकृतवान्। तस्य हस्ततः रक्तं प्रवहत् आसीत् । तथापि एकेनैव हस्तेन अश्वं विमोच्य तस्य उपरि आरोहणं कृतवान्। अश्वं पुनः सोमनाद्रेः वसतिप्रदेशं वेगेन नीतवान् च।

रक्तमयहस्तेन आगतं सैनिकं सोमनाद्रिः आश्चर्येण दृष्टवान्। विषयं ज्ञात्वा तम् अभिनन्दितवान्। तस्य सैनिकस्य स्वामिभक्तिं सर्वे जनाः प्रशंसितवन्तः । राजा सोमनाद्रिः साहसमयकार्यार्थं तस्य सम्माननं कृत्वा तस्मै अमूल्यानि उपायनानि दत्तवान्।

सः वीरः सैनिकः एव "हनुमनायकः" नाम ।

सम्भाषणसन्देश:, नोव्हेम्बर १९९४ 


सिंहविजेता पृथ्वीसिंह:।

औरङ्गजेबः सिंहप्रियः । तदीये प्राणिसङ्ग्रहालये विविधप्रदेशेभ्यः आनीताः सिंहाः आसन्। तेषु कश्चन सिंहः बलवत्तमः आसीत्। तस्मिन् सिंहे औरङ्गजेबस्य विशेषप्रीतिः। 'मम सामर्थ्यस्य प्रतीकम् एषः' इति भावयति स्म सः।

कदाचित् औरङ्गजेबः राज्ञा जसवन्तसिंहेन सह विहारार्थं गतः प्राणिसङ्ग्रहालयसमीपम् अपि गतवान्। स्वस्य प्रीतिपात्रं सिंहं प्रदर्शयन् अभिमानेन उक्तवान् सः -"मदीय: एषः सिंहः बलेन अद्वितीयः अस्ति। एतत्सदृशः बलवान् सिंहः लोके अन्यः नास्ति" इति।

तदा राजा जसवन्तसिहः उक्तवान् -"महाराज ! एतादृशः न, इतोऽपि बलवत्तरः सिंहः मत्समीपे अस्ति"  इति।

एतत् वचनम् अपमानकरम् अमन्यत औरङ्गजेबः। सः असन्तोषेण उक्तवान् "असम्भवम् एतत् । एतादृशः सिंहः लोके अन्यः भवितुं न अर्हति" इति।

तदा अपि जसवन्तसिंहः शान्तेन, किन्तु दृढेन स्वरेण उक्तवान् "मत्समीपे विद्यमानः सिंहः निश्चयेन इतोऽपि श्रेष्ठतरः" इति।

तदा औरङ्गजेबः कोपेन उक्तवान् -"जसवन्तसिंह ! तर्हि सिंहयोः परीक्षा भवतु। यदि भवतः सिंहः बलवत्तरः स्यात् तर्हि सः रक्तपिपासायुक्तं मम सिंहं सम्मुखीकरोतु। यदि भवतः सिंहस्य पराजयः भविष्यति तर्हि भवतः शिरः भूमौ पतिष्यति' इति।

जसवन्तसिंहः एतत् अङ्गीकृतवान् । अनन्तरदिने देहलीनगरस्य विशाले अङ्गणे सिंहयोः युद्धार्थं विशालं पञ्जरं स्थापितम्। सिंहयोः पराक्रमं द्रष्टुम् औरङ्गजेबः स्वयम् उपस्थितः आसीत्। बहवः जनाः अपि तत्र सम्मिलिताः आसन्।

युक्तसमये पृथ्वीसिंहनामकेन दशवर्षीयेण स्वपुत्रेण सह तत्र उपस्थितः अभवत् जसवन्तसिंहः।औरङ्गजेबः तं पृष्टवान् "भवतः सिंहः कुत्र ?" इति।

तदा जसवन्तसिंहः दशवर्षीयं स्वपुत्रं दर्शयन् उक्तवान् "मम सिंहः एषः एव। शक्तिपरीक्षारम्भः भवतु तावत्" इति।

भटाः औरङ्गजेबस्य आज्ञानुसारं पञ्जरे सिंहं बन्धविमुक्तं कृतवन्तः। बालकः पृथ्वीसिंहः आत्मविश्वासेन धैर्येण च एकैकं पदं दृढतया स्थापयन् सिंहसमीपं गतवान्। तस्य उग्रा दृष्टिः सिंहं दहति स्म इव।

वीरबालकस्य उग्रदृष्टिं सोढुम् अशक्नुवन् सिंहः भीतः सन् पुच्छम् अवनमय्य पृष्ठतः पदानि अस्थापयत्। भटाः सिंहं शूलेन चोदयन्तः पुनरपि अग्रभागं प्रति प्रेषितवन्तः। भटानां शूलपीडातः सिंहस्य क्रोधः प्रवृद्धः। सः बालकस्य उपरि आक्रमणार्थम् उद्युक्तः अभवत्।

झटति पार्श्वे अपसृत्य सिंहस्य हठात् आक्रमणात् आत्मानं रक्षन् पृथ्वीसिंहः सिंहं मारयितुं हस्तेन खड्गं गृहीतवान्।

तावता तेन जसवन्तसिंहस्य वीरगर्जनं श्रुतम्- "वत्स ! अलं खड्गप्रहारेण" इति। सर्वे आश्चर्येण जसवन्तसिंहं दृष्टवन्तः। बालकः पृथ्वीसिंहः अपि कटाक्षेण पितरं दृष्टवान्।

तदा जसवन्तसिंहः पुनः अवदत् "वत्स ! सिंहः निरायुधः। निरायुधेन सह आयुधेन युद्धं न उचितम्। अन्याय्यम् एतत्" इति।

पृथ्वीसिंहः खड्गं पार्श्वे अक्षिपत् । मूर्तिमान् पौरुषः इव शौर्येण गर्जन् सः सिंहं दंष्ट्रे गृहीतवान् । क्षणाभ्यन्तरे एव सः सिंहं विदार्य अक्षिपत्।

रक्तरञ्जितदेहः पृथ्वीसिंहः पञ्जरात् बहिः आगतवान्। जसवन्तसिंहः धावन् गत्वा पुत्रं प्रेम्णा अभिमानेन च आलिङ्गितवान्।

जनाः सर्वे सन्तोषेण करताडनं कुर्वन्तः 'जयतु जयतु, पृथ्वीसिंहः' इति जयघोषं कृतवन्तः।

सम्भाषणसन्देश:, ऑक्टोबर १९९४


अर्हतासम्पादनार्थम्...।

'समर्थेन अधिकारिणा सर्वप्रथमं प्राप्तव्या अर्हता का ?"

"संस्कृताध्ययनम्।"

"केनचित् तत्त्वज्ञानिना पण्डितेन वा प्राप्तव्या अर्हता न पृष्टा मया। वित्तकोष-यन्त्रागारादिषु सर्वकारीय - कार्यालयेषु वा कार्यं कुर्वता अधिकारिणा अवश्यं प्राप्तव्या अर्हता पृष्टा मया।"

"तस्यैव उत्तरं दत्तं मया संस्कृताध्ययनम् इति।"

एतादृशं सम्भाषणं हैदराबादनगरस्थाया: 'ॲड्मिनिस्ट्रेटिव् स्टाफ् कॉलेज् ऑफ् इण्डिया' नामिकायाः संस्थायाः सभाङ्गणे प्रवृत्तम्। प्रष्टा तावत् अत्र प्रशिक्षणं प्राप्तुम् आगतवान्, उच्चपदवीम् अलङ्कुर्वन् अधिकारी कश्चन। उत्तरवक्ता च डॉ. प्रीतमसिङ्ग:, यश्च प्राध्यापकः अस्ति।

डॉ. प्रीतमसिङ्गः बिहारप्रदेशे स्वस्य अध्ययनं समाप्य अमरीकादेशं गत्वा मानवसम्पन्मूलविषयम् अधिकृत्य संशोधनं कृत्वा डाक्टरेट्-पदवीं प्राप्य भारतं प्रत्यागत्य प्राध्यापकत्वेन नियुक्तः सन् बोधनकार्ये मग्नः आसीत्। कदाचित् तस्य कुतूहलम् उत्पन्नं यत् एशियाखण्डे लघुराष्ट्रं जपानदेशः कथम् आश्चर्यजनिकां प्रगतिम् असाधयत् ? इति द्रष्टव्यम् इति। 'लाभप्राप्त्युद्देशमात्रं तस्य प्रगतेः कारणं न स्यात्। अनिर्देश्यं किञ्चन लक्ष्यं प्रायः तत्र कारणं स्यात्। अतः एतद्विषये विशेषाध्ययनं करणीयम्' इति निश्चितवान् डॉ. सिङ्ग:।

एतदनुगुणं तेन काचित् प्रश्नमालिका सज्जीकृता। 'जपानदेशस्य महासंस्थानां प्रमुखैः सह चर्चा करणीया' इति तेन योजना अपि कृता। जपानदेशं गत्वा बहूनां  सन्दर्शनमपि कृतम्।

'मिट्सुयि' काचित् विख्याता संस्था। तस्याः संस्थायाः अध्यक्षः सिङ्गवर्येण प्रार्थितः यत् सन्दर्शनार्थम् अवकाशः कल्पनीयः इति। तेन अध्यक्षेण एषः प्रस्तावः अङ्गीकृतः। सन्दर्शनस्य समयः स्थलं चापि निश्चितम्।

सन्दर्शनावसरे डॉ. सिङ्गेन पृष्टं -"भवतां संस्था उद्यमक्षेत्रे सुविख्याता अस्ति। लक्षशः जनाः अत्र उद्योगं कुर्वन्तः सन्ति। प्रतिवर्षम् असाधारणप्रगतिः साध्यमाना अस्ति अपि। लाभसम्पादनदृष्टिमात्रं प्रगतेः कारणं न स्यात्। उदात्तं लक्ष्यं किमपि स्यात् खलु ?'' इति।

"आम्। तत् अस्ति एव। वयं तान्त्रिकज्ञानं पाश्चात्यदेशेभ्यः प्राप्नुमः। तथैव जीवनसिद्धान्तं च भारतात् प्राप्नुमः" इति तेन अध्यक्षेण उक्तम्।

'भारते ये भ्रष्टाचारदयः सामाजिकदोषाः सन्ति तान् मनसि निधाय एषः भारतम् उपहसन् अस्ति' इति विचिन्त्य डॉ. प्रीतमसिंङ्ग‌महोदयः उक्तवान् - "श्रीमन्, मदीयः देशः निर्धनः स्यात्। अत्र दोषाः अपि स्युः केचन । तथापि एतस्य मम देशस्य निन्दनम् अहं सर्वथा न सहे। यदि इष्यते तर्हि माम् उपहसतु कामम्। किन्तु मम देशस्य विषये लघुवचनं मा वदतु कृपया" इति।

तदा सः अध्यक्षः "तरुणवर ! अन्यथा चिन्तितं भवता। मया भारतस्य उपहासः न कृतः। सत्यम् एव उक्तं मया। तदस्तु, संस्कृतं जानाति वा भवान् ?" इति पृष्टवान्।

"न" इति उक्तवान् डॉ. प्रीतमवर्यः।

"तर्हि एतं श्लोकं प्रथमं लिखतु। अर्थं चापि अवगच्छतु” इति आज्ञास्वरेण उक्त्वा एकं श्लोकं लेखितवान्। स च श्लोकः आसीत्--

न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् । 
कामये दुःखतप्तानां प्राणिनाम् आर्तिनाशनम् ।। 

(प्रत्यक्षीभूय वरं दातुं सिद्धं भगवन्तं वदति रन्तिदेवः नाम राजा "अहं राज्यं न इच्छामि। स्वर्गं न इच्छामि। मोक्षम् अपि न इच्छामि। 'दुःखतप्तानां सर्वेषां जीविनां कष्टम् अपगतं भवतु' एतावन्मात्रम् एव इच्छामि" इति।)

"एषः श्लोकः एव अस्माकं ध्येयवाक्यम्। अत्र प्रतिपादितः सिद्धान्तः एव अस्माकं प्रगतेः मार्गस्य दर्शकः अस्ति" इति उक्तवान् सः वृद्धः अध्यक्षः।

एतस्याः घटनायाः अनन्तरं डॉ. प्रीतमवर्यः संस्कृताध्ययनम् आरब्धवान्। सः वदति -'संस्कृताध्ययनं बुद्धिं तीक्ष्णां करोति। सयुक्तिक-चिन्तनार्थम् आनुकूल्यं कल्पयति। जीवनस्य सार्थकतासम्पादने उपकरोति अपि' इति।

सः पुनः पृच्छति - "पूर्वोक्ताः अर्हताः समर्थे अधिकारिणि अवश्यं भवेयुः एव खलु ?" इति।

सम्भाषणसन्देश:, ऑक्टोबर १९९४

किं स्वर्गसुखेन ?

मुद्गलः कश्चन महर्षिः । उञ्छवृत्त्या जीवति स्म सः । उञ्छवृत्तिः नाम कृषिकाणां क्षेत्रेषु यानि धान्यानि पतितानि भवन्ति तेषां सङ्ग्रहतः जीवनयापनम् । एवम् उञ्छवृत्त्या प्राप्तात् धान्यात् सः अतिथीनां सत्कारं करोति स्म । उञ्छवृत्त्या धान्यं न लब्धं चेत् परिश्रमेण वा सम्पाद्य अतिथीन् सत्करोति स्म सः ।

दूर्वासाः मुद्गलस्य चित्तवृत्तेः परीक्षां कर्तुम् इच्छन् षड्वारं मृगलस्य आश्रमम् आगतवान् । तेषु सर्वेषु सन्दर्भेषु मुद्गलस्य एव जयः अभवत् ।

एषा वार्ता देवैः ज्ञाता । सन्तुष्टाः ते मुद्गलं स्वर्ग प्रति आनेतुं विमानं प्रेषितवन्तः ।

स्वर्गं प्रति नेतुम् आगतान् देवदूतान् पृष्टवान् मुद्गलः "स्वर्गे किम् अस्ति ?" इति । 

"किम् अस्ति इति ! सकलानि भोगभाग्यानि तत्रैव सन्ति । कल्पवृक्षः कामधेनुः च स्वर्गे एव स्तः । अत्र भवता यथा उञ्छवृत्तिः क्रियते तथा तत्र करणीयं नास्ति एव । देहश्रमः करणीयः एव नास्ति । केवलं स्वर्गसुखम् अनुभूयते तत्र" इति उक्तवन्तः देवदूताः ।

तदा मुद्गलः दृढस्वरेण उक्तवान् "स्वर्गे परिश्रमस्य अवकाशः एव नास्ति वा ? तर्हि भवतां स्वर्गः मास्तु मम । अहम् अत्रैव तिष्ठामि । परिश्रमात् यः आनन्दः प्राप्यते सः स्वर्गसुखात् अपि श्रेष्ठतरः" इति ।

सम्भाषसन्देश:, सप्टेम्बर १९९४

स्वाभिमानी छात्र:।

एकवारं वर्गे कलायस्य शिम्बाः भूमौ पतिताः आसन् । ताः दृष्ट्वा अध्यापकस्य कोपः आगतः । कोपेन अध्यापकः "कः अत्र शिम्बाः पातितवान् ?" इति पृष्टवान् । तदा सर्वे विद्यार्थिनः भयेन परस्परं मुखं दृष्टवन्तः ।

पुनः अध्यापकः "सत्यं वदन्तु ,कः कलायं खादित्वा अत्र वर्गे शिम्बाः स्थापितवान् ?" इति पृष्टवान् ।

कृतं दोषम् अङ्गीकर्तुं कोऽपि सिद्धः न आसीत् । अध्यापकः कोपं सोढुम् अशक्नुवन् 'सर्वे दण्डनीयाः' इति  निश्चितवान् । "सर्वे उत्थाय स्वहस्तं प्रसारयन्तु" इति सूचितवान् च ।

सर्वे उत्थाय हस्तं प्रसारितवन्तः । तेषु एकः हस्तं न प्रसारितवान् । अध्यापकः महता कोपेन तं पृष्टवान् "भवान् किमर्थं हस्तं न प्रसारितवान् ?' इति । 

तदा सः धैर्येण उक्तवान् - "अहं हस्तं न प्रसारयामि । यतः अहं कलायं न खादितवान्" इति ।

अध्यापकः तस्य उत्तरं श्रुत्वा क्रोधेन उक्तवान् - "एव तर्हि यः पातितवान् तस्य नाम वदतु" इति ।

 तदा बालकः उक्तवान् " अहं पिशुनः न । अतः कस्यापि नाम न वदामि । ताडनम् अपि न स्वीकरोमि" इति ।

तदा अध्यापकस्य कोपः द्विगुणितः जातः । स उक्तवान् "भवान् मम वर्गे न उपविशतु । बहिर्गच्छतु" इति ।

तदापि बालकः किञ्चिदपि भयम् अप्रदर्शयन् पुस्तकं स्वीकृत्य बहिः गतवान् ।

एषः अन्यः कोऽपि न, अपि तु भारतीयानां हृदयसिंहासने इदानीम् अपि विराजमानः लोकमान्यः बालगङ्गाधरतिलकमहोदयः ।

सम्भाषणसन्देश:, सप्टेम्बर १९९४

नमो गुणनिधये।

 "श्रीमन् ! अहं कश्चन यात्रिकः। ऐदम्प्राथम्येन एतं देशम् आगतवान् अस्मि । एतस्य देशस्य प्रधानामात्यः द्रष्टव्यः इति मम इच्छा । कृपया तस्य वासस्थलं प्रति भवान् मां नेतुं शक्नुयात् वा ?" इति अभिमुखम् आगच्छन्तं कञ्चित् वृद्धं पृष्टवान् कश्चन विदेशीयः।
"अवश्यं नेष्यामि । माम् अनुसरतु तावत्" इति उक्त्वा ततः प्रस्थितवान् सः वृद्धः । विदेशीयः यात्रिकः तम् अनुसृतवान् ।

तस्य विदेशीयस्य नाम ह्यूयेन्त्साङ्ग: इति । सः मौर्यवंशीयानां राजधान्याः पाटलीपुत्रस्य ख्यातिं बहुधा श्रुतवान् आसीत् । 'जगद्विख्यातः असाधारणपाण्डित्यवान्, साहसी, महाबुद्धिमान् चाणक्यः प्रत्यक्षं द्रष्टव्यः' इति तस्य प्रबला इच्छा आसीत् । अतः एव सः पाटलीपुत्रम् आगत्य चाणक्यम् अन्विष्यन् गङ्गातीरं गतवान् आसीत् । तत्र केचन स्नानं कुर्वन्तः आसन् । पुनः केचन सन्ध्यावन्दनमग्ना: आसन् । अन्ये केचन मन्त्रपठनरताः आसन्।

 'कं पृच्छामि चेत् मम इष्टार्थः सिद्ध्येत् ?' इति चिन्तयन् ह्यूयेन्त्साङ्गः क्षणकालं तत्रैव स्थितवान् आसीत्।  अल्पे एव काले सर्वे स्वकर्तव्यं समाप्य एकैकशः निर्गताः। अन्ते कृष्णवर्णीयः कृशकायः कश्चन वृद्धः अवशिष्टः। सः अपि यदा ततः प्रस्थितः तदा तं चाणक्यवसतिविषये पृष्टवान् आसीत् ह्यूयेन्त्साङ्गः ।

गङ्गातीरतः निर्गतौ तौ नगरभागम् अतिक्रम्य अरण्यभागं प्रविष्टवन्तौ । तदा ह्यूयेन्त्साङ्गस्य मनसि कश्चन सन्देहः आगतः 'एषः वृद्धः माम् अन्यत्र कुत्रापि नयन् न स्यात् खलु ?' इति । तथापि सः किमपि अवदन् मौनं वृद्धम् अनुसरन् आसीत् ।

अल्पे एव काले तौ एक कुटीरं प्राप्तवन्तौ। वृद्धः कुटीरस्य द्वारम् उद्घाट्य अन्तः गतवान्। ह्यूयेन्त्साङ्गः बहिः एव स्थितवान् । किञ्चित्कालानन्तरम् अपि वृद्धः यदा बहिः न आगतः तदा ह्यूयेन्त्साङ्गः तम् उद्दिश्य उच्चस्वरेण पृष्टवान् "आर्य ! मम प्रार्थना विस्मृता वा भवता ?" इति।

तदा सः वृद्धः बहिः आगत्य विनयेन "बन्धुवर्य । भवतः प्रार्थना न विस्मृता मया। मौर्यसाम्राज्यस्य प्रधानामात्यः अहं भवन्तं स्वागतीकुर्वन् अस्मि । कृपया अन्तः आगच्छतु तावत्" इति उक्तवान् ।यात्रिकः ह्यूयेन्त्साङ्गः आश्चर्यम् अनुभवन् अन्तः गत्तवान् । 

कुटीरे वैभवद्योतकानि वस्तूनि सर्वथा न आसन् । एकत्र जलकलशः, अपरत्र समिधः काष्ठानि च । अन्यत्र कटः, लेखनसामग्र्य:, केचन ग्रन्था: च तत्र दृश्यन्ते स्म ।
चाणक्यस्य प्रार्थनाया: अनुगुणं ह्यूयेनत्साङ्ग: कटे उपविष्टवान् । तस्य मनसि इतोऽपि सन्देहः आसीत् एव 'वानप्रस्थाश्रमी एषः असत्यं वदन् स्यात् वा?' इति ।

तस्मिन् एव समये सम्राट् चन्द्रगुप्तः सेनाधिकारिभिः सह आगत्य कुटीरं प्रविश्य वृद्धं नमस्कृतवान् ।
तं दृष्ट्वा चाणक्यः "वत्स । राजकार्यविषये चर्चयितुम् इदानीं मम समयः नास्ति । एषः विदेशीयः यात्रिकः अतिथित्वेन आगतः अस्ति। अतः इदानीम् एतं नीत्वा अतिथिगृहे वासार्थं व्यवस्थां कारयतु। श्वः सायङ्काले पुनः एतम् अत्र आनयतु" इति चन्द्रगुप्तम् उक्त्वा ह्यूयेन्त्साङ्गं चन्द्रगुप्तेन सह प्रेषितवान् ।

अनन्तरदिने सायं ह्यूयेन्त्साङ्गः चन्द्रगुप्तः च चाणक्यस्य कुटीरम् आगत्य अन्तः प्रविष्टवन्तौ। चाणक्यः तत्काले गाम्भीर्येण किमपि चिन्तयन् लिखन् उपविष्टवान् आसीत् । पुरतः दीपः ज्वलन् अस्ति। चन्द्रगुप्तः ह्युयेन्त्साङ्गः च कटे उपविष्टवन्तौ । किञ्चित्कालानन्तरं चाणक्यः लेखनं स्वगयित्वा पुरतः स्थितं दीपं निर्वाप्य अपरं दीपं प्रज्वाल्य ह्यूयेन्त्साङ्गं पृष्टवान् - "मित्रवर! अस्माकं देशः किं भवते अरोचत ? अस्माकं देशस्य विषये भवतः अभिप्रायः कः ?" इति ।

"अत्र सर्व विचित्र विलक्षण च" इति उक्तवान् ह्यूयेन्त्साङ्गः । "तादृशम् अत्र कि दृष्टं भवता ?" इति पृष्टवान् चाणक्यः । "ज्वलन्तं दीपं निर्वाप्य अपरः दीपः प्रज्वाल्यते खलु ? इतोऽपि विचित्रतरं लोके अन्यत् किं स्यात् ?" इति उक्तवान् ह्यूयेन्त्साङ्गः ।

तदा चाणक्यः मन्दहासपूर्वकम् उक्तवान् "मित्रवर ! अत्र व्यवहारे विलक्षणता का अस्ति ? सर्वं न्यायोचितम् अस्ति। भवान् यदा अत्र आगतवान् तदा अहं राजकार्ये मग्न: आसम् । अतः भाण्डागारधनात् क्रीतस्य तैलस्य उपयोगेन दीपः ज्वालितः आसीत् । किन्तु इदानीं भवता सह यत् सम्भाषणं क्रियते तत् वैयक्तिकम् । अतः मदीयं दीपं ज्वालितवान् अस्मि" इति।

एतत् श्रुत्वा ह्यूयेन्त्साङ्गः अत्याश्चर्यम् अनुभवन् 'नमो गुणनिधये । नमो धर्ममूर्तये।' इति वदन् चाणक्यं साष्टाङ्गं नमस्कृतवान् ।

सम्भाषणसन्देश:, सप्टेम्बर १९९४