एकवारं वर्गे कलायस्य शिम्बाः भूमौ पतिताः आसन् । ताः दृष्ट्वा अध्यापकस्य कोपः आगतः । कोपेन अध्यापकः "कः अत्र शिम्बाः पातितवान् ?" इति पृष्टवान् । तदा सर्वे विद्यार्थिनः भयेन परस्परं मुखं दृष्टवन्तः ।
पुनः अध्यापकः "सत्यं वदन्तु ,कः कलायं खादित्वा अत्र वर्गे शिम्बाः स्थापितवान् ?" इति पृष्टवान् ।
कृतं दोषम् अङ्गीकर्तुं कोऽपि सिद्धः न आसीत् । अध्यापकः कोपं सोढुम् अशक्नुवन् 'सर्वे दण्डनीयाः' इति निश्चितवान् । "सर्वे उत्थाय स्वहस्तं प्रसारयन्तु" इति सूचितवान् च ।
सर्वे उत्थाय हस्तं प्रसारितवन्तः । तेषु एकः हस्तं न प्रसारितवान् । अध्यापकः महता कोपेन तं पृष्टवान् "भवान् किमर्थं हस्तं न प्रसारितवान् ?' इति ।
तदा सः धैर्येण उक्तवान् - "अहं हस्तं न प्रसारयामि । यतः अहं कलायं न खादितवान्" इति ।
अध्यापकः तस्य उत्तरं श्रुत्वा क्रोधेन उक्तवान् - "एव तर्हि यः पातितवान् तस्य नाम वदतु" इति ।
तदा बालकः उक्तवान् " अहं पिशुनः न । अतः कस्यापि नाम न वदामि । ताडनम् अपि न स्वीकरोमि" इति ।
तदा अध्यापकस्य कोपः द्विगुणितः जातः । स उक्तवान् "भवान् मम वर्गे न उपविशतु । बहिर्गच्छतु" इति ।
तदापि बालकः किञ्चिदपि भयम् अप्रदर्शयन् पुस्तकं स्वीकृत्य बहिः गतवान् ।
एषः अन्यः कोऽपि न, अपि तु भारतीयानां हृदयसिंहासने इदानीम् अपि विराजमानः लोकमान्यः बालगङ्गाधरतिलकमहोदयः ।