Showing posts with label सम्भाषणसन्देश: २०१८. Show all posts
Showing posts with label सम्भाषणसन्देश: २०१८. Show all posts

उपयोगिता।

कश्चन दारुहारः स्वपौत्रेण सह काष्ठ-कर्तनार्थं वनं गतवान् । वने विभिन्नाकाराः वृक्षाः आसन् । पौत्रस्य तत् प्रथमं वनगमनम् आसीत् इत्यतः सः दारुहारः तेषां विषये पौत्रं बोधयन् आसीत् । सः अवदत् "पश्य ! एषः स्थूलः वृक्षः । एतस्य काष्ठेन काष्ठफलकानि निर्मीयन्ते । तैः फलकैः द्वाराणि, उत्पीठिकाः, काष्ठभित्तिकाः इत्यादयः निर्मीयन्ते ।"

"एते वक्राः वृक्षाः अपि उपयोगिनः भवन्ति किम् ?" - पौत्रः अपृच्छत् ।

"आम्। निश्चयेन । एतादृशानां वृक्षाणां काष्ठैः नौकायाः बाह्यानि वक्राङ्गानि निर्मायन्ते" इति अबोधयत् पितामहः । किञ्चिद्दरे स्थितान् उन्नतान् वृक्षान् दर्शयन् सः पौत्रम् अवदत् "एतैः उन्नतैः वृक्षैः नौकायां यः दिङ्नियन्त्रकः स्तम्भः भवति सः, ध्वजस्तम्भः वा निर्मास्यते" इति ।

"आम्" इति सम्मतिं दर्शितवान् पौत्रः। स च अग्रे विद्यमानं कश्चित् वृक्षं दृष्ट्वा पितामहं पृष्टवान् -"एषः वृक्षः न स्थूलः, न वा वक्रः, न च उन्नतः। एतस्य उपयोगः नौकानिर्माणार्थं भवितुं न अर्हति । अतः एतं वृक्षं किम् इन्धनार्थं कर्तयेव ?" इति ।

तस्य स्कन्धे हस्तं स्थापयित्वा दारुहारः अवदत् -"आदौ तं स्थूलं शुष्कं वृक्षं कर्तयेव । अनन्तरं चिन्तयेव अस्य विषये" इति । अस्तु इति पौत्रः अङ्गीकृतवान् । स्थूलवृक्षं कर्तयित्वा श्रान्तः पौत्रः विश्रान्तिम् इच्छन् पितामहं प्रार्थितवान् 'उप-विशाव किञ्चित्' इति ।

पितामहः तं पुनः तेन दर्शितस्य वृक्षस्य समीपं नीत्वा छायायाम् उपवेशितवान् । किञ्चित् विश्रम्य सः पौत्रम् उक्तवान् "पश्य ! एषः वृक्षः निरुपयोगी इति मत्त्वा इन्धनार्थं कर्तयेव इति त्वया उक्तम् आसीत् । किन्तु अधुना तस्य छायायाम् एव विश्रान्तिं प्राप्तवान् खलु त्वम् । अतः सर्वदा त्वया स्मर्तव्यं यत् कस्य अपि वस्तुनः इव जनस्य अपि उपयोगिता निरुपयोगिता वा सहसा न निर्णेतव्या इति । कस्मिन् कीदृशाः गुणाः सन्ति, ते च कथम् उपकारिणः भवेयुः इति गच्छता कालेन अनुभवेन च ज्ञायेरन्। अतः कोऽपि जनः वस्तु वा क्षणेन न उपेक्षणीयम्" इति ।

सम्भाषणसन्देशः, ऑगस्ट २०१८


सुवर्णनाणकम्।

पूर्वं कश्चन वणिक् निवसति स्म । कदाचित् तन्नगरस्थः धनिकः तम् आहूय उक्तवान् "भवान् तु महाबुद्धिमान् । किन्तु भवतः पुत्रः तु नितरां मूर्खः । एवं किमर्थम् ? तं सम्यक् बोधयतु।"

वणिक् पृष्टवान् - "कः आशयः भवतः ?"

तदा धनिकः "सुवर्णरजतयोः कस्य मूल्यम् अधिकम् इत्यपि यः न जानाति सः किं महामूर्खः न ?" इति उक्त्वा उच्चैः हसितवान् ।

नितरां खिन्नः वणिक् गृहं गत्वा पुत्रं पृष्टवान् -"सुवर्णरजतयोः कस्य मूल्यम् अधिकम् ?'"

पुत्रः उक्तवान् - "सुवर्णस्य" इति ।

तत् श्रुत्वा विद्वान् साश्चर्यम् अवदत् - "त्वं तु जानासि एव - कस्य मूल्यम् अधिकम् इति । किन्तु धनिकः वदति- त्वं तत् न जानासि इति । धनिकस्य पुरतः किमर्थं मूर्खताम् आचरसि ?" इति ।

तदा पुत्रः उक्तवान् - "मम विद्यालयगमनमार्गे एकं सुविशालं हर्म्यम् अस्ति। प्रातः विद्यालयं यदा गच्छामि तदा धनिकः अन्यैः श्रेष्ठिभिः प्रतिष्ठितैः च सह तत्र चर्चायां मग्नः भवति । माम् आहूय एकस्मिन् हस्ते सुवर्णनाणकम्, अपरस्मिन् हस्ते रजतनाणकं च गृहीत्वा - 'इतः अधिकमूल्यवत् नाणकं स्वीकुरु' इति वदति । अहं रजतनाणकं स्वीकरोमि । तदा सर्वे उच्चैः हसन्ति इति ।

पुत्रस्य कथनं श्रुत्वा कुपितः वणिक् उक्तवान् "किं त्वं मूर्खेऽसि ? कुतः एवम् आचरसि ? एतेन तव आचरणेन अहम् उपहासपात्रं भवामि । किं साधयसि अनेन ?" इति ।

पुत्रः पितुः हस्तं गृहीत्वा अन्तः नीत्वा एकां पेटिकां दर्शितवान् । सा पेटिका रजतनाणकैः पूर्णा आसीत् । तस्य दर्शनात् धनिकः विस्मितः अभवत् ।

तदा पुत्रः अवदत् - "मम व्यवहारात् प्रतिदिनं तत्रत्याः सर्वे विनोदं प्राप्नुवन्ति । किन्तु अहं तु प्रतिदिनम् एकं नाणकं प्राप्नोमि । रजतनाणकं सुवर्णनाणकात् अपि मूल्यवत् भवति इति वदन्तः उपहसन्ति ते। उपहसन्तु नाम ते। किं तेन मम ? यस्मिन् दिने अहं सुवर्णनाणकं स्वीकुर्यां तस्मिन् दिने एषा क्रीडा समाप्ता भवेत् । तेषां दृष्ट्या यदा अहं बुद्धिमान् भवेयं तदा मया एकं सुवर्णनाणकमात्रं प्राप्येत । इदानीं तु तेषां मुखात् मूर्खः इति वचनं श्रृण्वन् अहम् एतावत् धनं प्राप्तवान् । लाभः कुत्र इत्यस्य अवगमनं प्रमुखं भवति, न तु बुद्धिमान् इति वचनस्य श्रवणम् । एवं ननु ?' इति ।

अल्पे एव वयसि पुत्रेण प्राप्तं चातुर्यं दृष्ट्वा पिता नितरां सन्तुष्टः अभवत् ।

सम्भाषणसन्देश:, सप्टेम्बर २०१८

राष्ट्रभक्त: बाल:।

आङ्ग्लशासनं यदा प्रचलति स्म तदा प्रवृत्ता घटना एषा । काचित् कक्ष्या । अध्यापकः न आसीत् कक्ष्यायाम् । अतः छात्राः कोलाहलं कुर्वन्तः आसन् । तस्यां कक्ष्यायां कश्चन विदेशीयः बालः अपि पठति स्म । कोलाहलावसरे अनवधानवशात् तस्य विदेशीयबालकस्य पादः अन्यस्य बालकस्य पादेन स्पृष्टः अभवत् । तस्मात् सः आङ्ग्लबालः क्रुद्धः । तत् दृष्टवान् सः पादस्पर्शकृत् बालः क्षमाम् अयाचत् । तथापि विदेशीयबालकस्य क्रोधः न उपशान्तः । सः तिरस्कारेण "भवन्तः भारतीयाः सर्वे गर्दभाः" इति वदन् भारतीयान् बहुधा अनिन्दत् ।

तावता अध्यापकः कक्ष्याम् आगतवान् । सर्वे छात्राः तूष्णीं स्थितवन्तः । अध्यापकः पाठनम् आरब्धवान् ।

मध्याह्ने भोजनसमये सर्वे छात्राः भोजनाय प्रस्थितवन्तः । तदवसरे कश्चन राष्ट्रभक्तः बालकः आङ्ग्लबालकसमीपं गत्वा गाम्भीर्येण अवदत् - "अद्य कक्ष्यायाम् एकेन बालकेन कृतस्य दोषस्य निमित्तं भवता समग्रः अस्मद्देशः एव निन्दितः बहुधा। एतत् न उचितम्"

"आङ्ग्‌लानाम् अस्माकं दासाः भवन्तः । दासकुले जातस्य तव एतावत् धाष्ट्यं कथं स्यात् ? किं कुर्याः त्वम्...? अहम् इतोऽपि निन्दामि त्वां, तव देशं, तव देवान्, युस्माकम् आचरणानि च । शुनकाः यूयम्.." अवदत् आङ्ग्लबालकः ।

"स्थगय निन्दनम् !!" - क्रोधेन अगर्जत् सः राष्ट्रभक्तः बालकः ।

"आङ्ग्लाः वयं स्वामिनः । निन्दने अस्ति अस्माकम् अधिकारः। दासाः यूयं तूष्णीं तिष्ठेत । पादप्रहारः अपि मौनेन सोढव्यः युष्माभिः ।..."

"किं वदसि ?" इति पृच्छन् सः राष्ट्रभक्तः बालकः तम् आङ्ग्लबालकं नुत्त्वा भूमौ पातयित्वा तस्य उरसि उपविश्य अवदत् "रे ! इतः परम् एकं भारतनिन्दावचनं तव मुखात् यदि निर्गच्छेत् तर्हि तव प्राणाः रक्षिताः न भवेयुः । भवतां दुराचारः अत्र दीर्घकालं न प्रचलेत् । भवतां निर्गमनकालः सन्निहितः ।...." इति ।

आङ्ग्लबालेन सः मुष्ट्या ताडितः । तदा राष्ट्रभक्तः बालः मुष्ट्या तं बलात् मुखे अताडयत् । आङ्ग्लबालस्य मुखात् रक्तं निर्गतम् । 'त्यज रे ! त्यज ।' इति वदन् कथञ्चित् उत्थाय सः ततः पलायितवान् ।

एवं बाल्ये एव भारतनिन्दनम् असोढवतः तस्य बालस्य नाम सुभाषचन्द्रः इति । भाविनि काले 'नेताजी' इति सः ख्यातः ।

सम्भाषणसन्देश:, सप्टेम्बर २०१८

नैतिकबलस्य प्रभाव:।

महाभारतस्थः प्रसङ्गः अयम् । पाण्डवाः राजसूययागं समाप्य अपारं सम्पत्तिं प्राप्तवन्तः । तस्मात् तेषां कीर्तिः सर्वत्र प्रसृता । दुर्योधनः तेषाम् एताम् उन्नतिं न असहत । अतः तेषां हानिः कथं करणीया इति सः बहुधा अचिन्तयत् । अन्ते काचित् दुर्योजना तेन कृता ।

तां योजनां धृतराष्ट्रं वक्तुं सः तदीयं प्रकोष्ठं गतवान् । तदवसरे तत्र विदुरधृतराष्ट्रयोः सम्भाषणं प्रचलत् आसीत् । दुर्योधनः धृतराष्ट्रं किमपि अनुक्त्वा ततः निर्गतवान् ।

कश्चन कालः अतीतः । स्वस्य योजना श्रावणीया इत्यत्र दुर्योधनस्य महती उत्सुकता । अतः सः पुनरपि धृतराष्ट्रस्य प्रकोष्ठं गतवान् । तदा अपि विदुरधृतराष्ट्रयोः सम्भाषणं प्रचलत् आसीत् । द्वितीयवारं दुर्योधनस्य आगमनं दृष्ट्वा धृतराष्ट्रः अवदत् – “वत्स ! भवान् किमपि वक्तुम् इच्छता त्वया द्विवारं मम प्रकोष्ठं प्रति आगतम् आसीत् । किन्तु विदुरस्य उपस्थितेः कारणात् त्वया किमपि न उक्तम् इति भाति । त्वया वक्तुम् इष्टः सः विषयः कः ?” इति ।

तत् श्रुत्वा दुर्योधनः अवदत् – “पाण्डवानाम् उन्नतेः निवारणाय मया कश्चन उपायः चिन्तितः । सः वाममार्गावलम्बी । तादृशं चिन्तनं विदुरस्य उपस्थितौ कथम् अहं भवन्तं श्रावयेयम् ? अतः एव प्रतिगतं मया” इति ।

क्षणकालस्य मौनस्य अनन्तरं धृतराष्ट्रः अवदत् – “तव कथनं वास्तविकम् एव । ममापि अयमेव अनुभवः । विदुरस्य उपस्थितौ दुश्चिन्तानि मनसि न उद्भवन्ति एव । अशुभचिन्तनविषयकान् अंशान् तस्य पुरतः उपस्थापयितुं न शक्नोमि अहमपि । वयं अधिकारबलात्, शक्तिबलात्, सम्पत्तिबलात् वा किमपि कुर्याम । किन्तु नैतिक-बलवतां पुरतः अस्माकं शक्तिबलादिकं सर्वथा दुर्बलसामर्थ्यवत् भवति । यद्यपि मम मनः अपि कदाचित् कुटिलचिन्तनं करोति, तथापि अहं धर्ममार्गम् एव अनुसर्तुम् इच्छामि । तस्मात् एव विदुरसहवासम् आधिक्येन चिन्तयामि” इति ।

सम्भाषणसन्देश:, जुलै २०१८

न किञ्चित् निरुपयोगि।

अनेकानि वर्षाणि यावत् गुरुगृहे अध्ययनं कृत्वा स्वगृहं गन्तुं सज्जः श्रीवत्सः गुरुं नमस्कृत्य पृष्टवान् - "कां गुरुदक्षिणां दद्याम् ?' इति ।

गुरोः प्रियः शिष्यः सः प्रत्यक्षजीवनस्य अनुभवं प्राप्तुं बाह्यजगत् गच्छन् आसीत् । अतः गुरुः उक्तवान् - "त्वं मह्यं निरुपयोगीनि मुष्टिपूर्णानि पर्णानि गुरुदक्षिणारूपेण देहि" इति ।

तत् श्रुत्वा मुदितः श्रीवत्सः पर्णानि अन्वेष्टुं प्रस्थितवान् । कस्यचन कृषिक्षेत्रस्य समीपे शुष्क पर्णानां महान्तं राशिं दृष्ट्वा सः आनन्दितः । मुष्टिमितानि पर्णानि यावत् सः स्वस्यूते स्थापितवान् तावता कृषकः धावन् आगतवान् । तेषां पर्णानां नयनस्य कारणं ज्ञात्वा सः अवदत् -"एतानि निरुपयोगीनि न । एतानि ज्वालयित्वा कृषिक्षेत्रे क्षिपेयं चेत् धान्यम् इतोऽपि अधिकतया उत्पद्येत" इति ।

श्रीवत्सः तानि पर्णानि तत्रैव क्षिप्त्वा अग्रे अगच्छत् ।

अग्रे गतः सः नद्यां पतितानि पर्णानि स्वीकर्तुं प्रयत्नम् अकरोत् । तत्र सः पर्णेषु सुरक्षिततया स्थितान् कीटान् अपश्यत् । अग्रे पर्णानि वहन्त्यः काश्चन पिपीलिकाः तेन दृष्टाः । स्वचञ्श्वा पर्णानि नयन्तं काकं दृष्ट्वा सः नितरां विस्मितः, यतः तानि पर्णानि काकशावकानां शय्या जातानि आसन् ।

एकस्मिन् वृक्षे लम्बमानं पर्णं दृष्ट्वा श्रीवत्सस्य उत्साहः प्रवृद्धः । तत् स्वीकर्तुं यदा सः समीपं गतवान् तदा विलक्षणं दृश्यम् अपश्यत् सः । पर्णमूले नूतन-पर्णस्य अङ्कुरः उद्भवन् आसीत् । कोटादिभ्यः तस्य रक्षणार्थं पर्णम् अधुना अपि तत्रैव लग्नम् अस्ति । कीटादिभिः खादितम् इत्यतः पक्के पर्णे जालं निर्मितम् आसीत् । तथापि तत् पर्णं रक्षणकार्ये युक्तम् आसीत् । एवं येन केनचित् रूपेण पर्णानि उपयोगीनि एव श्रीवत्सेन दृष्टानि । श्रान्तः सः रिक्तहस्तः सन् आश्रमं प्रत्यागत्य गुरुम् उक्तवान् -"एकमपि निरुपयोगि पर्णं मया न प्राप्तम्" इति ।

सन्तुष्टः गुरुः तस्य हस्तौ गृहीत्वा उक्तवान् -"मया दक्षिणा प्राप्ता । त्वं सुखेन स्वस्थानं गच्छ । सर्वदा स्मर यत् जगति किमपि वस्तु निरुपयोगि नास्ति इति । एतत् स्मरसि चेत् सर्वदा यशस्वी भविष्यसि । शुभमस्तु ते" इति ।

गुरोः आशीवदिन सन्तुष्टः श्रीवत्सः ततः प्रस्थितवान् ।

सम्भाषणसन्देश:, सप्टेम्बर २०१८


मोह:।

पक्षिप्रियः इत्येव प्रसिद्धिः आसीत् तस्य राज्ञः ।

विभिन्नाकारजातिवर्णानां पक्षिणां महासङ्ग्रहः आसीत् तस्य राज्ये । एकदा तस्मै केनचित् द्वौ गरुडशावकौ दत्तौ । उभौ अपि पुष्टौ कुलीनौ च। ईदृशौ गरुडौ राज्ञा अपि अदृष्टपूर्वौ । तयोः व्यवस्थार्थ कश्चन अनुभवी जनः राज्ञा नियुक्तः ।

केषाञ्चित् मासानाम् अनन्तरं गरुडौ द्रष्टव्यौ इति निश्चित्य राजा तत्र गतवान्, यत्र तौ वर्धमानौ आस्ताम् । उभौ अपि सुपुष्टौ आकर्षकौ च जातौ आस्ताम् । तौ दृष्ट्वा राजा उक्तवान् "अहम् एतयोः उड्डयनं द्रष्टुम् इच्छामि । तदर्थं तौ सङ्केतेन सूचय" इति । ततः तयोः पालकः सङ्केतेन तौ डायितवान् । द्वौ अपि डयितवन्तौ । किन्तु एकः आकाशे उन्नतं स्थानं प्राप्तवान् । अपरः किञ्चित् डयित्वा पुनः आगत्य वृक्षशाखायाम् उपविष्टवान् । गरुडयोः पालकः उक्तवान् - "एतस्य तु आरम्भतः एषा एव समस्या । किञ्चित् डयित्वा पुनः तस्यामेव शाखायाम् उपाविशति अयम्" इति ।

राज्ञः तु उभौ अपि प्रियौ। द्वौ अपि समीचीनौ स्याताम् इति सः इच्छति स्म । सः अनुक्षणं घोषणां कृतवान् - "यः एतस्य गरुडस्य डयनं सम्यक् कारयिष्यति तस्मै सुमहत् पारितोषिकं दास्यते" इति ।

देशविदेशतः अनेके पक्षितज्ज्ञाः, विद्वांसः च राज्ञः आह्वानेन तत्र आगतवन्तः । बहुभिः प्रयत्नैः अपि डायितः सः गरुडः पुनः आगत्य तस्याम् एव शाखायाम् उपविशति स्म । सर्वैः अपि अनेकधा कृताः प्रयत्नाः विफलाः अभवन् । राजा खिन्नः अभवत् ।

अकस्मात् 'द्वौ अपि गरुडौ सम्यक् डयेते' इति वार्तां प्राप्य राजा तद् अद्भुतं दृश्यं द्रष्टुं तत्र गतवान् । अपरस्य अपि गरुडस्य दूराकाशे उड्डयनं दृष्ट्वा नितराम् आनन्दितः सः पृष्टवान् "एतद् असाध्यं कः साधितवान् ?" कश्चन कृषकः एतद् साधितवान् इति ज्ञात्वा राजा "तं श्वः राजप्रासादं प्रति प्रेषयत" इति आदिष्टवान् ।

सभायां तस्य कृषकस्य सत्कारं कृत्वा राजा पृष्टवान् - "कथं साधितवान् भवान् ?

तदा कृषकः उक्तवान् "अहं सामान्यः कश्चन जनः। विद्वान् नास्मि । समस्याजनिका तु शाखा इति मया दर्शनमात्रेण एव अवगतम् । सामर्थ्यं तु गरुडे आसीत् एव । शाखायाः मोहः तं बाधते स्म । अहं तां शाखां कर्तितवान् । अतः गरुडः पुनः तस्यां शाखायाम् उपवेष्टुम् अवसरम् अप्राप्नुवन् डयनम् आरब्धवान्" इति ।

सम्भाषणसन्देशः, ऑक्टोबर् २०१८

महान् क्रान्तिकारी।

"यावत् शङ्करस्य दर्शनं न भविष्यति तावत् मम प्रत्यागमनं नास्ति" इति प्रतिज्ञाय सः ध्यानस्थः अभवत् । जनानां कोलाहलेन तस्य नेत्रे उद्घाटिते । तस्य ध्यानस्थितिं दृष्ट्वा जनाः तम् उपसर्प्य आरोग्यादिविषये मार्गदर्शनं याचन्ते स्म । सोऽपि वनौषधं दत्त्वा तेषां समाधानं करोति स्म । तस्मिन् काले भारते आङ्ग्ल-शासनम् आसीत् । अतः औषधदानेन सह आगतेभ्यः देशभक्तिं कर्तव्यं चापि बोधयति स्म सः । एतैः विचारैः प्रभावितानां सङ्ख्या महता वेगेन वर्धमाना आसीत् ।

असमप्रान्तस्य उत्तरकाछारजनपदस्य लङ्करग्रामे लब्धजन्मनः तस्य नाम शम्भुधनफुङ्गलो इति । शिवभक्तः वीरः सः शम्भुधनः इति प्रसिद्धः आसीत् । डिमासा-काछरी इति किञ्चन सबलं राज्यम् आसीत् । तुलारामः तस्य राजा । डिमापुरं तस्य राजधानी । १८३२ तमे वर्षे ब्रिटीशैः तद् राज्यं नाशितम् । राज्ञः तुलारामस्य मृत्योः अनन्तरं स्वातन्त्र्यविषये जनाः आधिक्येन आक्रामकाः अभवन् । शम्भुधनः तेषां सङ्घटनं कृत्वा क्रान्तिकारकाणां गणं निर्मितवान् । उत्साहिनः तरुणान् गणे योजितवान् । शस्त्रचालनस्य प्रशिक्षणम् अपि तेभ्यः दत्तवान् ।

एतेषां तरुणानां कारणेन नितरां क्रुद्धाः अभवन् ब्रिटीशाः । मेजर बोयाडः शम्भुधनं ग्रहीतुं मायी-बङ्गं गतवान् । किन्तु सशस्त्रान् तरुणान् दृष्ट्वा भीतः सन् सः पलायितः । द्वितीयवारं तेन कृते आक्रमणे बोयाडः स्वयमेव क्रान्तिकारकैः मारितः । बहवः सैनिकाः अपि मारिताः । तदनन्तरं शम्भुधनेन ब्रिटीशसैन्यस्य आक्रमणेन उत्तरकाछारजनपदः स्वतन्त्रः कृतः । ततः दक्षिण-काछारं प्रति प्रस्थितवान् सः । भुवनपहाडः तस्य मुख्यालयः अभवत् । तेन क्रुद्धाः ब्रिटीशसैनिकाः कुतन्त्रम् आचरितवन्तः । भोजनं कुर्वन्तं निःशस्त्रं शम्भुधनं ते मारितवन्तः ।

३३ वर्षीयः एषः महान् क्रान्तिवीरः मातृभूमये स्वप्राणान् आहुतीकृतवान् ।

सम्भाषणसन्देशः, ऑक्टोबर २०१८


अनितरसाधारणं सामर्थ्यम्।

गोस्वामी तुलसीदासः यदा आसीत् तदा एव रामचन्द्रकविः नाम कश्चन कविः अपि आसीत् । रामचन्द्रकवेः अपि महती ख्यातिः आसीत् एव । कदाचित् कश्चन तम् अपृच्छत् - "महोदय ! तुलसीदासवर्यः अपि कविः । भवान् अपि कविः । भवादृशेषु कविषु कस्य काव्यं श्रेष्ठम् ?"

"मम काव्यमेव श्रेष्ठम्" इति अवदत् रामचन्द्रकविः । सः जनः पुनः अपृच्छत् - "किं तुलसीदासवर्यस्य काव्यं श्रेष्ठं नास्ति ?" इति ।

तदा सः कविः अवदत् - "गोस्वामिवर्येण यत् लिखितं तत् न काव्यायते ।"

"तन्नाम ?...." - सः जनः साश्चर्यम् अपृच्छत् ।

"तेन लिखितं तु वेदमन्त्रायते । तस्य एकैका अपि पङ्क्तिः ऋङ्मन्त्रः इव ।..."

"तथापि भवता उक्तं यत् ममैव काव्यं श्रेष्ठम् इति ?"

"तत् तु सत्यम् । काव्येषु मदीयं काव्यमेव श्रेष्ठम् । गोस्वामिवर्यस्य रचना तु काव्यस्तरात् ऊर्ध्वं मन्त्रस्तरे तिष्ठति । सः अपि कविस्तरम् अतिक्रम्य योगिस्तरे तिष्ठति ।..."

एवं कथयन् सः कविः भावाविष्टः जातः आसीत् । क्षणं विरम्य सः अवदत् - "कविपङ्क्तिषु सौन्दर्यमात्रं तिष्ठति । गोस्वामिवर्यस्य पद्यानि तु जीवकोटिम् एव उद्धर्तुं समर्थानि ।

तस्य दृष्टिः अपि अलौकिकी । भगवत्साक्षात्कारमेव प्राप्तवान् अस्ति सः । यस्य अन्तः भगवान् स्वयं स्यात् तस्य वाणीषु कृतीषु च अलौकिकं सामर्थ्यं कथं न भवेत् ? तुलसीदासवर्यः कविपङ्क्तौ न, अपि तु योगिपङ्क्तौ ऋषिपङ्क्तौ वा स्थापयितुं योग्यः । मम मादृशानां च काव्यं चित्तं तोषयेत् । तुलसीदास-वर्यस्य वचनानि तु चित्तं परिष्कुर्वन्ति । चित्तशुद्धिं परिकल्प्य मानवान् उद्धरन्ति । तादृशं सामर्थ्यं मादृशानां काव्ये भवितुं न अर्हति ।..."

सम्भाषणसन्देश:, जुलै २०१८

अनन्यप्रीति:।

 

मेघनादस्य बाणेन आहतः लक्ष्मणः यदा मूर्च्छां गतः तदा वैद्यः सुषेणः तं परीक्ष्य अवदत् – “श्वः सूर्योदयाभ्यन्तरे हिमालयस्था सञ्जीवनीमूलिका यदि आनीयते तर्हि लक्ष्मणः उज्जीवयितुं शक्येत, न अन्यथा” इति।


ततः हिमालयं गतः आञ्जनेयः। सः सञ्जीवनीम् अभिज्ञातुम् अशक्नुवन् धवलगिरिम् एव उन्नीय प्रस्थितवान्।


एवं गमनसमये अयोध्यायाः उपरि गच्छन् सः भरतेन दृष्टः। ‘कोऽपि मायावी राक्षसः अयोध्यायाः नाशनाय आगतः अस्ति’ इति चिन्तयन् भरतः बाणप्रयोगेण आञ्जनेयं पातितवान्। पतनात् मूर्च्छां गतवन्तम् आञ्जनेयं सचेतनं विधाय भरतः तन्मुखात् लङ्कायां प्रवृत्तमानं सर्वं वृत्तान्तं श्रुतवान्। रामकार्ये विघ्नम् आचरितः यत् तेन पश्चात्तापः अनुभूतः।


क्षमां सम्प्रार्थ्य सः आञ्जनेयम् अवदत् – “आर्य ! मत्कारणतः भवतः कार्ये विलम्बः जातः। अतः हानिनिवारणं मम कर्तव्यम्। भवान् मम बाणस्य उपरि उपविशतु। अचिरात् एव अहं तस्य प्रयोगेण भवन्तं लङ्कां प्रापयिष्यामि” इति।


तदा आञ्जनेयः अवदत् – “आर्य ! न कस्यापि साहाय्यम् आवश्यकं मम। रामनामोच्चारणमात्रेण अहं लङ्कां प्राप्तुम् अर्हामि” इति।


तावता आञ्जनेयवार्ता राज्ञीभिः ज्ञाता। ताः अपि भरतमुखात् प्रवृत्तं सर्वं ज्ञातवत्यः। आञ्जनेयः यदा प्रस्थितः तदा कौसल्या अवदत् – “लक्ष्मणः कथम् अपि उज्जीवनीयः एव। लक्ष्मणः यदि न भवेत् तर्हि रामस्य प्रत्यागमनम् एव मास्तु” इति।


कैकेयी अवदत् – “वनवासादिकारणतः रामः श्रान्तः स्यात्। अतः अहं युद्धाय भरतं प्रेषयितुं सज्जा। तदर्थम् अनुज्ञां प्रार्थ्यताम्” इति।


सुमित्रा अवदत् – “लक्ष्मणः यदि न उज्जीवितः भवेत् तर्हि रामस्य साहाय्याय अहं शत्रुघ्नं प्रेषयितुं सज्जा। एतत् रामं निवेदय” इति।


‘रामविषये एतेषां या अनन्यप्रीतिः अस्ति सा एव रामं विजयिनं करिष्यति’ इति चिन्तयन् आञ्जनेयः लङ्कां प्रति निर्गतवान्।

सम्भाषणसन्देशः, ऑगस्ट २०१८

आनन्दस्य मूलम् ।

कश्चन महात्मा । सः ग्रामं ग्रामं, नगरं नगरं च गच्छति । क्वचित् वृक्षस्य अधः उपविश्य जनान् सः सन्मार्गं तत्त्वं च उपदिशति, ततः निर्गच्छति च । न कस्माच्चिदपि किमपि स्वीकरोति सः ।

महाधनिकाः, वणिजः, उच्चोद्योगिनः इत्यादयः बहवः तस्य भक्ताः । तं स्वगृहं नीत्वा विशेषतः सत्कर्तुम् इच्छन्ति । किन्तु अयं महात्मा तु किमपि न परिगृह्णाति, कस्यापि गृहं न गच्छति च ।

कदाचित् सः एकस्मिन् नगरे वासम् अकरोत् । यथापूर्वं नगरस्य विभिन्नेषु स्थलेषु तदीयानि उद्बोधनानि प्रवृत्तानि । एकस्मिन् दिने सः विपणिं प्रति अगच्छत् । तत्र आसन् महान्तः आपणाः । एकैकस्मिन् अपि आपणे बहुविधानि वस्तूनि । एकैकस्यापि आपणस्य पुरतः किञ्चित्कालं स्थित्वा तत्रत्यानि सर्वाणि वस्तूनि दृष्ट्वा सः महात्मा अग्रे गच्छति स्म । अग्रिमे आपणे अपि एतादृशः एव व्यवहारः तस्य ।

तस्य आगमनं दृष्ट्वा विपणिस्थाः सर्वे आपणिकाः सन्तुष्टाः । एकैकः अपि आपणिकः स्वस्य आपणे विद्यमानम् उत्कृष्टं वस्तु तस्मै उपायनीकर्तुम् ऐच्छत् । किन्तु महात्मा एकमपि वस्तु न स्व्यकरोत् ।

आपणिकाः द्राक्षादीनि तस्य पुरतः संस्थाप्य प्रार्थितवन्तः - "एतत् स्वीक्रियताम्" इति । महात्मा निराकृतिं दर्शितवान् । "लघुखण्डः वा स्वीक्रियताम्" इति न्यवेदयन् आपणिकाः । महात्मा तु मन्दहासं दर्शयन् अग्रे अगच्छत् ।

एवं विपणिस्थाः सर्वे अपि आपणाः तेन दृष्टाः । तस्य पादधूलिः स्वीये आपणे पतिता इत्यतः सन्तुष्टाः अपि आपणिकाः तेन किमपि यत् न स्वीकृतं ततः नितराम् असन्तुष्टाः आसन् । सर्वान् आपणान् दृष्ट्वा सः यदा ततः प्रस्थितवान् तदा आपणिकाः अपृच्छन् - "महात्मन् । भवान् अस्मदीयान् आपणान् आगत्य अपि कस्माच्चिदपि किमपि न स्वीकृतवान्, प्रीत्या उपायनीकृतं न स्पृष्टवान् च। एवं किमर्थम् ?"

"कस्माच्चिदपि किमपि न स्वीक्रियते इत्येतत् मम व्रतम् इति 'भवन्तः जानन्ति एव । ..." महात्मा अवदत् ।

"एवं तर्हि विपणिं प्रति तत्रभवतः आगमनस्य उद्देशः कः ?" - कश्चन आपणिकः अपृच्छत् ।

"कस्य कस्य वस्तुनः उपयोगं विना अपि अहं जीवने आनन्देन स्थातुम् अर्हामि इति वस्तुनाम-ग्रहणपूर्वकं ज्ञातुम् इच्छामि स्म अहम् । अतः एव अत्र आगतम् आसीत् मया" इति हसन् अवदत् महात्मा ।

सम्भाषणसन्देशः, ऑगस्ट २०१८