नैतिकबलस्य प्रभाव:।

महाभारतस्थः प्रसङ्गः अयम् । पाण्डवाः राजसूययागं समाप्य अपारं सम्पत्तिं प्राप्तवन्तः । तस्मात् तेषां कीर्तिः सर्वत्र प्रसृता । दुर्योधनः तेषाम् एताम् उन्नतिं न असहत । अतः तेषां हानिः कथं करणीया इति सः बहुधा अचिन्तयत् । अन्ते काचित् दुर्योजना तेन कृता ।

तां योजनां धृतराष्ट्रं वक्तुं सः तदीयं प्रकोष्ठं गतवान् । तदवसरे तत्र विदुरधृतराष्ट्रयोः सम्भाषणं प्रचलत् आसीत् । दुर्योधनः धृतराष्ट्रं किमपि अनुक्त्वा ततः निर्गतवान् ।

कश्चन कालः अतीतः । स्वस्य योजना श्रावणीया इत्यत्र दुर्योधनस्य महती उत्सुकता । अतः सः पुनरपि धृतराष्ट्रस्य प्रकोष्ठं गतवान् । तदा अपि विदुरधृतराष्ट्रयोः सम्भाषणं प्रचलत् आसीत् । द्वितीयवारं दुर्योधनस्य आगमनं दृष्ट्वा धृतराष्ट्रः अवदत् – “वत्स ! भवान् किमपि वक्तुम् इच्छता त्वया द्विवारं मम प्रकोष्ठं प्रति आगतम् आसीत् । किन्तु विदुरस्य उपस्थितेः कारणात् त्वया किमपि न उक्तम् इति भाति । त्वया वक्तुम् इष्टः सः विषयः कः ?” इति ।

तत् श्रुत्वा दुर्योधनः अवदत् – “पाण्डवानाम् उन्नतेः निवारणाय मया कश्चन उपायः चिन्तितः । सः वाममार्गावलम्बी । तादृशं चिन्तनं विदुरस्य उपस्थितौ कथम् अहं भवन्तं श्रावयेयम् ? अतः एव प्रतिगतं मया” इति ।

क्षणकालस्य मौनस्य अनन्तरं धृतराष्ट्रः अवदत् – “तव कथनं वास्तविकम् एव । ममापि अयमेव अनुभवः । विदुरस्य उपस्थितौ दुश्चिन्तानि मनसि न उद्भवन्ति एव । अशुभचिन्तनविषयकान् अंशान् तस्य पुरतः उपस्थापयितुं न शक्नोमि अहमपि । वयं अधिकारबलात्, शक्तिबलात्, सम्पत्तिबलात् वा किमपि कुर्याम । किन्तु नैतिक-बलवतां पुरतः अस्माकं शक्तिबलादिकं सर्वथा दुर्बलसामर्थ्यवत् भवति । यद्यपि मम मनः अपि कदाचित् कुटिलचिन्तनं करोति, तथापि अहं धर्ममार्गम् एव अनुसर्तुम् इच्छामि । तस्मात् एव विदुरसहवासम् आधिक्येन चिन्तयामि” इति ।

सम्भाषणसन्देश:, जुलै २०१८