दीपावली-उत्सवस्य सन्दर्भे कस्य वा सन्तोषः न भवति? तस्मिन् सन्दर्भे तु बालानाम् अधिकः सन्तोषः । ते तु मातापितॄन् पीडयन्तः स्फोटकानि आनाय्य ज्वालयित्वा सन्तोषम् अनुभवन्ति ।
एकः ग्रामः । एवमेव दीपावलीसन्दर्भे तस्मिन् ग्रामे अपि मार्गे सर्वत्र स्फोटकानां ध्वनिः, प्रकाशः च आसीत् । पञ्चषाः बालकाः एकत्र मिलित्वा स्फोटकानि ज्वालयन्तः आसन् । तदा तेषु अष्टवर्षीयः एकः बालकः अन्यान् सर्वान् बालकान् स्वसमीपम् आहूय "भोः, भवतां सकाशे विद्यमानानि स्फोटकानि सर्वाणि आनयन्तु । सर्वाणि स्फोटकानि एकत्र राशीकृत्य ज्वालयामः चेत् महान् प्रकाशः भवति । महान् आनन्दः च भवति" इति उक्तवान् ।
सर्वे अन्ये बालकाः स्फोटकानि आनीय एकत्र राशीकृतवन्तः । सः बालकः एकाम् अग्निशलाकां प्रज्वाल्य स्फोटकानि ज्वालितवान् । एकवारमेव महान् प्रकाशः शब्दः च उत्पन्नः । सर्वे बालाः सन्तोषेण हसन्तः नृत्यं कृतवन्त:।
तदा सः बालकः उक्तवान् - "सर्वेषां स्फोटकानि योजयित्वा ज्वालयामः चेत् कियान् प्रकाशः भवति इति दृष्टं खलु" इति । सर्वे बालकाः "सत्यं, सत्यम्" इति उक्तवन्तः ।
तदा तेषु कश्चित् तस्य बालकस्य दक्षिणहस्तं दृष्टवान् । सः हस्तः दग्धः आसीत् । सः उच्चैः "भोः, एतस्य हस्तः दग्धः अस्ति । पश्यन्तु भोः । वयं सर्वे गत्वा एतस्य मातरम् आनयाम" इति उक्तवान् । ततः सर्वे बालकाः तस्य बालकस्य मातरम् आनेतुं प्रस्थितवन्तः ।
तदा सः बालकः एव तान् वारयन् उक्तवान् - "भोः, भीरवः ! भीतिः मास्तु । एषः व्रणः एकस्मिन् एव दिने न्यूनः भविष्यति । अतः एतदर्थं पुनः माता किमर्थम् आह्वातव्या ? आगच्छन्तु, वयं सर्वे मिलित्वा अवशिष्टानि स्फोटकानि ज्वालयामः" इति ।
एषः एव बालकः अग्रे संस्कृताध्ययनार्थ काशीनगरं गतवान् । तदा स्वातन्त्र्यसङ्ग्रामस्य कालः । सर्वे नेतारः स्वातन्त्र्यान्दोलने रताः आसन् । स्वातन्त्र्यसङ्ग्रामस्य अङ्गतया सर्वत्र असहकार-आन्दोलनं प्रचलत् आसीत् । तथैव काशीनगरे अपि एकस्मिन् दिने आन्दोलनस्य अङ्गतया शोभायात्रा प्रचलन्ती आसीत् । आरक्षकाः तत्र आगत्य दण्डप्रहारं कृतवन्तः । शोभायात्रायाः अग्रभागे ध्वजं गृहीत्वा स्थितवन्तं कञ्चित् ज्येष्ठं पुरुषम् आरक्षकाः सम्यक् ताडितवन्तः ।
एतत् सर्वं सः बालकः दूरे स्थित्वा पश्यन् आसीत् । तस्य महान् कोपः आगतः । सः एकं शिलाखण्डं स्वीकृत्य एकम् आरक्षकाधिकारिणं लक्ष्यीकृत्य क्षिप्तवान् । सः शिलाखण्डः वेगेन आगत्य आरक्षकाधिकारिणः ललाटं घट्टितवान् । कुद्धः अधिकारी "तं बालकं बद्ध्वा आनयन्तु" इति अन्यान् आरक्षकान् आज्ञापितवान् । ते तं ग्रहीतुं गतवन्तः । तदा सः ततः धावितवान् । आरक्षकान् सम्यक् आटयित्वा अन्ते तैः बद्धः अभवत् ।
अनन्तरदिने आरक्षकाः तं न्यायालयं नीतवन्तः । तत्रत्यः न्यायाधीशः बहु क्रूरः दुष्टः च आसीत् । सः देशभक्तेभ्यः कठिनं दण्डनं ददाति स्म । सः न्यायाधीशः कूरतया तं बालकं पश्यन् पृष्टवान् "भवतः. नाम किम् ?" इति ।
तस्य दर्पं दृष्ट्वा बालकः निश्चितवान् यत् एतस्य प्रश्नानां योग्यम् उत्तरं दातव्यमिति । सः उच्चैः उत्तरं "मम नाम आजाद: (स्वातन्त्र्यम्) इति दत्तवान् । 'आजाद:' इत्यस्य हिन्दीभाषायां 'स्वतन्त्र:' इत्यर्थः । वस्तुतः तत् तस्य नाम न ।
न्यायाधीशः तं पुनश्च पृष्टवान् "भवतः पिता कः ?" इति । बालकः उत्तरं दत्तवान् "स्वाधीनता" इति । "भवतः वासः कुत्र ?" इति पृष्टवान् न्यायाधीशः । बालकः उक्तवान् "मम वासस्थानं कारागृहम्" इति ।
बालकस्य उत्तराणि श्रुत्वा तत्र सम्मिलिताः जनाः सर्वे यद्यपि सन्तुष्टाः, तथापि दुष्टेन न्यायाधीशेन दीयमानं दण्डनं स्मरन्तः भीताः ।
न्यायाधीशः तस्मै बालकाय द्वादशवेत्रप्रहारात्मकं दण्डनं विहितवान् । काशीनगरस्य कारागृहं नीत्वा आरक्षकाः तं विवस्त्रं कृत्वा वेत्रेण प्रहृतवन्तः । एकैकेन प्रहारेणापि महतीं वेदनाम् अनुभवति स्म बालकः । तस्य शरीरात् रक्तमपि प्रवहति स्म । तथापि सः प्रत्येकप्रहारसन्दर्भेऽपि इति "वन्दे मातरम्" इति उच्चैः घोषणं कृतवान्, यच्च समग्रे कारागृहे प्रतिध्वनितं भवति स्म ।
पश्चात् सः आरक्षकैः कारागृहात् बहिः क्षिप्तः । तदा सः बालकः प्रतिज्ञां कृतवान् यत् जीवने कदापि आरक्षकैः बद्धः न भवामि इति । तथैव जीवने आचरितवान् अपि ।
सः बालकः एव चन्द्रशेखर-आजादः । क्रान्तिकारी सः देशसेवां कुर्वन् भारतमातुः पादतले स्वजीवनपुष्पं समर्पितवान् ।
सम्भाषणसन्देश:, डिसेम्बर १९९४