पूर्वम् आसीत् कश्चन राजा । तस्य राज्यं सुसमृद्धम् आसीत् । प्रजाः अपि धर्मपराः । पूर्वजानां शासनमपि प्रजाहितपरम् आसीत् इत्यतः शासनव्यवस्था अत्युत्तमा आसीत् । वृष्ट्यादयः काले काले भवन्ति स्म इत्यतः देशे कृष्यादिकार्याणि उत्तमतया प्रचलन्ति स्म । कृषिकाः वणिजादयः च करदाने बद्धादाः । अतः राजकोषः सर्वदा धनेन पूर्णः भवति स्म ।
पूर्वजानां परम्पराम् अनुसरन् राजा मन्दिरधर्म-शालादिकं निर्मापयति स्म। कासारसरोवरादीन् अपि निर्मापयति स्म सः । उत्तमान् मार्गान् परिकल्पयति स्म । उद्यानादीन् अपि व्यवस्थापयति स्म । मन्दिर कासारादीनां पार्श्वे प्रतिष्ठापितानि शिलाफलकानि तस्य दानशीलतां ख्यापयन्ति स्म ।
शिलाफलकानां दर्शनात् जनाः राज्ञः एतादृशानि जनहितपराणि कार्याणि स्मरन्ति स्म । शिलाफलकानि प्रदर्श्य ते वदन्ति स्म - "एतादृशः राजा अन्यः न स्यात् एव । अस्माकं सौभाग्येन एव वयम् एतं राजत्वेन प्राप्त-वन्तः" इति ।
कदाचित् कञ्चन महात्मा तदीयं प्रासादम् आगत-वान् । राजा तेन सह राजधान्यां सञ्चरन् आत्मना कृतानां जनहितकार्याणां विषये अवदत् । शिलाफलकानि च अदर्शयत् ।
तानि दृष्ट्वा सः महात्मा उच्चैः अहसत् । एतत् दृष्ट्वा राजा महत् आश्चर्य प्राप्नोत् । सः अपृच्छत् "महात्मन् ! किमर्थम् एवं हसितं भवता ?" इति ।
तदा महात्मा अवदत् "भूमि, वायु, जलं, प्रकाशम्, अन्नम्, ऐश्वर्यं, जनशक्तिं, निसर्गानुकूल्यं च प्रदत्तवान् अस्ति भगवान् एव । एतानि सर्वाणि सन्ति अत्यमूल्यानि । एतानि सर्वाणि दत्तवान् अपि भगवान् तु मौनेन तिष्ठति । तदीयानि उपायनानि उपयुज्य कानिचन कार्याणि कृत्वा भवान् शिलाफलकेषु स्वनाम लेखयित्वा साभिमानं वदति मया कारितानि एतानि इति । कर्ता कारयिता च अस्ति सः भगवान् एव । अन्यच्च, तेन सृष्टानि नदीजलवायुप्रभृतीनि निरन्तरं परहितमेव कुर्वन्ति । किन्तु आत्मानं तु न ख्यापयन्ति । वृक्षादीन् पश्य । ते फलच्छायादीन् दत्त्वा आजीवनं परोपकारं कुर्वन्तः अपि मौनेन तिष्ठन्ति । मेघाः वर्षन्तः सस्यसमृद्धिं कल्पयन्तः अपि मौनव्रतधारिणः भवन्ति । निसर्गे परोपकाररताः कियन्तः अंशाः न सन्ति ? तेषु कोऽपि आत्मख्यापनाय न उद्यतः। वयं मानवाः एव अल्पं कार्यं कृत्वा स्वकार्यस्य विषये गर्वं वहामः । स्वनाम्नः चिरस्थायिता भवतु इति चिन्तयन्तः तदर्थ बहुधा प्रयतामहे । यत् शाश्वतं यस्य च प्राप्त्यर्थ विशेषतः प्रयासः करणीयः तद्विषये अवधानमेव न भवति अस्माकम् । एतत्सर्वं स्मरतः मम मुखात् हासः निर्गतः" इति ।
सम्भाषणसन्देश:, सप्टेंबर २०१६