जगदीशचन्द्रशास्त्री कश्चन क्रान्तिकारिदलस्य सियालकोटस्थे रेलयाने स्थितः त्रयः आरक्षकाः मारिताः इति आरोपः आसीत् तद्विषये। सः विज्ञानानन्दसरस्वतीनाम्ना तिष्ठन् कस्मिश्चित् गुरुकुले अध्यापयति स्म। तं गृहीतुं यः साहाय्यं कुर्यात् तस्मै योग्यः पुरस्कारः दास्यते इति सर्वकारेण घोषितम् आसीत्।
कदाचित् जगदीशचन्द्रशास्त्री देहरादूनां प्रति प्रस्थितः। प्रयाणावसरे विश्रामार्थं सः राजपुरमार्गे स्थितं कञ्चित् आश्रमं प्राविशत्। आश्रमस्थः साधुः दर्शनमात्रेण एव जगदीशचन्द्रवर्यम् अभिज्ञातवान्। अतः सः पुरस्काराशया आरक्षकान् असूचयत्। आरक्षकाः आगत्य शास्त्रिवर्यं आरक्षकालयम् अनयन्। शास्त्रिवर्यः तु अल्पमपि धैर्यच्युतिं न प्राप्नोत्।
आरक्षकाधीक्षकः नामादिकं विचार्य तदीयस्य स्यूतस्य परिशोधनाय आज्ञापितवान्। कश्चन आरक्षकः शास्त्रिणः स्यूतस्य परिशीलनम् आरब्धवान्। प्रथमं वस्त्रं स्यूतात् बहिः स्थापितम्। द्वितीयमपि बहिः स्थापितम्। तृतीयं वस्त्रं स्यूतात् यदा बहिः स्वीकृतं तदा तस्मात् अशीत्यधिकानि रजतनाणकानि भूमौ अपतन्।
"भोः, एतानि नाणकानि कुतः प्राप्तानि भवता?" - आरक्षकाधीक्षकः अपृच्छत्। "अहं गङ्गोत्रीं गच्छन् अस्मि। तत्र अन्नदानं करणीयम् इति उक्त्वा बन्धुमित्रादिभिः दत्तं धनम् एतत्" इति अवदत् जगदीशचन्द्रशास्त्री।
तदा आरक्षकाधीक्षकः आरक्षकम् उद्दिश्य - "कश्चित् साधुं क्रान्तिकारित्वेन निर्दिश्य अत्र आनयतः तव विवेकः सर्वथा विनष्टः। धिक् त्वाम्" इति उक्त्वा धने वस्त्राणि च पुनरपि स्यूते संस्थाप्य कोषात् दश रूप्यकाणि निष्कास्य "गच्छतु" इति उक्त्वा आरक्षकाय रूप्यकदशकं दत्त्वा "एतत् आर्यभोजयित्वा अग्रे प्रेषयतु" इति आदिशत्।
आरक्षकेण सह आरक्षकालयात् किञ्चिद्दूरं गत्वा जगदीशचन्द्रशास्त्री तम् आरक्षकम् अवदत् - "भोः, तत् रूप्यकदशकं मह्यं दीयताम्। अग्रे कश्चित् अहं भोजनं करिष्यामि। इदानीं भवता भोजनं दापनीयं नास्ति" इति।
तदा आरक्षकः तस्मै रूप्यकदशकं दत्त्वा - "आर्य ! भवान् एव जगदीशचन्द्रशास्त्री इति मया आरक्षकालये ज्ञातम्। भवतः स्यूते तृतीयवस्त्रस्य अधः लघु-भुशुण्डिः या आसीत् सा मया लक्षिता एव। अतः एव अन्यत्र अन्वेषणाम् अवधानस्य आकर्षणाय भवतः वस्त्रे स्थितानि नाणकानि मया पातितानि। भगवत्कृपया अद्य भवान् अपायात् रक्षितः। अग्रे आत्मरक्षणविषये भवता इतोऽपि अधिकजागरूकता वोढव्या। शुभास्ते पन्थानः।" इति अवदत्। तस्मै इत्थं हितपूर्वकं कृतज्ञतां समर्प्य प्रयाणम् अनुवर्तितवान् जगदीशचन्द्रशास्त्री।
सम्भाषणसन्देशः, ऑगस्ट २०१६