कश्चन धनिकः देवालयम् अगच्छत् । देवालयस्य पुरतः आसीत् कश्चन आपणः । तत्र आसीत् एकमेव कमलपुष्पम् । 'एतत् क्रीत्वा भगवते अर्पितं चेत् महत् पुण्यं प्राप्येत' इति चिन्तयित्वा सः धनिकः आपणिकम् अपृच्छत् - "एतस्य किं मूल्यम् ?"
आपणिकः अवदत् - "विंशतिः रूप्यकाणि ।"
"एतत् मूल्यं तु अधिकम् । दश रूप्यकाणि स्वीक्रियन्ताम्" इति अवदत् धनिकः । एतत् अङ्गीकृत्य आपणिकः कमलं धनिकाय दातुं सज्जः। तावता तद्देशस्य युवराजः प्रेयस्या सह तत्र उप-स्थितः । तस्य प्रेयसी तत् कमलपुष्पं क्रेतुम् ऐच्छत्। "एतत् विंशत्या रूप्यकैः विक्रीतप्रायम्" इति अवदत् आपणिकः ।
"अहं पञ्चविंशतिं रूप्यकाणि दास्यामि । पुष्पं मह्यं दीयताम्" इति अवदत् राजकुमारः ।
यदा आपणिकः राजकुमाराय पुष्पं दातुं सज्जः तदा धनिकः अवदत् "मया क्रीतं ननु एतत् ? एवं स्थते एतदेव राजपुत्राय कथं दीयेत ?" इति ।
"भवता इतोऽपि धनं न दत्तम् । अतः अधिक-मूल्यदात्रे एतत् दातुम् अस्ति एव मम अधिकारः" इति अवदत् आपणिकः ।
"एवम् ! अहम् एतस्मै पुष्पाय शतं रूप्यकाणि दास्यामि" इति अवदत् धनिकः ।
एतत् श्रुत्वा राजपुत्रः अवदत् "अहं पञ्चशतं रूप्यकाणि दास्यामि । एतन्मया प्राप्येत एव" इति ।
धनिकः सहस्त्ररूप्यकदानाय सज्जः अभवत् । तदा राजपुत्रः पुनः अवदत् "अहं पञ्चसहस्रं रूप्यकाणि दास्यामि ।...."
पराजयम् अङ्गीकर्तुम् अनिच्छन् धनिकः अवदत् "मया दशसहस्रं रूप्यकाणि दास्यन्ते" इति ।
इतोऽपि अधिकं मूल्यं दातुं सज्जः न आसीत् राजकुमारः । अतः सः प्रेयस्या सह ततः निर्गत-वान् । ततः धनिकः दशसहस्रं रूप्यकाणि दत्त्वा तत् पुष्पम् अक्रीणात् ।
एतत्सर्वं दृष्टवान् कश्चन भद्रजनः धनिकम् अपृच्छत् - "यस्य पुष्पस्य निमित्तं यः भवान् विंशतिं रूप्यकाणि दातुमपि सज्जः न आसीत्, सोऽयं भवान् तस्मै एव पुष्पाय दशसहस्रं रूप्यकाणि कथं दत्त-वान् ?' इति ।
तदा धनिकः अवदत् "एतस्मात् व्यवहारात् मया यः पाठः पठितः तस्य मूल्यं तु दश-सहस्राधिक-मूल्यकम् । दिनात्मकाय सन्तोषाय राज-पुत्रः पञ्चसहस्रं रूप्यकाणि व्ययीकर्तुं यदि सज्जः स्यात् तर्हि भगवतः प्रसन्नतां सम्पादयितुं मया कथं वा दशसहस्रं रूप्यकाणि न व्ययीक्रियेरन् ? भगवान् तु मह्यं कोटिशः रूप्यकाणि प्रादात् । ततः एव अहं कोट्यधीशः जातः अस्मि । अतः भगवतः निमित्तं दशसहस्रस्य रूप्यकाणां व्ययः न अनुचितः" इति ।
सम्भाषणसन्देशः, ऑक्टोबर् २०१७