कष्टानि भवन्ति अनुभवाय।

रामकृष्णपरमहंसस्य आश्रमः। कदाचित् आश्रमस्य पुरतः चिन्ताक्रान्तः सन् उपविष्टः आसीत् विवेकानन्दः। प्रार्थनां समाप्य आश्रमात् बहिः आगतः रामकृष्णपरमहंसवर्यः एतत् अपश्यत्। सः विवेकानन्दम् उपसृत्य अपृच्छत् - “किमर्थम् एवं चिन्ताक्रान्तः असि?” इति।

तदा विवेकानन्दः अवदत् - “गुरुवर्य! जनानां जीवनम् एवं कष्टकरं किमर्थं भवति? किमर्थम् उत्तमाः जनाः अधिकं कष्टम् अनुभवन्ति?”

रामकृष्णपरमहंसः: कष्टानि भवन्ति अस्माकम् उत्कर्षाय एव। उद्घर्षणात् विना वज्रं न प्रकाशते। दाहे विना सुवर्णस्य परिशुद्धिः न सिद्ध्यति। कष्टसम्मुखीकरणं विना मानवः अनुभववान् न भवति। कष्टेषु उपस्थितेषु अस्माकं पुरतः मार्गद्वयं भवति - सम्मुखीकरणं पलायनं च इति। अधीरः पलायते। धीरश्च धैर्येण कष्टानि सम्मुखीकरोति। जीवने कष्टानि किमर्थं भवन्ति इत्यादिभिः व्यर्थचिन्तनैः अलम्। कर्मणि उद्यतो भव।

विवेकानन्दः: गुरुवर्य! कष्टानि सम्मुखीकृत्य एव अनुभवः प्राप्तव्यः किम्? अनुभवस्यैव परमप्राधान्यम् अस्ति किं जीवने?

रामकृष्णपरमहंसः: अनुभवः एव ज्ञानम्। ज्ञानमेव गुरुः, मार्गदीपः च। लोके पाठशालादिषु आदौ बोध्यते, ततः परीक्षा व्यवस्थाप्यते। किन्तु जीवनरूपिण्यां पाठशालायां तु आदौ परीक्षा उपस्थिता भवति, ततः एव पाठः पठनीयः भवति। परीक्षार्थिना स्वयमेव द्रष्टव्यम्। चक्षुरिन्द्रियं बिम्बानि दर्शयति। किन्तु जीवनमार्गं तु दर्शयति हृदयम्। अन्तरङ्गं परिशुद्धम् अस्ति चेत् शुद्धं ज्ञानं प्राप्यते। तदेव जीवनमार्गं दर्शयति।

विवेकानन्दः: यशसः मार्गः कण्टकैः आकीर्णः। तत्र असाफल्यानि अपि भवन्ति बहुधा। ततः मानवाः हतोत्साहाः भवन्ति। एतस्य निवारणार्थं किं करणीयम्?

रामकृष्णपरमहंसः: वत्स! साफल्य-वैफल्ययोः वास्तविकः अर्थः न ज्ञायते जगता। साफल्यमपि पतनस्य कारणं भवितुम् अर्हति। वैफल्यमपि अग्रिमकार्यस्य प्रेरकं भवितुम् अर्हति। पराजयः विजयस्य सोपानलेन भावनीयः। वैफल्यं मार्गस्य अपरिष्कृततां, प्रयत्नस्य अपर्याप्ततां, जागरूकतायाः अनाश्रयणं च द्योतयति। एतत् अनवगच्छन्तः वयं भगवन्तं निन्दामः। असाफल्यं दत्तम् इति भूतकालं दृष्ट्वा अवगच्छामः। मया कियद् दूरम् आगतम् इति। आत्मविश्वासेन वर्तमाने कार्याणि कुर्मः। तदा एव निर्भीकतया भविष्यं सम्मुखीकर्तुं धैर्यं प्राप्यते। अनुभवः यावत् भवता सह तिष्ठेत् तावत् असाफल्यं न भवेत्। यदि कदाचित् असाफल्यं प्राप्येत तर्हि अपि नूतनः अनुभवः यः प्राप्येत सः एव पुनः अग्रे गमने उपकारकः भविष्यति।

सम्भाषणसन्देश:, सप्टेम्बर २०१६