कदाचित् कश्चन हंसः पत्न्या हंस्या सह विहाराय अन्यत् अरण्यं गतवान् । तत् अरण्यं शुष्कम् आसीत् । कासारसरोवरादयः जलहीनाः । वृक्षादयः अपि पर्णहीनाः । एतत्सर्वं दृष्टवती हंसी अवदत् - "इतः गच्छाव तावत् ।..." इति ।
"इदानीम् अन्धकारः प्रसूतप्रायः । अतः अद्य रात्रिम् अत्रैव यापयाव । श्वः प्रातः इतः निर्गच्छाव" इति अवदत् हंसः ।
तौ यत्र वासं कृतवन्तौ तत्समीपे एव कश्चन उलूकः अपि वसति स्म । रात्रौ तस्य घुङ्कारः निरन्तरं श्रूयते स्म । अतः रात्रौ हंसी विषादेन अवदत् "उलूकशब्दतः मया निद्रा एव न प्राप्यते" इति । "एतादृशाः उलूकादयः सन्ति इत्यतः एव अत्र एवं शुष्कता दृश्यते" इति उक्तवान् हंसः ।
अनन्तरदिने हंसः हंस्या सह यदा प्रस्थितः तदा उलूकः तत्समीपम् आगत्य "एषा तु मम पत्नी। एतां कुत्र नयसि ?" इति सतर्जनम् अवदत् ।
"हंसी तु मम पत्नी। एषा तव पत्नी कथं भवेत् ?" इति अवदत् हंसः विरोधं प्रदर्शयन् ।
एतद्विषये तयोः महान् विवादः जातः । ततः न्यायनिर्णयाय तौ न्यायस्थानं गतवन्तौ । न्यायस्थाने पञ्च निर्णायकाः आसन्। ते उभयोः अपि वादं श्रुत्वा "श्वः उभाभ्यामपि आगन्तव्यम् । तदा निर्णयः श्रावयिष्यते" इति उक्तवन्तः ।
अनन्तरदिने यथासूचनम् उलूकः हंसौ च न्यायस्थानं गतवन्तः । ततः मुख्यः निर्णायकः अवदत् "उलूकार्यः अस्माकं राज्यस्य सदस्यः । तस्य सत्यवादिता बहुधा प्रमाणसिद्धा अस्ति । तस्य मुखात् असत्यं निर्गन्तुं न अर्हति इत्यत्र अस्ति अस्माकं पूर्णः विश्वासः। अतः हंसी तस्य पत्नी एव इत्यत्र नास्ति सन्देहः" इति ।
एतस्य श्रवणात् हंसः महान्तम् आघातं प्राप्त-वान्। तावता ऊलूकः तम् उपसर्प्य अवदत् -"हंसवर्य । एषा हंसी भवतः एव पत्नी। भवान् एतया सह स्वीयं वासस्थानं प्रति गन्तुम् अर्हति ससन्तोषम् । पूर्वस्मिन् दिने रात्रौ भवता पत्नी उक्ता आसीत् - उलूकस्य वासस्य कारणतः अरण्यं शुष्कं जातम् इति । वस्तुतः अरण्यस्य शुष्कतायाः कारणम् अहं न । यः न्यायनिर्णयं श्रावितवान् सः वस्तुतः महाभ्रष्टः । अहं ह्यः तम् एकान्ते दृष्ट्वा उक्तवान् आसं यत् न्यायनिर्णयः यदि मत्परतया भवेत् तर्हि अहं भवते धनं दास्यामि इति। अतः एव तेन निर्णयः श्रावितः यत् हंसी मम पत्नी इति । क्षामस्य कारणं भवन्ति एतादृशाः भ्रष्टाः । तत् निरूपयितुमेव अहम् एतत्सर्वं कृतवान् । आर्यां हंसीम् अहं पूज्यदृष्ट्या एव पश्यामि । दम्पत्योः भवतोः जीवनं सुखमयं भवतु" इति ।
सम्भाषणसन्देशः, ऑक्टोबर् २०१८