कश्चन ग्रामः। तत्र निवसति स्म कश्चन निर्धनः कृषिकः। तस्य गृहस्य पृष्ठतः आसीत् कश्चन कासारः। तत्र किञ्चित् अपूर्वं पुष्पं विकसितम्। तस्य विक्रयणाय सः विपणिम् अगच्छत्। विपणौ कश्चन वणिक् तम् उपसृत्य अवदत् – “भोः, एतत् अपूर्वं पुष्पम्। एतस्मिन् काले एतादृशस्य पुष्पस्य विकासः न भवति। एतत् मह्यं दीयताम्। शतं सुवर्णनाणकानि दास्यामि” इति।
तावता सेनापतिः तत्र आगतः। सः अवदत् – “अहं सहस्रं सुवर्णनाणकानि दास्यामि। एतत् पुष्पं मह्यं देहि" इति।
अत्रान्तरे मन्त्री तत्र उपस्थितः। सः अवदत् – “अहं दशसहस्रं सुवर्णनाणकानि दास्यामि। एतत् पुष्पं मह्यमेव देहि" इति।
तदनन्तरे राज्ञः रथः तत्र समागतः। राज्ञः दूतः रथात् अवतीर्य अवदत् – “महाराजः लक्षं सुवर्णनाणकानि दातुं सज्जः। अतः एतत् राज्ञे एव देयम्” इति।
‘यस्य मूल्येन अहम् एकरूप्यकमात्रस्य प्राप्तिम् इष्टवान्, तस्य निमित्तं प्रभूतं धनं दातुम् एते अहम्-अहमिकया किमर्थं दर्शयन्ति ?’ इति चिन्तयन् सः कृषिकः सेनापतिम् अपृच्छत् – “भवन्तः अधिकं मूल्यं दातुं किमर्थं सज्जाः ?” इति।
तदा सेनापतिः अवदत् – “अद्य गौतम-बुद्धः एतन्नगरम् आगमिष्यति। तस्य स्वागतार्थं वयं प्रस्थिताः। अकाले प्राप्यमाणम् एतत् पुष्पं यदि तस्मै अर्पयेत् तर्हि सः नितरां सन्तुष्टः भवेत्। अतः एतत् क्रेतुं वयं प्रयासरताः” इति।
एतत् श्रुत्वा कृषिकः अवदत् – “एतत् अहं विक्रेतुं न इच्छामि। अहमेव बुद्धाय समर्पयिष्यामि एतत्” इति।
ततः सः कृषिकः बुद्धसमीपम् अगच्छत्। तावता वणिक्-सेनापति-मन्त्रि-राजभृतयः तत्र उपस्थिताः आसन्। कृषिकः बुद्धाय भक्त्या तत् पुष्पं समर्पितवान्। तस्य पुष्पस्य दर्शनात् बुद्धः नितरां प्रसन्नः जातः।
तदा मन्त्रिप्रभृतयः प्रवृत्तं सर्वं बुद्धं न्यवेदयन्। बुद्धः कृषिकम् अपृच्छत् – “भोः, महत् ऐश्वर्यं प्राप्तुम् अवसरे प्राप्ते अपि त्वया एतत् पुष्पं किमर्थं न विक्रीतम् ?” इति।
तदा कृषिकः अवदत् – “महत्या भक्त्या यत् अर्पणं क्रियेत तत् प्राप्यमाणात् अपि अधिका स्यात्। अतः मया विक्रये मतिः न कृता” इति।
तत् श्रुत्वा बुद्धः राजादीन् उद्दिश्य अवदत् – “पश्यत अस्य भक्त्यतिशयम्। धनात् अपि मूल्यानि एव श्रेयांसि इति अयं स्वव्यवहारेण दर्शितवान् अस्ति। अयम् अकिञ्चनः स्यात्। तथापि गुणेन तु आढ्यः एव” इति।
सम्भाषणसन्देशः, ऑगस्ट् २०१६