लालबहादूरशास्त्री भारतस्य सुप्रसिद्धः द्वितीयः प्रधानमन्त्री । तस्य धर्मपत्नी ललितादेवी अपि स्वातन्त्र्यान्दोलने भागग्रहीत्री एव । सा महिला दलस्य प्रमुखा आसीत् । एकदा सा आपणिकानां मनः परिवर्तयितुम् अन्याभिः महिलाभिः साकं वैदेशिकवस्तुविक्रयणस्थलं गतवती । बहवः आपणिकाः ललितादेव्याः अनुरोधं स्वीकृत्य सर्वाणि वैदेशकिवस्तूनि बहिः क्षिप्तवन्तः । किन्तु एकः आपणिकः एतत् न अङ्गीकृतवान् । सः उक्तवान् - "अहं स्वपरिवारस्य जीवननिर्वाहं कथं करिष्यामि ?"
ललितादेवी अवदत् "भवान् स्वदेश-निर्मितानि वस्तूनि विक्रीणताम्। भवान् वैदेशिक वस्तूनि विक्रीय आङ्ग्लशासनम् एव सुदृढं करोति" इति ।
आपणिकः पुनः अवदत् "भवत्यः तु स्वयमेव वैदेशिकवस्तूनाम् उपयोगं कुर्वन्ति । तथापि मम वाणिज्यं निरुन्धन्ति" इति ।
"अस्माकं वस्त्राणि देशीयानि एव । पाद-रक्षादिकम् अपि स्वदेशीयम् एव । वयं वैदेशिक-वस्तूनि कुत्र उपयुञ्ज्महे ?" इति ललितादेवी साश्चर्यं पृष्टवती ।
"भवतीनां हस्ते यानि वलयानि सन्ति तानि विदेशनिर्मितानि एव" इति आपणिकः साटोपम् अवदत् ।
ललितामहोदया एतत् न जानाति स्म यत् एतानि वलयानि कुत्रत्यानि इति । तावता काचित् अपरा महिला प्रोक्तवती "एतानि वलयानि कुत्रत्यानि इति तु वयं न जानीमः। किन्तु तव हस्ते या घटिका अस्ति सा तु विदेशनिर्मिता एव ।"
एतत् श्रुत्वा सः आपणिकः धूर्ततापूर्वकम् अवदत् - "यदि ललितादेवी स्ववलयानि भित्त्वा क्षेप्स्यति तर्हि अहम् अपि घटिकाम् इमां क्षेप्यामि" इति ।
सः जानाति स्म यत् भारतीयाः महिलाः स्ववलयानि सौभाग्यसूचकानि मत्वा न भेत्स्यन्ति इति । ललिता किङ्कर्तव्यताविमूढा जाता । एतावता तत्र लालबहादूरशास्त्री स्वमित्रैः सह समुपस्थितः । शास्त्रिवर्यः सर्वं विज्ञाय पत्नीं ललितां प्रति सङ्केतम् अकरोत् यत् वलयानि भिनत्तु इति । पत्युः अनुमतिं प्राप्य सा झटिति वलयानि भिन्नवती । एतत् दृष्ट्वा तत्र उपस्थिताः सर्वाः अपि आन्दोलनरताः महिलाः स्वस्य स्वस्य वलयानि भिन्नवत्यः । एतत् विलोक्य म्लानमुखः आपणिकः घटिकासहितं सर्वं वस्तु बहिः क्षिप्त-वान्, प्रतिज्ञातवान् च यत् कदापि वैदेशिकवस्तूनि न विक्रेष्ये इति ।
सम्भाषणसन्देश:, सप्टम्बर २०१९