असदृशं देशप्रेम।

आङ्ग्लानां शासनकालः सः। कश्चन भारतीयः विद्यार्थी आङ्ग्लमाध्यमशालायां पठति स्म । कदाचित् सः आङ्ग्लवेषद्योतकं सूट्, बूट् इत्यादिकं परित्यज्य भारतीयां वेष्टीं, युतकं, शिरस्त्रं च धर्तुम् आरब्धवान् ।

"वत्स । कोऽयं विशेषः तव वेषे ?" इति पृष्टवान् तस्य पिता ।

'यावत् तदा सः बालः उक्तवान् सुजलां, सुफलाम् इति गर्जनं देशे न प्रसरति, तावत् मम वेषः अयमेव" इति ।

यदा तस्य पिता वस्त्रविषये पुनः पृष्टवान् तदा सः उक्तवान् - "तात, अस्माकं देशः उष्णदेशः । अतः अस्माभिः कार्पासस्य मृदूनि एव वस्त्राणि घरणीयानि । विदेशेषु शैत्यम् अधिकम् । अतः ते सूट्, बूटू, हेट्, टय् इत्यादिकं धरन्ति । अहम् इदानीं यादृशं वेषं धृतवान् अस्मि तादृशः एव अस्माकं देशस्य तापमानाय योग्यः" इति।

पुत्रस्य एतादृशं वचनं श्रुत्वा सन्तुष्टः पिता तं प्रीत्या आलिङ्गितवान् ।

किन्तु शालायाम् एतत् वस्त्रधरणं दृष्ट्वा सर्वे छात्राः तस्य उपहासं कृतवन्तः । तथापि सः बालकः अधीरः न जातः । सः स्ववेषं समर्थयन् सहपाठिनः बोधितवान् अपि - "अस्माकं देशे मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव इत्यादीनि वचनानि श्रूयन्ते । किन्तु विदेशेषु यदि मातापितरौ किञ्चित् तर्जयतः तर्हि तेषां दण्डनं भवति । यत् अस्मान् 'मातापितरौ दण्डनीयौ' इति बोधयति तत् शिक्षणं किम् अस्मभ्यं युज्यते ? वयं सर्वे भारतीयेषु विद्यालयेषु एव अध्ययनं कुर्याम" इति । एवं वदन् सः सर्वान् अपि सहपाठिनः प्रेरयित्वा भारतीयेषु विद्यालयेषु प्रवेशितवान्, स्वयं च प्रविष्टवान् ।

एतादृशे लघुनि एव वयसि राष्ट्रप्रेम्णा, देश-प्रेम्णा, धर्मप्रेम्णा च सम्पन्नः सः बालकः एव अग्रे 'सुभाषचन्द्रबोसः' इति प्रसिद्धिं प्राप्तवान् ।

सम्भाषणसन्देशः, ऑगस्ट २००७