वर्तमाने वर्तितव्यम्।

कश्चन तरुणः । सः सर्वदा कल्पनालोके विहरति स्म । कदाचित् तेन कलपनालीक दृष्टः । स्वप्ने सः राजत्वं प्राप्तवान् आसीत्। प्रातः उत्थाय सः स्वस्य स्वप्नं सर्वान् श्रावितवान्। तथैव महाराजवत् व्यवहारम् आरब्धवान् च । यदा पिता किमपि कार्यम् आदिशत् तदा सः अवदत् - "अहं महाराजः अस्मि । किं महाराजः स्वयं कार्यं कुर्यात् ? न खलु ?" इति पिता मौनम् आश्रितवान् । मात्रा यदा कार्यम् उक्तं तदा अपि तेन तदेव वचनम् उक्तम् । माता तं शान्तस्वरेण बोधितवती । तस्य पत्नी अनुनयेन बोधितवती । तथापि तस्य एकम् एव वचनम् - "अहं महाराजः अस्मि । सामान्यः जनः इव राजा कार्यं न करोति" इति ।

एषः कथं बोधनीयः इति गृहसदस्येषु केनापि न ज्ञातम् । यदा सर्वे चिन्ताक्रान्ताः आसन् तदा तस्य अनुजा अवदत् - "अहम् एतं समीकरिष्यामि" इति । मध्याह्नसमयः आगतः । अनुजा सर्वान् भोजनाय आहूतवती, ऋते अग्रजात्। सर्वे भोजनम् आरब्ध-वन्तः । स्वस्य अनाह्वानं दृष्ट्वा नितरां क्क्रुद्धः सः तरुणः भगिन्याः समीपं गत्वा क्रोधेन अपृच्छत् "किमर्थ भोजनार्थम् अहं न आहूतः भवत्या ?" इति ।

तदा अनुजा शान्ततया अवदत् "महाराजस्य भोजनं सामान्यं न भवति खलु ? अन्यच्च, तस्मै भोजनं दातुम् अप्सरसः किन्नर्यः वा आगच्छन्ति। महाराजः षड्रसोपेतं भोजनं कुर्यात्, न तु एतत् नीरसं भोजनम् । सामान्यं भोजनं कृतं चेत् महाराजस्य प्रतिष्ठा अपगता भविष्यति" इति ।

एतत् श्रुत्वा सः युवकः वस्तुस्थितिम् अवगतवान् । कल्पनालोके विहारात् कीदृशं कष्टं भविष्यति इति जानन् सः स्वस्य कर्तव्यम् अवगतवान् ।

सम्भाषणसन्देश:, सप्टेम्बर २००६