गुरुनानकः स्वशिष्यैः सह सर्वदा देशसञ्चारं करोति स्म। स: तत्र तत्र जनान् उपदिशति स्म, आशीर्भिः अनुगृह्णाति स्म च । कदाचित् सः कञ्चित् ग्रामं गतवान् । ग्रामवासिनः महता उत्साहेन शिष्यगणसहितस्य नानकवर्यस्य स्वागतं कृत्वा योग्यम् आतिथ्यम् अपि कृतवन्तः । अनन्तरम् श्रद्धया तस्य उपदेशं श्रुतवन्तः च ।
कानिचन दिनानि एवमेव अतीतानि । गुरुनानकः तत: प्रस्थितवान् । ग्रामवासिनः सर्वे -"भवान् अन्यत्र मा गच्छतु । अत्रैव वसतु । वयं सर्वाः व्यवस्थाः कल्पयिष्यामः" इति बहु अनुरोधं कृतवन्तः । अन्ते सर्वे बहु दुःखेन तं प्रेषितवन्तः । तदा गुरुनानकः गमनसमये ग्रामवासिनः उद्दिश्य "भवन्तः सर्वे नष्टम् अनुभवन्तु । अयं ग्रामः अपि नष्टः भवतु" इति आशीर्वादं कृतवान् । शिष्याः चकिताः । किन्तु किमपि न पृष्टवन्तः ते ।
पश्चात् ते अन्यं ग्रामं प्रति गतवन्तः । तत्र जनाः बहु दुष्टाः आसन् । ते ग्रामवासिनः तस्य स्वागतं न कृतवन्तः, प्रत्युत तस्य उपहासं कृतवन्तः, निन्दितवन्तः च। गुरुनानकः किमपि न उक्तवान् । तस्मिन् दिने ते तत्रैव वासं कृतवन्तः । अनन्तरदिने गुरुनानकः ततः गमनसमये "समृद्ध्या सुखेन च जीवन्तु भवन्तः" इति तान् ग्रामवासिनः आशीर्भिः अनुगृहीतवान् ।
एतत् श्रुत्वा शिष्याणाम् अत्यन्तम् आश्चर्यम् अभवत् । शिष्येषु अन्यतमः गुरुं पृष्टवान् "आचार्य ! एवं भवतः आशीर्वादस्य कः आशयः इति ज्ञातुम् एव वयं न शक्ताः । सज्जनान् नष्टाः भवन्तु इति, दुष्टान् समृद्धाः भूत्वा सुखेन जीवन्तु इति च भवान् उक्तवान्। एवं किमर्थम्?" इति। तदा गुरुनानकः उक्तवान् "सज्जनाः यदा नष्टम् अनुभवन्ति तदा ते जीवनार्थम् अन्यत्र गच्छन्ति । तत्र तेषां सहवासेन अन्ये अपि सज्जनाः भवन्ति । दुष्टाः अन्यान् पीडयन्ति । अतः ते अन्यत्र न गच्छेयुः इति अहं तान् समृद्धाः भवन्तु इति उक्तवान्" इति।
गुरोः वचनेन समाहिताः शिष्याः निस्संशयाः सन्तः अग्रिमं ग्रामं प्रति गतवन्तः ।
सम्भाषणसन्देश:, नोव्हेंबर १९९५