असदृशी गणितप्रतिभा।

 प्राचीनमद्रासराज्यस्य (इदानीन्तनस्य तमिळनाडुराज्यस्य) कोयमत्तूरूमण्डलस्थे ईरोड-नगरे १८८७ तमे वर्षे २२ दिनाङ्के गुरुवासरे एकस्य शिशोः जन्म अभवत् । सः शिशुः पञ्चवर्षीयः बालकः यदा जातः तदा पालकाः तं विद्यालयं प्रति प्रेषितवन्तः ।

बालकस्य गणितविषये महती आसक्तिः आसीत् । कक्ष्यायां सः स्वयमेव किमपि चिन्तयन् भवति स्म। यदा सः प्राथमिकशालायां पठन् आसीत् तदा एका घटना प्रवृत्ता। काचित् शिक्षकः तम् उक्तवान् "यां कामपि संख्यां तया एव संख्यया विभाजयामः चेत् भागलब्धम् 'एकम्' भवति। उदा, ५÷५ = १" इति।

शिक्षकस्य विवरणं शृण्वन् सः बालकः झटिति उत्थाय पृष्टवान् -"शून्यं शून्येन विभज्यते चेत् भागलब्धं किं भवति ?" इति।

छात्रस्य प्रश्नं श्रुत्वा शिक्षकः दिग्भ्रान्तः । गुरोः उत्तरम् तु अत्र अप्रस्तुतम् । एवम् आसीत् तस्य बालकस्य जिज्ञासा, मेधाशक्तिः च । यद्यपि सः प्रतिभावान्, तथापि सः कदापि कुचेष्टां न करोति स्म । मूर्तिमती नम्रता, मुग्धता इव सः आसीत् । अहङ्कारः किञ्चिदपि न आसीत् तस्य ।

अग्रे सः यदा प्रौढः अभवत् तदा तस्य प्रतिभां दृष्ट्वा प्रो. हार्डिवर्यः तम् इंग्लैण्ड्देशं नीतवान् । सः स्वस्य एव स्वतन्त्रेण मार्गेण सर्वेषां गणितसमस्यानाम् उत्तरं प्राप्तुं प्रयत्नं करोति स्म । तस्मात् बहु जटिलानाम् अन्यैः अज्ञातानां प्रश्नानामपि उत्तराणि ज्ञातवान् आसीत् ।

अग्रे सः इंग्लैण्ड्देशे सर्वत्र प्रसिद्धः अभवत् । कदाचित् सः हार्डिवर्येण सह केम्ब्रिज्ञविश्वविद्यालयं गतवान् । तत्र अर्थर् बेरि नामकः गणितप्राध्यापकः आसीत् ।

एकस्मिन् दिने सायङ्काले एषः युवकः तस्य कक्ष्यायां गत्वा उपविष्टवान् । प्राध्यापकः कस्यचित् गणितसूत्रस्य विवरणं फलके लिखन् पाठयन् आसीत् । सः विषयः तेन युवकेन पूर्वम् अश्रुतः आसीत् । अतः प्राध्यापकः पाठं कुर्वन् मध्ये मध्ये तस्य युवकस्य मुखं पश्यन् आसीत् स: अवगच्छति उत न इति ज्ञातुम् । 

मध्ये एकवारं सः प्राध्यापकः तस्य युवकस्य मुखं दृष्टवान् । तदा तस्य मुखं सन्तोषेण बहु प्रफुल्लितम् आसीत् । "किम् उपन्यासम् अवगच्छन् अस्ति भवान् ?" इति प्राध्यापकः पृष्टवान् । युवकः किमपि न उक्तवान् । केवलम् अङ्गीकारपूर्वकं शिरः चालितवान् ।

तदा सः प्राध्यापकः पृष्टवान् "भवान् किमपि प्रष्टुम् अथवा वक्तुम् इच्छति किम् ?" इति।

तदा सः युवकः 'आम्' इति शिरः चालितवान् ।

'किं वक्तुम् इच्छति ?' इति प्राध्यापकः पृष्टवान् । तदा पृष्ठतः उपविष्टः सः युवकः अनुक्षणम् उत्थाय कृष्णफलकस्य समीपं गतवान् । एकं सुधाखण्डं स्वीकृत्य सूत्रस्य फलितांशानां लेखनम् कृतवान् । तत्र केचन अंशाः प्राध्यापकेन विवृताः आसन् । केचन एतावता अपि विवृताः न आसन् ।

तद् दृष्ट्वा प्राध्यापकः सन्तुष्टः चकितः अपि । सः चिन्तितवान् यत् युवकेन अन्तःस्फूर्त्या एव ते अंशाः ज्ञाताः इति । यतः सः विषयः युवकस्य पूर्णतया नूतनः आसीत् ।

सः युवकः तु तत् लिखित्वा पुनः सरलतया स्वस्थाने उपविष्टवान् । एवम् अहं मेधावी, प्रतिभावान् अस्मि' इति तस्य किञ्चिदपि गर्वः नासीत् । मया ज्ञातव्याः विषयाः बहवः सन्ति इत्येव सदा तस्य मनसि भावः आसीत् ।

सः युवकः एव प्रसिद्धः विश्व-विख्यातः भारतीयः गणितज्ञः श्री. श्रीनिवासरामानुजन् । यद्यपि सः अल्पे वयसि एव अनारोग्येण पीडितः सन् दिवङ्गतः तथापि तस्य "सिद्धिः" अद्यापि गणितक्षेत्रे महत्त्वभूता विद्यते ।

सम्भाषणसन्देश:, सप्टेंबर १९९५