भारतस्य अन्तरङ्गम्।

स्वातन्त्र्यसङ्ग्रामस्य कालः। महात्मा गान्धी देशे सर्वत्र सञ्चरन् जनेषु देशभक्तिं जागरयति स्म । देशार्थं यथाशक्ति धनं समर्पणीयम् इति जनान् बोधयति स्म च । तेन प्रभाविताः धनिकाः यथा, तथैव निर्धनाः अपि राष्ट्राय धनं समर्पयन्ति स्म ।कदाचित् गोपबन्धुदासः ठक्करबाप्पा, इत्यादिभिः सह गान्धिवर्यः ओरिसाराज्ये प्रवासं कुर्वन् आसीत् । कस्मिंश्चित् लघुरेल्वेस्थानके ते सर्वे यानस्य आगमनं प्रतीक्षमाणाः उपविष्टवन्तः आसन् ।

अत्रान्तरे कश्चित् वनवासी वृद्धः तत्र आगतवान् । गान्धिवर्यं दृष्ट्वा समीपम् आगत्य श्रद्धया चरणस्पर्शपूर्वकं नमस्कारं कृतवान् । सः केवलं कौपीनधारी आसीत् । नितरां कृशश्व आसीत् । तदीयशरीरस्य दुर्बलता एव बोधयति स्म यत् सः नितरां निर्धनः इति । गान्धिवर्यः अन्ये च तस्य व्यवहारम् आश्चर्येण पश्यन्तः आसन् ।

सः वनवासी वृद्धः कटिवस्त्रेण बद्धं पैसामूल्यकं नाणकं निष्कास्य गान्धिवर्यस्य पदतले समर्पितवान् ।

'राष्ट्रार्थं सर्वे यथाशक्ति धनं समर्पयन्ति । तेन राष्ट्रकार्ये साहाय्यं भवति । किन्तु एतेन वृद्धेन पैसामूल्यकं नाणकं समर्प्यमाणम् अस्ति । एतत् नाणकं नितराम् अत्यल्पम् । राष्ट्रकार्ये अकिञ्चित्करं च। किम् एतादृशस्य नाणकस्य समर्पणेन ?' इति तत्रत्याः सर्वे चिन्तितवन्तः ।

गान्धिवर्यः अपि आश्चर्यम् अनुभवन् पृष्टवान् “एतत् नाणकं किमर्थम् अत्र स्थापितवान् भवान् ?" इति।

तदा सः निर्धनः वनवासी वृद्धः उक्तवान् - "आर्य ! भवान् तु राष्ट्रदेवः । देवदर्शनार्थं यदा वयं गच्छामः तदा देवाय किमपि समर्पयामः खलु ? मया अपि यथाशक्ति समर्पितम्" इति ।

एतत् दृष्ट्वा सन्तुष्टान्तरङ्गः गान्धि-वर्यः पार्श्वस्थं गोपबन्धुदासवर्यम् उक्तवान् - "दृष्टं खलु सर्वम् अपि । एतत् एव भारतस्य अन्तरङ्गं नाम । अत्र निर्धनः अकिश्चनः अपि भावयति यत् यथाशक्ति समर्पणं मम धर्मः इति । एतस्य शरीरं दुर्बलं स्यात्, शक्तिः कुण्ठिता स्यात्, किन्तु आत्मा प्रबलः अस्ति, राष्ट्रभक्तिः अकुण्ठिता अस्ति । एतादृशाः एव भारतस्य प्रतिनिधयः । एते एव राष्ट्रशक्तेः आधारभूताः" इति।

तत्रत्याः सर्वे तं वृद्धं मनसा श्लाघितवन्तः ।

सम्भाषणसन्देश:,ऑक्टोबर १९९५