समय: अमूल्य:।

 झांसीप्रदेशस्य एकः छात्रः उच्चशिक्षणार्थम् अमेरिकादेशं गतवान् । तस्य छात्रावासः महाविद्यालयस्य पुरतः एव अनतिदूरे आसीत् ।

विद्यालयस्य आरम्भः प्रातः अष्टवादनतः आसीत् । प्रथमदिने एव एषः छात्रः विद्यालयं गन्तुं यदा सिद्धः भवन् आसीत् तदा एव अष्टवादनम् अभवत् । तथापि सः मन्दं चलन् विद्यालयं गतवान् । यावत् सः कक्ष्यासमीपं गतवान् तावता छात्रा: कक्ष्याम् आगताः आसन् । पाठस्य आरम्भः अपि जातः आसीत्। शिक्षकः तस्मै कक्ष्यायाम् उपवेष्टुम् अनुमतिं दत्तवान् । किन्तु उक्तवान् "भोः पाण्डेय, भवान् समये न आगच्छति।"

अग्रिमदिने पाण्डेयः समये कक्ष्यां प्राप्तुं प्रयत्नं कृतवान् । परन्तु कथञ्चित् विलम्बः जातः । सः पुनः पञ्चनिमेषविलम्बेन कक्ष्यां प्राप्तवान् । शिक्षकः पुनः उक्तवान् "भोः पाण्डेय, भवान् समये न आगच्छति।"

द्विवारं कक्ष्यायां सर्वेषां पुरतः अपमानितः सः लज्जितः जातः। सः परिशीलितवान् आसीत् यत् तस्मात् ऋते, अन्यः कोऽपि च्छात्रः विलम्बेन न आगच्छति इति। अतः तृतीयदिने सः विशेषप्रयास कृत्वा पञ्चदशनिमेषेभ्यः पूर्वमेव विद्यालयं प्राप्तवान्।

यदा सः तत्र प्राप्तवान् तदा विद्यालयस्य पिहितं द्वारं दृष्टवान्। एकोऽपि छात्रः शिक्षकः वा तत्र न आसीत् । यदा अष्टवादनं भवितुं चतुष्पञ्चनिमेषाः आसन् तदा कर्मकरः आगतवान्, द्वारम् उद्घाटितवान् च । तदनन्तरं द्वित्रनिमेषेषु एव सर्वे छात्रा: शिक्षकाश्च आगताः । सम्यक् अष्टवादने घण्टानादः जातः, तेन सह पाठस्य आरम्भः अपि । एकः च्छात्रः अपि विलम्बेन न आगतवान् ।

पाण्डेयः प्रसन्नः आसीत्, यतः सः अद्य विलम्बेन न, समये आगतवान् आसीत्। परन्तु तदा तस्य आश्चर्यम् अभवत्, यदा च शिक्षकः पुनः उक्तवान् , "भोः पाण्डेय, भवतः  समयपरिज्ञानं नास्ति" इति।

पाण्डेयः उक्तवान् "श्रीमन् ! अद्य अहं विलम्बेन न आगतवान्, अपि तु पञ्चदशनिमेषेभ्यः पूर्वमेव आगतवान् । तथापि भवान् किमर्थम् एवं वदति ?"

तदानीं शिक्षकः मन्दस्मितः सन् उक्तवान् -"द्वित्रनिमेषात्मकेन विलम्बेन आगमनम् अपि न साधु । पञ्चदशनिमेषेभ्यः पूर्वमेव आगत्य द्वारस्य पुरतः स्थितिः अपि न साधु । तेषु निमेषेषु भवान् स्वप्रकोष्ठे किञ्चित् अध्ययनं कर्तुम् अशक्ष्यत् खलु" इति।

एतत् श्रुत्वा लञ्जितः पाण्डेयः आचार्यं क्षमां प्रार्थितवान् । समयस्य मूल्यं जानन् सः अनन्तरकाले समयपरिपालकः जातः ।

सम्भाषणसन्देश:, मे १९९५