अप्रतिम: देशभक्त:।

 भारतस्य स्वातन्त्र्यार्थं लक्षाधिकाः जनाः प्राणार्पणं कृतवन्तः । तत्रापि बहवः युवकाः सद्योविकसितं स्वजीवनकुसुमं भारतमातुः पदतले समर्पितवन्तः । तादृशेषु युवकेषु अन्यतमः दामोदरचापेकरः । १८१८ तमे क्रिस्ताब्दे एप्रिल्मासस्य १८ दिनाङ्के आङ्ग्ला: तं शूलम्  आरोपितवन्तः । 

इयं वार्ता सर्वासु पत्रिकासु आगता । तां वार्ता कश्चित् बालः अपि पठितवान् । वार्तां पठितवतः तस्य रोमाञ्चनम् अभवत् । तस्मिन् दिने तस्मै भोजनं न अरोचत। निद्रा अपि न आगता । पत्रिकां पुनः पुनः पश्यन् सः ताम् अश्रुभिः आर्द्रीकृतवान्।

 तदा आंग्लानां तत् दुष्कृत्यं खण्डयितुम् अपि भारतीयानां किञ्चिदपि धैर्यं न आसीत्। ते सर्वे चापेकरम् एव दूषितवन्तः । जनानां प्रतिक्रियां दृष्ट्वा सः बालकः इतोऽपि खिन्नः। सः चिन्तितवान् 'चापेकरः तु स्वजीवनं समर्पितवान् । किन्तु तेन आरब्धं कार्य तु अपूर्णम् एव अस्ति । अस्मिन् स्वातन्त्र्यमहायज्ञे मया अपि हविः समर्पणीयम् । चापेकरस्य कार्यम् अग्रे अनुवर्तनीयम्" इति । 

रात्रौ निद्राम् अप्राप्नुवन् सः शय्यातः उत्थाय निश्शब्दं देवगृहं गतवान्। तत्र देव्याः भवान्याः विग्रहः आसीत्। बालकः देव्याः पुरतः स्थित्वा "हे भगवति भारतमातुः बन्धविमोचनार्थम् अहम् अपि चापेकरस्य मार्गे अग्रे गच्छामि शत्रुसंहारं कुर्वन् अहमपि जीवन समर्पयामि । अस्मिन् कार्ये सफलता प्राप्तुं माम् आशिषा अनुगृह्णातु" इति।

प्रतिज्ञां तु बहवः कुर्वन्ति । किन्तु आजीवनं तस्य पालयितारः केचन एव भवन्ति। तादृशेषु बालकेषु अन्यतमः आसीत् अयं पराक्रमी बालकः । स्वस्य सर्वस्वमपि राष्ट्रयज्ञे हवीरूपेण समर्पितवान् सः ।

१९०६ तमे वर्षे सः न्यायवादिपदव्यर्थं पठनस्य व्याजेन शिवाजिविद्यार्थिवेतनं प्राप्य इंग्लण्ड्देशं गतवान् । तदा युवकः सः स्ववक्तृत्वेन कवित्वेन च सर्वत्र प्रसिद्धः आसीत् । इंङ्ग्लण्ड्‌देशे अपि सः क्रान्तिकारिकार्यम् आरब्धवान् । स्फोटकानां भुषुण्डीनां च निर्माणार्थम् अपेक्षितानि वस्तूनि रहस्यरूपेण भारतं प्रति प्रेषयति स्म सः । इंग्लण्ड्देशे विद्यमानान् भारतीयविद्यार्थिनः मेलयित्वा प्रेरणादायकैः भाषणैः तान् सर्वान् राष्ट्रियकार्ये योजयति स्म च।

१९१० तमे क्रिस्ताब्दे भारते जाक्सन्‌नामकः आंग्लाधिकारी क्रान्तिकारिभिः मारितः । तस्य हननार्थं विदेशीया भुशुण्डिः उपयुक्ता आसीत् । अतः लण्डननगरे विद्यमानस्य तस्य युवकस्य विषये आंग्लाधिकारिणां संशयः उत्पन्नः । अतः ते तं बद्धवन्तः ।

न्यायनिर्णयार्थं तं भारतं प्रति प्रेषितवन्तः । नौकया आगमनसमये फ्रान्स्-तीरे सः नौकातः जले उत्प्लुत्य पलायनं कृतवान् । किन्तु फ्रान्स् -सैनिकाः उत्कोचं स्वीकृत्यं तं आङ्ग्लसैनिकेभ्यः समर्पितवन्तः ।

भारतदेशे न्यायालयेन तस्य द्विवारं 'जीवनावधि दण्डनं' विहितम् । कारागृहे अधिकारिणः तं बहुधा उपहसन्ति स्म । कदाचित् कश्चित् अधिकारी तम् उक्तवान् "भोः, अस्माकं सर्वकारः बहु दयालुः अस्ति । यदा भवतः पञ्चाशत् वर्षाणि अतीतानि भविष्यन्ति ततः अनुक्षणमेव भवतः विमोचनं करिष्यति" इति ।

तदा सः युवकः हसन् उक्तवान् "तावन्ति वर्षाणि भवतां सर्वकारः भविष्यति इति स्वप्नः अपि मास्तु भवतः" इति । एतत् श्रुत्वा लञ्जितः सः अधिकारी ततः मौनं गतवान् ।

तस्य युवकस्य पत्नी तदा तदा तेन मेलितुं कारागृहं प्रति आगच्छति स्म । तदा सः पत्नीं वदति स्म "पुत्राणां जन्मदानं, गृहनिर्माणम् इत्यादिकम् एव दाम्पत्यजीवनस्य लक्ष्यं न । तादृशं कार्यं चटक-काकादयः अपि कुर्वन्ति । मनुष्यजीवनं विशिष्टम् । सेवया समर्पणेन च जीवनं सार्थकं भवति । अद्य वयम् अस्माकं सुखं, अस्माकं वंशं च नाशितवन्तः । किन्तु तेन निश्चयेन आगामिकाले बहूनां सुखं भविष्यति" इति ।

पश्वात् तं युवकं भारतदेशात् अण्डमान्-द्वीपस्य सेलकारागृहं प्रति प्रेषितवन्तः । तत्र उत्तमः आहारः न दीयते स्म । बहुकठिनं दण्डनं यच्छन्ति स्म । तैलनिर्माणयन्त्रस्य कर्षणार्थं वृषभस्य स्थाने तम् एव बघ्नन्ति स्म । तादृशकठिनदण्डनसमये अपि सः कारागृहे एव महाकाव्यं रचितवान् । कारागृहे विद्यमानेषु अन्येषु सर्वेषु राष्ट्रभक्तिं जागरितवान् च । दशवर्षाणाम् अनन्तरं सः ततः पुनश्च भारतं प्रति प्रेषितः ।

सः विमोचनानन्तरमपि आजीवनं हिन्दुसङ्घटनार्थं सामाजिकपरिवर्तनार्थं च कार्यं कृतवान् । अयमेव अप्रतिमदेशभक्तः, श्रेष्ठः कविः श्री विनायकदामोदर-सावरकरः ।

सम्भाषणसन्देश;, एप्रिल् १९९५