पूर्वं कदाचित् भगवान् बुद्धः देशसञ्चारं कुर्वन् कस्यचित् अरण्यस्य मध्यभागम् आगतवान् । तदा कश्चित् लुण्ठाकः तस्य पुरतः अकस्मात् प्रत्यक्षः जातः । सः छुरिकां प्रदर्शयन् अग्रे आगत्य कोपेन हुङ्कृतवान् ।
एतत्सर्वं दृष्ट्रा अपि बुद्धः किञ्चिदपि न भीतः । सः शान्तस्वरेण लुण्ठाकं पृष्टवान् "मित्र ! मां मारयितुं आगतः वा भवान् ? अहं तु मरणार्थं सिद्धः एव । किन्तु मम अन्तिमा आशा काचित् अस्ति । तां पूरयितुं शक्नुयात् वा भवान् ?" इति ।
"हुँ। का आशा भवतः ?" इति क्रोधत्वरामिश्रितेन स्वरेण च पृष्टवान् लुण्ठाकः । पुरतः एकः वृक्षः दृश्यते खलु ? तस्य एकाम् शाखाम् आनेतुं शक्नुयात् वा भवान् ?" इति शान्तस्वरेण एव पृष्टवान् बुद्धः ।"एतावत् एव खलु ? क्षणद्वयाभ्यन्तरे आनेष्यामि" इति उक्त्वा वृक्षम् आरुह्य एकां लघुशाखाम् उत्पाट्य आनीय बुद्धाय दत्तवान् सः लुण्ठाकः ।
तदा बुद्धः पुनः उक्तवान् "मम अभिलाषः इतोऽपि न पूर्णः। अन्यत् अपि किञ्चित् करणीयम् अस्ति भवता । एषा शाखा पूर्वं यत्र आसीत् तत्र एव योजनीया" इति।
"किम् एतत् प्रलपनं भवतः ? यतः शाखा उत्पाट्यते तत्रैव सा पुनः योजयितुं किं शक्या ?" इति सन्देहेन पृष्टवान् लुण्ठाकः ।
"अहो । एवं तर्हि भवान् शाखाच्छेदनमात्रं जानाति ? तर्हि शिशोः भवतः च कः भेदः अवशिष्टः ? शिशुकार्यं कृतं भवता, तावदेव" इति उक्तवान् बुद्धः ।
लुण्ठाकः प्लानमुखः सन् मौनं स्थितवान् । तदा बुद्धः एव पुनः उक्तवान् "मित्र। जीवापहारविषये अपि एवम् एव खलु ? यः दातुं समर्थः सः एव प्रातुम् अपि अर्हः भवति । जीवदाने असमर्थस्य भवतः जीवहरणे कः अधिकारः?....."
एतत् शृण्वतः लुण्ठाकस्य मुखम् इतोऽपि म्लानं जातम् ।
"मित्र । अलं चिन्तया । मम मारणम् एव यदि भवतः लक्ष्यं स्यात् तर्हि तदेव करोतु । अहं तु मरणार्थं सिद्धः एव अस्मि । भवन्तं निवारयितुं तु सर्वथा न इच्छामि । मां मारयतु तावत्" इति पुनरपि शान्तस्वरेण उक्तवान् बुद्धः ।
यद्यपि सः लुण्ठाकः निर्दयी आसीत्, शताधिकान् मारितवान् आसीत्, बहुत्र लुण्ठनं कृतवान् आसीत् तथापि बुद्धस्य उपदेशेन, दर्शनेन, स्नेहपूर्णैः वचनैः च सः नितरां प्रभावितः जातः । मनःपरिवर्तनं प्राप्य छुरिकां पार्श्वे क्षिप्त्वा सः बुद्धं साष्टाङ्गं नमस्कृतवान् ।
बुद्धः तं प्रीत्या उत्थाप्य प्रेम्णा आलिङ्गय, आशीर्वचनैश्च अनुगृह्य ततः अग्रे गतवान्।
सम्भाषणसन्देश:, एप्रिल् १९९५