कदाचित् कश्चित् बालकः स्वस्य कक्षे उत्पन्नस्य पिटकस्य चिकित्सार्थं चिकित्सालयं गतवान् । वैद्यः उक्तवान् - "रे वत्स । कुत्र पिटकः अस्ति प्रदर्शयतु" इति ।
बालकः "अत्रैव कक्षे। शीघ्रम् औषधोपचारं करोतु" इति उक्तवान् ।
वैद्यः चिन्तमग्न: दृष्टः । बालकः पुनश्च उक्तवान् "आर्य किमर्थं विलम्बः ? शीघ्रमेव औषधोपचारं करोतु" इति।
तदा वैद्यः उक्तवान् - "इयम् अयःशलाका अत्यन्तम् उष्णा, रक्ता च जाता अस्ति । एतस्याः स्पर्शेन भवतः वेदना भवति खलु इति मम चिन्ता" इति ।
"चिन्ता किमर्थम् ? उष्णया शलाकया स्पृष्टं चेदेव एषः पिटकः अपगच्छति । अतः तत्र शलाकास्पर्शः भवेत् । तत्र भवतः कः दोषः ? अपि च पिटकस्य विषये एतावती करुणा किमर्थम् इति अहं न जानामि" इति बालकः उक्तवान् ।
'रे बाल । एतदृश्याः चिकित्सायाः श्रवणात् एव अस्मादृशानां ज्येष्ठानाम् एव भयं भवति । भवान् तु बालः !" इति वैद्यः उक्तवान् ।
"अहं बालः इति भवतः भीतिः भवति वा ? तर्हि अत्र ददातु" इति सः बालकः उक्तवान् ।
"भवान् अनेन किं करोति?" इति पृष्टवान् वैद्यः ।
"तत् यावत् शीतलं न भवति ततः पूर्वमेव अहम् एव पिटकस्य उपरि स्थापयामि" इति ।
"किं भवान् एव स्वस्य शरीरस्य उपरि स्वयम् उष्णशलाका स्थापयति ?" इति आश्चर्येण पृष्टवान् वैद्यः।
"अहं तु मम शरीरस्थस्य पिटकस्य उपरि उष्णशलाकां स्थापयितुम् इच्छामि। भवतः किमर्थम् अस्य विषये तावती दया ?"
"रे वत्स ! महती वेदना भविष्यति रे।" इति वैद्येन उक्तम् ।
"भवतु नाम । इदानीम् एव विद्यनामायाः वेदनायाः अपेक्षया सा अधिकतरा न भवेत् । रोगस्य युक्ता चिकित्सा करणीया एव । वेदनायाः भीत्या चिकित्सा एव किमर्थ परित्यक्तव्या ? भवान् एव उष्णशलाकां स्थापयति, उत अहम् स्थापयामि ?" इति पृष्टवान् बालः ।
बालकस्य वचनानि श्रुत्वा आश्चर्यचकितः वैद्यः बालकस्य वचनानुसारं चिकित्सां निर्वर्तितवान् । चिकित्सासमयेऽपि बालकः किञ्चिदपि भीतिं न प्रदर्शितवान् ।
एषः बालकः यदा प्रौढः अभवत् तदा अपि एषा एव निर्भीकप्रवृत्तिः आसीत् तस्मिन् ।
प्रौढः सः न्यायवादिशिक्षणं प्राप्य न्यायवादिवृत्तिम् आरब्धवान् । सः वादे अत्यन्तं निपुणः आसीत् । अतः तस्य समीपं बहवः न्यायापेक्षिणः आगच्छन्ति स्म ।
कदाचित् सः न्यायालये कस्मिंश्चित् विषये स्ववादं प्रभाविरूपेण उपस्थापयन् आसीत् । तदा न्यायालयस्य सेवकः एकं तन्त्रीसन्देशम् आनीय तस्मै दत्तवान् । तत्र च लिखितम् आसीत् "भवतः पत्नी मृता" इति ।
दुःखस्य वार्तां श्रुत्वा अपि सः स्वमुखे किञ्चिदपि विकारम् अप्रदर्शयन् तत् पत्रं पुटीकृत्य उत्पीठिकायां संस्थाय्य स्ववादं यथापूर्वम् अग्रे अनुवर्तितवान् । यदा न्यायालयस्य कार्यं समाप्तं तदा न्यायालयात् बहिरागत्य सः स्वमित्राणि दुःखवार्ताम् उक्तवान् । तस्य स्थिरचित्तता, कर्तव्यनिष्ठां च दृष्ट्रा सर्वे चकिताः अभवन् ।
एषः धीरः कः इति जानन्ति वा भवन्तः ? एषः सः एव महात्मा, यश्च स्वतन्त्रभारतस्य प्रथमगृहमन्त्री आसीत्, यश्च 'अयोमयः मनुष्यः' इति ख्यातिं प्राप्तवान् आसीत् !!
तस्य नाम - सरदार वल्लभभायी पटेल् ।
सम्भाषणसन्देश:, मार्च १९९५