यशोरहस्यम्।

कस्मिंश्चित् ग्रामे हरिशर्मा नाम कश्चित् दरिद्रः आसीत्। तस्य उद्योगः न आसीत् । तस्य बहवः पुत्राः आसन्। सः कानिचन दिनानि भिक्षाटनं कृत्वा जीवनं यापितवान् । अन्ते सः स्थूलदत्तनामकस्य धनिकस्य गृहे सेवकः अभवत् । तस्य पत्नी अपि तत्रैव कर्मकरी अभवत् । तस्य पुत्राः धनिकस्य गोपालकाः अभवन् ।

कदाचित् धनिकस्य स्थूलदत्तस्य पुत्र्याः विवाहः निश्चितः । बहवः बान्धवाः विवाहार्थं पूर्वमेव आगतवन्तः । हरिशर्मा मनसि एव चिन्तितवान् - "अहम् अपि विवाहार्थ गमिष्यामि । बहुविधानि भक्ष्याणि आकण्ठं भक्षयिष्यामि" इति । किन्तु सः दरिद्र: इति कारणेन विवाहार्थं तं केऽपि न आहूतवन्तः । विवाहदिने तस्मै, तत्परिवारसदस्येभ्यः वा भोजनमपि न दत्तवन्तः ।तेन हरिशर्मा बहु खिन्नः अभवत्। तस्मिन् दिने रात्रौ शयनसन्दर्भे सः स्वपत्नीम् उक्तवान् - "भोः, अहं दरिद्रः इति कारणेन सर्वे अस्माकम् अपमाननं कुर्वन्ति । अतः अहम् अद्य मम बुद्धिम् उपयुज्य कथञ्चित् स्थूलदत्तस्य अश्वम् अपहृत्य कुत्रचित् गोपयामि । भवती श्वः स्थूलदत्तस्य समीपं गत्वा 'मम पतिः ज्योतिषशास्त्रे निपुणः' इति वदतु" इति उक्तवान् ।प्रातःकाले अश्वम् अदृष्ट्वा सर्वे सम्भ्रान्ताः । तदा हरिशर्मणः पत्नी तत्र गत्वा "मम पतिः ज्योतिषं जानाति" इति स्थूलदत्तं निवेदितवती। अनुक्षणं धनिकः हरिशर्माणम् आहूतवान् । तदा तत्र आगतः हरिशर्मा धनिकम् उक्तवान् - "विवाहसमये मम स्मरणं न अभवत् । इदानीम् अन्वः अपहृतः इति कारणतः मम स्मरणं जातम्। एवं ननु?" इति । तदा धनिकः तं क्षमां सम्प्रार्थ्य, भूरिभोजनं च दत्त्वा - "कृपया मम अश्वः कुत्र अस्ति इति वदतु" इति निवेदितवान् ।

हरिशर्मा कपटतया काञ्चन रेखाः लिखित्वा गणनायाः अभिनयं कृत्वा -"नगरस्य दक्षिणभागे उद्याने अश्वः चोरैः गोपितः अस्ति। इदानीम् एव तत्र गतं चेत् अश्व: लभ्यते" इति उक्तवान् ।

अनुक्षणं धनिकस्य सेवकाः तत्र गत्वा अश्वम् आनीतवन्तः । हरिशर्मणः वचने विश्वस्य धनिकः तस्मै बहु उपायनानि दत्तवान् । तस्य सम्माननम् अपि कृतवान् । एवं हरिशर्मा ज्योतिषिकः इति प्रसिद्धः अभवत् ।

कदाचित् तस्य राज्यस्य राजगृहे चौर्यम् अभवत् । राजा अपि हरिशर्मणः विषयं श्रुतवान् आसीत् । अतः सः हरिशर्माणम् आहूय "चोरं गृहीत्वा ददातु । सः धनं कुत्र स्थापितवान् इति श्वः एव भवता वक्तव्यम्" इति आज्ञापितवान् । हरिशर्मणः वासार्थम् एकत्र व्यवस्थां कृतवान् च ।

रात्रौ चिन्तामग्न: हरिशर्मा स्वप्रकोष्ठस्य द्वारं कीलयित्वा स्वगतम् उच्चैः वदन् आसीत् "भोः रसने । भोगलालसया भवत्या किं कृतम् ? तस्य फलम् इदानीम् अनुभवतु" इति। वस्तुतः 'रसना' नाम सेविका स्वस्य पत्युः साहाय्येन महाराजस्य कोशात् धनम् अपहृतवती आसीत् । 'हरिशर्मा किं करोति' इति द्रष्टुं सा तत्र आगतवती आसीत् । हरिशर्मणः वचनं श्रुत्वा सा नितरां भीता। सा अन्तः आगत्य सर्वं हरिशर्माणं निवेद्य क्षमां प्रार्थितवती । 'कथञ्चित् मां रक्षतु । मया अपहृतं धनं सर्वम् उद्याने दाडिमवृक्षस्य अधः स्थापितम् अस्ति" इति उक्तवती।

अनन्तरदिने हरिशर्मा "दाडिम-वृक्षस्य अधः चोरः धनं स्थापितवान् अस्ति" इति महाराजम् उक्तवान् । धनं प्राप्य सन्तुष्टः राजा तस्य सम्माननं कृतवान् । 

कथमस्ति देवस्य विपाकः । दरिद्रःअपि हरिशर्मा धनिकः अभवत्।

सम्भाषणसन्देश:, मार्च १९९५