किं वय:?

 कदाचित् कश्चन मध्यवयस्कः भगवतः बुद्धस्य समीपम् आगत्य उक्तवान् " गुरुदेव!प्रापञ्चिकव्यवहारात् नितरां जुगुप्सित: अस्मि । अतः सन्यासदीक्षां स्वीकर्तुम् इच्छामि । कृपया मह्यं संन्यासदीक्षां भवतः शिष्यत्वं च ददातु । भवतः शिष्यः सन् अहं लोकसेवां करिष्यामि। ततः आत्मनः उद्धारं प्राप्स्यामि" इति।


भगवान् बुद्धः एतत् अङ्गीकृतवान् । स: मध्यमवयस्क: संन्यासदीक्षां प्राप्य भगव‌द्ध्याने मग्नः अभवत्। जनान् नीतिम् उपदिशन् सः जनसेवां च कुर्वन् दिनानि यापयति स्म। एवम् एव दिनानि गतानि। स: वृद्धः जातः।

कदाचित् भगवान् बुद्धः तं स्वसमीपम् आहूय पृष्टवान् ,"भवतः कि वयः ?" इति।

तया स: वृद्धः उक्तवान् ,"मम वय: २५ वर्षाणि" इति।

बुद्धः आश्चर्येण पृष्टवान् ,"दर्शनात् ज्ञायते यत् भवान् सप्ततिवर्षीयः अशीतिवर्षीय: वा स्यात् इति। एवं स्थिते भवान् वदति अहं पञ्चविंशतिवर्षीय: इति। किम् एतत्?" इति।

तदा सः वृद्धः उक्तवान् , "भवता यथा उक्तम् एतस्य शरीरस्य अशीतिवर्षाणि अतीतानि इति तु सत्यम् एव । किन्तु पञ्चविंशतिवर्षेभ्यः पूर्व मया ज्ञानं प्राप्तम्। ततः एव मयि कारुण्यादय: गुणा: उत्पन्ना:। पूर्वतनं जीवनं स्वप्नवत् भासते मम। अत: अहमुक्तवान् 'अहं पञ्चविंशतिवर्षीयः' इति।

एतत् श्रुत्वा भगवान् बुद्धः नितरां सन्तुष्ट:।

सम्भाषणसन्देश:, फेब्रुवारी १९९५