देहलीनगरे बलबीरसिंह-नामकः कार्यानचालकः आसीत् । तस्य समीपे एकं पुरातनं कार्यानम् आसीत् । भाटकरूपेण कार्यानस्य उपयोग कुर्वन् सः जीवनं करोति स्म । यद्यपि तस्य वाहनं प्राचीनम् मासीत्, तथापि सः स्वकार्यानं स्वच्छं व्यवस्थितं च रक्षितवान् आसीत् । सः सर्वैः सह हसन्मुखी सन् विनयेन व्यवहरति स्म। तस्य उत्तमं गुणं दृष्ट्वा बहवः जनाः भाटकार्थं कार्यानं प्राप्तुं तम् अन्विष्यन्त: आगच्छन्ति स्म।
बलबीरसिंहः जीवने कञ्चित् नियमं पालयति स्म । सः स्वस्य वाहनं प्रसिद्धस्य कस्यचित् नायकत्य गृहस्य पुरतः प्रातः काले एवं नयति स्म। यदा सः नायकः गृहात् बहिः आगच्छति तदा तस्मै नमस्कारान् समर्प्य सः स्वस्य दिनचर्याया: आरम्भं करोति स्म ।
कदाचित् बलबीरसिंहस्य कार्यानं एकेन भारवाहकेण (लारिवाहनेन) घट्टितम् अभवत्। तेन तस्य कार्यानं बहु विकृतम् अभवत् । यानस्य बहवः भागाः अपि नष्टाः अभवन् । कार्यानस्य समीकरणार्थ तेन महान् व्ययः कृतः। तथाऽपि तत् पूर्ववत् कार्यं न करोति स्म। कार्यानस्य स्थितिं ज्ञात्वा ग्राहकाः तस्य समीपमपि आगमनं त्यक्तवन्तः । अतः तस्य सम्पादनं न्यूनम् अभवत्। स्वसमीपे विद्यमानं रक्षितं धनम् अपि यानस्य समीकरणार्थ व्ययीकृतम् आसीत् तेन ।
एतेन आपातेन जीवननिर्वहणमेव कष्टकरम् अभवत् । तथापि सः स्वस्य नियमं न त्यक्तवान् । यथापूर्वं तस्य नायकस्य गृहं गत्वा तस्मै वन्दनानि समर्प्य स्वकार्यार्थ गच्छति स्म सः।
प्रतिदिनम् आगत्य नमस्कारं कुर्वन्तं तं बलबीरं सः नायकः स्वसमीपम् आहूय पृष्टवान् "भोः, भवान् प्रतिदिनं मदर्थं प्रतीक्ष्य तिष्ठति खलु? किमर्थं भवान् प्रतिदिनम् अत्र आगच्छति?" इति।
बलबीरः उक्तवान् "भवतः दर्शनेन अहं बहु आनन्दम् अनुभवामि। अतः एवं अहं प्रतिदिनम् आगच्छामि" इति।
तदा नायकः हसन् पृष्टवान् "कि भोः, मम दर्शनेन भवतः उदरपूरणं न भवति खलु ? एतेन कार्यानेन प्रतिदिनं भवान् कियत् सम्पादयति?" इति।
"पूर्वं मम कुटुम्बपोषणार्थम् अपेक्षितं धनम् अहं सम्पादयामि स्म । परन्तु अधुना अपघातस्य अनन्तरं केऽपि यात्रिण: मम समीप न आगच्छन्ति इति कारणेन इदानीं जीवनम् एव कष्टकरम् अभवत्" इति सविस्तर स्वकथां निवेदितवान् सः ।
तदा नायकः उक्तवान् भवान् एक नूतनं कार्यानं क्रीणातु । तेन भवान् अधिकं सम्पादयितुं शक्नोति" इति।
बलबीरसिंहः उक्तवान् "मम समीपे तु धनं नास्ति । वित्तकोषे ऋणं पृष्टवान्। ते प्रतिभूत्वम् इच्छन्ति। मादृशस्य प्रतिभूः सन् को वा ऋणं दापयति ?" इति।
स: नायकः किञ्चित्कालं चिन्तयित्वा बलबीरम् उक्तवान् "भवान् ऋणनिमित्तं वित्तकोषे आवेदनपत्रं समर्पयतु। वित्तकोषस्य अधिकारिण: वदतु यत् प्रतिभूः अहं श्वः मध्याह्ने द्वादशवादने वित्तकोषम् आगत्य हस्ताङ्कनं करिष्यामि इति" इति।
एतावत् उक्त्वा सः नायकः ततः गतवान्। बलबीरः वित्तकोषं गत्वा आवेदनपत्र आपूर्य प्रतिभुवः स्थाने तस्य नायकस्य नाम लिखित्वा दत्तवान्।
अधिकारी तं "नायकस्य नाम लिखित्वा अस्मान् वञ्चयति वा? इति सम्यक् तर्जयित्वा वित्तकोषात् बहि: प्रेषितवान्।
अनन्तरदिने बलबीर: द्वादशवादने वित्तकोषस्य पुरतः प्रतीक्षमाणः स्थितवान् आसीत्। तदा सम्यक् समये कार्यानेन सः नायकः तत्र आगतवान्। बलबीरस्य समीपम् आगत्य उक्तवान् "भवता आवेदनपत्रं पूरितं खलु? पत्रे हस्ताङ्कनं कृत्वा गमिष्यामि" इति।
बलबीरः पूर्वदिने प्रवृत्तं सर्वं निवेदितवान्। यथा सः नायकः बलबीरेण सह अन्त: गतवान् तदा अधिकारी धावन् आगत्य "भवता वार्ता प्रेषिता चेत् अहम् एव आगमिष्यम्। भवतः अत्र आगमनस्य आवश्यकता न आसीत्" इति विनयेन उक्तवान्।
नायकः उक्तवान् ,"अहं बलबीरस्य प्रतिभूः अस्मि। मया कुत्र कुत्र हस्ताङ्कनं करणीयम् अस्ति इति शीघ्रं वदतु। मया अन्यत्र गन्तव्यम्" इति।
अधिकारी अनुक्षणम् एव सम्बद्धानि सर्वाणि पत्राणि आनीय तेषु तस्य नायकस्य हस्ताङ्कनं स्वीकृत्य बलबीराय ऋणं दतवान् ।
तेन धनेन नूतनं यानं क्रीत्वा बलबीरः सुखेन जीवनं कृतवान्।
अनन्तरम् अपि प्रतिमासम् अंशक्रमेण अर्धं धनं बालबीरस्य लेखायां वित्तकोषे सः नायकः पूरितवान्।
स: नायकः एव अस्माकं देशस्य प्रथमः प्रधानमन्त्री श्री जवाहरलाल् -नेहरूवर्यः।
सम्भाषणसन्देश:, फेब्रुवारी १९९५