पूर्वं काचित् नदी आसीत् । नदीतीरे कश्चन संन्यासी निवसति स्म । संन्यासी प्रतिदिनं नद्यां स्नानं कृत्वा जपादिकं कुर्वन् जनान् च उपदिशन् दिनानि यापयति स्म।
कस्यचित् उत्सवस्य निमित्तं कदाचित् बहवः जनाः स्नानार्थ नदीम् आगतवन्तः । अतः नदीतीरें महान् सम्मर्दः आसीत् । प्रतिदिनम् इव संन्यासी स्नानं समाप्य कुटीरं प्रति प्रस्थितवान् । जनानां स्पर्शतः, स्नानेन शुद्धस्य मम अशुचिः-स्यात् इति चिन्तयन् सः मार्गस्य पार्श्वे जागरूकतया गच्छन् आसीत् ।
कश्चन निम्नकुलीयः अपि स्नानं समाप्य तेन मार्गेण गच्छन् आसीत् । संन्यासिनः आगमनं दृष्ट्रा सः निम्नकुलीयः विनयेन मार्गपार्श्वे स्थितवान् । मार्गस्य पार्श्वभागे एव संन्यासी आगच्छन् आसीत् खलु ? यदा सः निम्नकुलीयस्य समीपम् आगतवान् तदा वायुः वेगेन आगतः । तेन निम्नकुलीयस्य वस्त्रेण संन्यासिनः शरीरं स्पृष्टम् अभवत् ।
एतेन संन्यासिनः महान् कोपः आगतः । सः कठोरैः शब्दैः निम्नकुलीयस्य निन्दनं कृतवान् । निश्नकुलीयः तु एतस्याः घटनायाः अनन्तरम् अपि शान्ततया एव आसीत् ।
एतत् दृष्टवतः संन्यासिनः कोपः प्रवृद्धः । सः निम्नकुलीयं निन्दितवान् -"स्नात्वा आगच्छन्तं शुचिर्भूतं मां स्ववस्त्रेण स्पृशन् अशुचिं कृतवान् भवान् । कथं व्यवहरणीयम् इति न जानाति भवान् । जात्या अधमस्य भवतः कियत् औद्धत्यम् !..." इति ।
तदा सः निम्नकुलीयः शान्तस्वरेण उक्तवान् - "श्रीमन् ! किं मया अनुचितं कृतम् ? वायुकारणतः मम वस्त्रस्य स्पर्शः जातः स्यात् । मया बुद्धया किमपि न कृतम्" इति।
"हुँ। सर्वं मिथ्या । मम अशुचिः भवतु इति उद्देशेन एव भवान् मार्गपार्श्वे स्थितवान् आसीत् । रे कुलाधम ! मादृशानाम् अशुचितासम्पादनेन एव भवादृशानां तृप्तिः । माम् अशुचि कृत्वा पुनः आत्मानं समर्थयति अपि भवान् । धिक् भवन्तम् । धिक् अनाचारम्" इति पुनः निन्दितवान् संन्यासी ।
"श्रीमन् ! मया ..."
"अये, अलम् आत्मसमर्थनेन । चण्डाल ! भवत्कारणतः मया पुनरपि नदीजलेन स्नानं करणीयम् आपतितम् । इदानीम् एव स्नातम् आसीत् मया । मम स्नानं व्यर्थीकृतं भवता ।"
मया भवतः स्नानं व्यर्थीकृतं वा न वा इति अहं न जानामि । भवान् तु इदानीं मम स्नानं व्यर्थीकृतवान् । स्नातेन अपि मया इदानीं पुनः स्नानं करणीयम्।"
"किम् उक्तं भवता ? मम कारणतः भवता पुनः स्नानं करणीयं वा ? अहं संन्यासी। मम कारणतः भवता किमर्थं स्नानं करणीयं भवेत् ?" इति आश्चर्येण पृष्टवान् संन्यासी ।
"वस्तुतः पण्डिताः वदन्ति - कोपः एव चण्डालः इति । तादृशः चाण्डालरूपः कोपः भवति स्थितवान् । तेन भवान् अशुचिः जातः । अशुचिः भवान् कोपवचनैः मा स्पृष्टवान् । अतः मम अशुचिता आगता । तस्याः निवारणार्थं मया स्नानं करणीयम्" इति उक्त्वा नदीं प्रति प्रस्थितवान् सः निम्नकुलीयः ।
आत्मनः दोषं ज्ञात्वा संन्यासी लज्जया शिरः अवनमितवान् ।
सम्भाषणसन्देश:, फेब्रुवारी १९९५