प्राचीनकाले हस्तिनापुरे अनङ्गपालः नाम राजा आसीत् । सः बहु न्यायप्रियः आसीत् । तस्य राज्ये यः कोऽपि यदा कदापि आगत्य न्यायं प्रार्थयितुं शक्नोति स्म ।
न्यायप्रार्थना सुलभा भवतु इति उद्देशेन राजा स्वप्रासादस्य पुरतः सिंहयोः मूर्तिं निर्माय तयोः उपरि एकैकं दण्डं बद्ध्वा तस्मिन् दण्डे घण्टां बद्धवान् आसीत् । यः राजानं न्यायनिर्णयं प्रार्थयितुम् इच्छति सः आगत्य घण्टां वादयति चेत् राजा स्वयमागत्य न्यायनिर्णयं करोति स्म।
एकदा एकः काकः आगत्य तस्याः घण्टायाः उपरि उपविष्टवान् । तेन स्वयमेव घण्टनादः अभवत् । राजा अनङ्गपालः घण्टानादं श्रुत्वा द्वारपालकम् आहूय "कः घण्टानादं कुर्वन् अस्ति ?" इति पृष्टवान् ।
सेवकः गत्वा दृष्ट्वा प्रत्यागत्य उक्तवान् "एकः काकः आगत्य घण्टायाः उपरि उपविष्टवान् । अतः घण्टानादः अभवत्" इति ।
राजा उक्तवान् - "प्रायः सः काकः मत्तः न्यायम् इच्छति । सः किम् इच्छति इति ज्ञात्वा आगच्छतु" इति।
सेवकः गत्वा दृष्टवान् । काकः तत्रैव आसीत् । सः काकः किमर्थं तत्र उपविष्टवान् इति सः न ज्ञातवान् । अन्यान् अपि कांश्चन पृष्टवान् । ते अपि किमर्थं काकः तत्र उपविष्टः इति न ज्ञातवन्तः ।
तत् ज्ञात्वा राजा स्वयं तत्र आगतवान् । सः काकं दृष्ट्वा "एषः काकः बुभुक्षितः अस्ति । अतः तत्र उपविष्टवान् अस्ति' इति ज्ञातवान् । तत्र काकेन खादितुं खाद्यं किमपि न आसीत् । अतः राजा सेवकान् आज्ञापितवान् - "एषः काकः बुभुक्षितः अस्ति । अस्य कृते मांसखण्डान् आनीय स्थापयन्तु" इति ।
सेवकाः मांसखण्डान् आनीय स्थापितवन्तः । काकः तान् खादित्वा सन्तोषेण ततः गतवान् ।
सामान्याः जनाः चेत् काकस्य उपेक्षाम् अकरिष्यन्, शिलाखण्डक्षेपणेन काकं दूरम् अप्रेषयिष्यन् वा । न्यायप्रियः राजा तु काके अपि दयां कुर्वन् तस्य अपेक्षाम् अवगत्य आहारव्यवस्थां कृतवान् ।
सम्भाषणसन्देश:, जानेवारी १९९५