स्वातन्त्र्यात् पूर्वं कलकत्तानगरे गङ्गाप्रसादः नाम कश्चन वैद्यः आसीत् । तस्य पुत्रः महाबुद्धिमान् । सतताध्ययनेन सः गणितशास्त्रे भौतशास्त्रे च स्नातकोत्तरपदवीं (एम्.ए.) प्राप्तवान् । विद्यार्थिदशायाम् एव सः गणित-शास्त्रसम्बन्धीनि संशोधनलेखनानि लिखितवान् आसीत् ।
एतस्य प्रतिभां दृष्ट्वा तत्कालीनः शिक्षणाधिकारी चार्ल्स क्रापट्वर्यः निवेदितवान् यत् प्रेसिडेन्सि-महाविद्यालये भवता प्राध्यापकत्वेन कार्य करणीयम् इति ।
तदा एषः नियमद्वयं सूचितवान् आसीत् यत् अहं संशोधनकार्ये मग्रः अस्मि इत्यतः अन्यप्रदेशं प्रति अहं न प्रेषणीयः इति, आङ्ग्लप्राध्यापकाय यावत् वेतनं दीयते तावदेव मह्यम् अपि दातव्यम् इति च ।
किन्तु सः आंग्लाधिकारी द्वितीयं नियमम् अङ्गीकर्तुं न सिद्धः आसीत् । अतः एषः 'भवतां पक्षपातनीति वर्गभेदनीतिं च धिक्' इति उक्त्वा ततः निर्गतवान् ।
एषः अग्रे न्यायशास्त्रम् अधीत्य न्यायवादिवृत्तिम् आश्रितवान् । एषः सदा अपि भारतीयं वेषभूषणम् एव धरति स्म, न अन्यत् ।
कदाचित् एषः अलीगढतः कलकत्तां प्रति धूमशकटयानेन प्रथमश्रेणीके प्रकोष्ठे उपविश्य गच्छन् आसीत् । मध्येप्रयाणं कश्चन आङ्ग्लाधिकारी तं प्रकोष्ठं प्रविष्टवान् । तत्र सामान्यं वेषं धृत्वा सुखेन उपविष्टं भारतीयं दृष्ट्वा सः नितरां कुपितः । किन्तु भारतीयः अपि योग्यं शुल्कं दत्त्वा एव तत्र उपविष्टवान् आसीत् इत्यतः सः आङ्ग्लाधिकारी किमपि वक्तुं कर्तुं वा न शक्तवान् ।
किञ्चित्कालानन्तरं सः भारतीयः निद्रां कृतवान् । तदा सः आङ्ग्लाधिकारी भारतीयस्य पादरक्षां वातायनात् बहिः क्षिप्तवान्, मौनं शयनं कृतवान् च ।
ततः अल्पे एव काले जागरितः भारतीयः परितः दृष्ट्वा ज्ञातवान् यत् पादरक्षा न दृश्यते इति। 'आङ्ग्लाधिकारी एव अत्र कारणम्' इति ज्ञातवान् सः मन्दम् उत्थाय आङ्ग्लाधिकारिणः प्रावारकं वातायनात् बहिः क्षिप्तवान्, सुखेन निद्रां कृतवान् च ।
प्रातः स्वस्य प्रावारकं कुत्रापि अपश्यन् आङ्ग्लाधिकारी भारतीयं क्रोधेन पृष्टवान् "मम प्रावारकं कुत्र ?" इति ।
तदा भारतीयः शान्तस्वरेण एव उक्तवान् "प्रायः मदीयां पादरक्षाम् अन्वेष्टुं गतं स्यात्" इति ।
एतत् उत्तरं श्रुत्वा सः आङ्ग्लाधिकारी भारतीयं ताडयितुं मनः कृतवान् । किन्तु भारतीयस्य आजानुबाहुतां दृष्ट्वा सः मौनम् आश्रितवान् ।
एषः स्वाभिमानी कदाचित् शिक्षणसमिति-सदस्यत्वेन मैसूरु-महाराजेन आहूतः आसीत् । एषः यथापूर्व सामान्यं भारतीयं वेषं धृत्वा राजसभां गन्तुम् उद्युक्तः । तदा महाराजस्य कार्यदर्शी सूचितवान् 'राजसभायाः गौरवानुगुणं विशेषवेषं धृत्वा आगच्छतु' इति । एतेन कुद्धः एषः अभिमानधनः ततः निर्गन्तुम् उद्युक्तः ।
तावता महाराजेन एषा वार्ता ज्ञाता । सः क्षमां प्रार्थयन् स्वयं तं सादरं स्वागतीकृत्य यथोचिते आसने उपवेशितवान् ।
एषः अभिमानधनः अग्रे कलकत्ता-विश्वविद्यालयस्य कुलपतित्वेन अपि कार्यं कृतवान् । स्वयं संस्कृतज्ज्ञः अपि सः संस्कृतवर्धनार्थं बहुधा कार्य कृतवान् ।
अतः तेन 'सरस्वती' इति, 'शास्त्रवाचस्पतिः' इति च प्रशस्तिः अपि प्राप्ता । बङ्गालसंस्कृतसङ्घस्य - अध्यक्षत्वेन तेन १५ वर्षाणि यावत् संस्कृतसेवा अपि कृता ।
एषः महापुरुषः एव श्रीमान् आशुतोषमुखर्जी ।
सम्भाषणसन्देश:, जानेवारी १९९५