कुम्भकर्णस्य निद्रा लोके सुविख्याता । तस्य कारणम् अस्ति यत् सः षट् मासान् निद्रां करोति स्म। कुम्भकर्णः जन्मना एव पर्वताकारः । बाल्ये एव वयसि सहस्रशः जनाः तेन खादिताः ।
तं संहर्तुम् इन्द्रः ऐरावतम् आरुह्य आगतः । तदवसरे कुम्भकर्णः ऐरावतस्य एकं दन्तं भञ्जितवान् । एतस्मात् भीतः इन्द्रः देवलोकं प्रतिगत्य ब्रह्मदेवं प्रवृत्तं सर्वम् अवदत् । तदा ब्रह्मणा शापः दत्तः "अयं सर्वदा निद्राधीनः भवतु" इति ।
ततः कुम्भकर्णः रावणविभीषणयोः साहाय्येन महायज्ञं कृतवान् । तस्मात् सन्तुष्टः ब्रह्मा यज्ञस्थलम् आगतवान् । तदा कुम्भकर्णः 'इन्द्रासनं' याचितुम् इष्टवान् । किन्तु जिह्वास्खालित्यकारणात् 'निद्रासनं' प्रार्थितवान् । ब्रह्मा मन्दहासपूर्वकं 'तथास्तु' इति उक्तवान् ।
जातं प्रमादम् अवगतवान् रावणः कुम्भकर्णम् असूचयत् "भोः, निर्देवत्वं याच" इति ।
तदा कुम्भकर्णः निर्देवत्वम् इति वक्तव्ये 'निद्रावत्त्वं देहि' इति प्रार्थितवान् । ब्रह्मा पुनरपि मन्दहासं प्रकटयन् 'तथास्तु' इति उक्त्वा ततः अदृश्यः अभवत् ।
एतस्मात् रावणः नितरां खिन्नः । 'अनुजस्य निद्रावत्ता कथमपि निवारणीया' इति सङ्कल्प्य सः स्वयं ब्रह्मदेवम् उद्दिश्य तपः अकरोत् । तपसः अन्ते ब्रह्मा प्रत्यक्षः जातः । 'कुम्भकर्णस्य निद्रावत्ता निवारणीया' इति रावणः ब्रह्मदेवं याचितवान् ।
तदा ब्रह्मा अवदत् "पूर्वं दत्तः वरः प्रतिसंहर्तुं न शक्यः" इति ।
तत् श्रुत्वा रावणः प्रार्थितवान् "अर्धवर्षं यावत् वा सः निद्राबाधाहीनः भवतु" इति । 'तथास्तु' इति उक्त्वा ब्रह्मा अन्तर्धानं प्राप्तवान् ।
एवं कुम्भकर्णः स्वस्य जिह्वादोषकारणतः निद्रावत्त्वं प्राप्तवान् । ततः रावणस्य प्रयत्नात् तदीयायाः निद्रायाः अवधिः षण्मासात्मकः जातः ।