भगवान् बुद्धः शिष्यैः सह देशसञ्चारं कुर्वन् जनान् नीतिं बोधयति स्म । कदाचित् वृष्टेः अभावतः श्रावस्तीपरिसरे महान् क्षामः उद्भूतः। राजा यद्यपि क्षामनिवारणार्थम् आहाराभावसमस्यां परिहर्तुं च यथाशक्ति प्रयत्नं कुर्वन् आसीत्, तथापि क्षामस्य पीडया जनाः कष्टम् अनुभवन्तः एव आसन् । भगवान् बुद्धः देशस्य एतां परिस्थितिं दृष्ट्वा नितरां खिन्नः ।
क्षामपीडापरिहारार्थ किमपि करणीयम् इति निश्चित्य सः प्रमुखान् कांश्चित् मेलितवान् । देशस्य स्थितिं निवेद्य, करणीयस्य कार्यस्य महत्त्वं चापि सः वर्णयित्वा पृष्टवान् "भवत्सु कः निर्धनानां बुभुक्षां निवारयितुं शक्नोति ?" इति ।
क्षणकालं सभायां मौनं व्याप्तम् । सर्वे परस्परं मुखं पश्यन्तः उपविष्टवन्तः आसन् । तदा कश्चन धनिकः वणिक् उत्थाय उक्तवान्- "भगवन् ! निर्धनानां बुभुक्षा निवारणीया इति चिन्तनं युक्तम् एव । अवश्यं करणीयं कार्यम् एतत् । किन्तु मम समीपे यत् ऐश्वर्यम् अस्ति तत् एतस्य महतः कार्यस्य निमित्तम् अत्यल्पम्" इति ।
तदा सेनाधिकारी कश्चित् उत्थाय उक्तवान् ,"यदि आवश्यकता भवति तर्हि मम शरीरस्य रक्तेन तर्पणं कुर्याम् । मम सैनिकाः अपि आत्मसमर्पण कुर्युः । किन्तु निर्धनेभ्यः दातुम् आहार: तु अस्मत्समीपे नास्ति" इति ।
एतदनन्तरं विशालभूमेः स्वामी उत्थाय उक्तवान्- "मम विशाला भूमिः यद्यपि अस्ति, तथापि ततः आयः नास्ति इदानीम्। यदि मम भूमिः समृद्धा स्यात् तर्हि अहं मम समग्रां सम्पत्तिं निर्धनेभ्यः अर्पयेयम् । प्रकृतन्तु करदानेपि कष्टम् अनुभवन् अस्मि।"
अन्ते सुप्रिया नाम भिक्षुः उत्थाय दृढस्वरेण उक्तवती "अहं निर्धनानां बुभुक्षां निवारयिष्यामि " इति ।
तदा तत्र सम्मिलिताः सर्वे आश्चर्येण पृष्टवन्तः "कथं शक्यते एतत् ? भिक्षायाचनेन स्वजीवनं यापयन्ती भवती कथं वा समस्त-निर्धनजनतायाः बुभुक्षां निवारयितुं शक्नुयात् ?" इति ।
तदा सुप्रिया शान्तेन, किन्तु दृढेन स्वरेण उक्तवती "अहं स्वयं निर्धना, भिक्षायाचनपूर्वकं जीवनं यापयामि इत्येतत् सत्यम् एव । किन्तु स्मरन्तु - भिक्षा एव ममं शक्तिः । मम निकटे भिक्षापात्रम् अस्ति। देशे धनिकाः अपि सन्ति बहवः। निर्धनानां बुभुक्षायाः निवारणार्थम् अपेक्षितानि धान्यानि तेषां धनिकानां धान्यागारेषु सन्ति । अतः न कोऽपि क्लेशः मम कार्ये" इति ।
आत्मविश्वासयुक्तम् एतत् वचनं श्रुत्वा तत्र सम्मिलिताः सर्वे आश्चर्येण स्तब्धाः अभवन् । भगवान् बुद्धः मन्दहासपूर्वकं सुप्रियाम् आशीर्वादेन अनुगृहीतवान्।
सम्भाषणसन्देश: ,जून १९९५