परीक्षिद्राज: अर्जुनस्य पौत्रः । सः अभिमन्योः पुत्रः। पाण्डवानां महाप्रस्थानस्य अनन्तरं परीक्षित् राजा जातः । सः पण्डितः विवेकी च आसीत् । प्रजानां क्षेमार्थं सः बहूनि कार्याणि अकरोत् ।कदाचित् राजा मृगयार्थम् अरण्यं गतवान् आसीत् । तत्समये सः सरस्वतीनदीतीरे राजवेषं धृतवन्तं कञ्चित् दुष्टं पुरुषं दृष्टवान्। स च दुष्टः पुरुषः, एकेन एव पादेन तिष्ठन्तम् एकं श्वेतवृषभं दण्डेन प्रहरन् आसीत् । तस्य पार्श्वे एका साध्वी धेनुः आसीत्। तस्याः नेत्राभ्याम् अश्रूणि स्रवन्ति स्म।
एतत् दृष्ट्वा कुपितः राजा तस्य पुरुषस्य समीपं गत्वा "भोः, किमर्थम् एतं वृषभं पीडयति भवान् ? अहम् एतस्य देशस्य राजा अस्मि । मम शासने, विना कारणं कस्यापि पीडनार्थं नास्ति अधिकारः" इति उक्तवान् ।
ततः सः वृषभं पश्यन् पृष्टवान् "कथं भवतः त्रयाणां पादानां नाश: अभवत् ? एतादृशं कष्टं किमर्थं भवतः ?" इति।
तदा वृषभः अवदत् "मम एतस्य कष्टस्य कारणं कि स्यात् इति भवान् एव ऊहां करोतु । केचन वदन्ति - इन्द्रियाणां कारणतः कष्टानि इति । पुनः केचन वदन्ति पूर्वजन्मनः कर्मणां कारणतः कष्टानि इति। अन्ये केचन दैवकारणतः इति वदन्ति । अत्र किं सत्यम् इति अहं न जानामि । कृपया भवान् एव विचिन्त्य वदतु" इति ।परीक्षित् किञ्चित्कालं चिन्तनं कृतवान् ।
सम्यक् चिन्तनात् सः ज्ञातवान् "एषः वृषभरूपः साक्षात् धर्मः एव । तपः, सच्चारित्र्यं, दया, सत्यं चेति धर्मस्य चत्वारः पादा:। तपसः, सच्चारित्र्यस्य, दयायाः च नाशात् इदानीं सत्यरूपः पादः एकः एव अवशिष्टः अस्ति। अधर्मस्य आश्रयभूतः कलिः एव एषः दुष्टः पुरुषः। एषः धर्मस्य सत्यरूपं पादम् अपि भञ्जयितुं प्रयत्नं कुर्वन् अस्ति। पार्श्वे या धेनुः अस्ति सा भूदेवी। अधर्मस्य पीडाम् असहमाना सा रोदनं करोति' इति।
अनन्तरं सः धर्मं भूदेवी च उद्दिश्य -'भीतिः मास्तु भवतोः' इति उक्त्वा तयोः सान्त्वनं कृतवान् । ततः तीक्ष्णं खड्गं कोषात् आाकृष्य कलि संहर्तुम् उद्युक्तः अभवत् च ।
एतत् दृष्ट्वा भीत्या कम्पमानः कलिपुरुषः परीक्षिद्राजस्य पादौ गृहीत्वा क्षमां याचमानः शरणं गतवान्। शरणागतस्य संहारं कर्तुम् अनिच्छन् परीक्षित् "यद्यपि शरणं गच्छन् भवान् स्वस्य प्राणान् रक्षितवान्, तथापि अधर्मबन्धुः भवान् मम राज्ये न तिष्ठेत्। निर्गच्छतु भवान् इतः" इति आदिष्टवान् ।
तदा कलिपुरुषः "महाराज ।भवतः आज्ञां शिरसा पालयामि । किन्तु, समग्रं भूमण्डलम् एव भवतः राज्यम्। एवं स्थिते मम वासः कुत्र वा स्यात् ? यथाकथञ्चित् मया अपि कुत्रापि वासः तु करणीयः एव खलु ? अतः यत्र अधर्मः, द्यूतं, मद्यपानं, हिंसा, असत्यं, मदः, वैरम् इत्यादयः भवन्ति तत्र वा मम वासार्थम् अनुज्ञां ददातु" इति प्रार्थितवान् ।
सम्भाषणसन्देश:, जून १९९५
एतस्य कारणतः धर्मादीनां हानिः न भवति इत्यतः परीक्षित् एतत् अङ्गीकृतवान् ।
अतः एव इदानीं पण्डिताः वदन्ति -'यत्र अधर्म-द्वेष-हिंसादयः भवन्ति तत्र कलिपुरुषः निवसति' इति।