१५) उज्ज्वला स्वातन्त्र्यप्रीति:।

शङ्करशाहः गोण्डवंशे जातः राष्ट्रप्रेमी राजा। आङ्ग्लशासनकारणतः तस्य राजत्वम् आसीत् नाममात्रेण। सः कविः अपि। तेन रचितानि गीतानि जनाः गायन्ति स्म सर्वदा।

आ‌ङ्ग्लाः जबलपुरपरिसरे (मध्यप्रदेशे) स्थितान् संस्थानाधीशान् भूस्वामिनः च विविधैः व्याजैः पीडयन्ति स्म। तस्मात् तेषु आङ्ग्लशासनविषये असन्तोषः प्रसृतः आसीत्। तेषां सर्वेषां सम्पर्कः आसीत् शङ्करशाहस्य। सः आत्मीयान् वदति स्म 'युगपत् सर्वत्र आ‌ङ्ग्लविरोधः यदि क्रियेत तर्हि निश्चयेन सर्वकारः कम्पितः भवेत्' इति।

आङ्ग्लसैन्ये उद्योगे स्थिताः राष्ट्रभक्तिमन्तः बहवः सैनिकाः शासनविरोधं कर्तुं मनसा सज्जाः आसन्। कदाचित् एतादृशानां काचित् सभा आयोजिता शङ्करशाहेन। तत्र तस्य पुत्रः त्रयोविंशतिवर्षीयः कुँवररघुनाथशाहः अपि भागं गृहीतवान्। सभायां निर्णीतं यत् अग्रिमे नवरात्रारम्भदिने सर्वत्र शासनविरोधः करणीयः सैनिकैः इति। एतं सन्देशं प्रसारयितुं राज्ञा लिखितं देशभक्तिप्रेरकं गीतम् उपयोक्तव्यम् इत्यपि निर्णीतम्।

किन्तु दौर्भाग्येण कश्चन भूस्वामी धनाशया एतां वार्ताम् आङ्ग्लान् प्रापितवान्। अतः आरम्भात् पूर्वम् एव योजना वैफल्यं प्राप्नोत्। आङ्ग्लाः शङ्करशाहं, तस्य पुत्रं रघुनाथशाहं च कारागारे स्थापितवन्तः।

कारागारस्थौ तौ उक्तौ "राजविद्रोहयोजनायां ये सहभागिनः स्युः तेषां नामानि सूचितानि चेत् विमोचनं करिष्यते" इति। किन्तु शङ्करशाह: रघुनाथशाहः वा एतं प्रस्तावं न अङ्गीकृतवन्तौ।

आङ्ग्लसर्वकारेण निर्णीतं यत् एतयोः शूलारोपणं करणीयम् इति। 'न्यायालयं प्रति यदि प्रकरणं नीयेत तर्हि महान् विलम्बः भवेत्। अतः अविलम्बेन एव दण्डस्य निर्णयः करणीयः' इति अचिन्तयन् आङ्ग्लाः।

अतः झटिति विचारणानाटकं विहितम्। १८५७ तमे वर्षे सप्टेंम्बरमासस्य १८ दिनाङ्के शतघ्नीतः निर्गते गोलकास्त्रे तयोः प्राणान् अपाहरताम्। एतस्याः आहुतेः कारणतः स्वातन्त्र्यसमराग्निः इतोऽपि तेजोमयः जातः।