१४) मानवता रक्षणीया।

महर्षेः वसिष्ठस्य शतं पुत्राः आसन्। तस्य ज्येष्ठपुत्रस्य नाम शक्तिः इति। शक्तिः महातपस्वी स्वाभिमानी महाक्रोधी च आसीत्।

एकदा शक्तिः वने एकाकी अटन् आसीत्। मार्गः सङ्कीर्णः आसीत्। मार्गम् उभयतः कण्टकादयः आसन्। तस्मिन् एव मार्गे कल्याणपादः नाम नृपः मृगयार्थम् आगच्छन् आसीत्। सङ्कीर्णताकारणतः शक्तिः मार्गे स्थित्वा नृपस्य मार्गस्य अवरोधं कृतवान्। एतत् दृष्ट्वा क्रुद्धः राजा कशया शक्तिं प्रताडितवान्। मुनिः शक्तिः कुपितः सन् नृपाय शापं दत्तवान् 'दानवः भव' इति। राजा राक्षसः अभवत्।

किन्तु शक्तिमुनिना दत्तः शापः तस्य एव घातकः अभवत्। यतः नृपः राक्षसत्वं प्राप्य मुनिमेव खादितुं धावितवान्। तदा मुनिः शक्तिः अवदत् "दुष्ट ! भवान् ब्रह्महत्यां करिष्यति किम् ? ब्रह्महत्या पापकरी। अतः ब्रह्महत्यां मा करोतु" इति।

तदा राक्षसः उक्तवान् "प्रियवर ! मम मानवतायाः हननं तु भवता एव कृतम्। मां भवान् मानवात् दानवरूपेण परिवर्तितवान्। अधुना तु मम इदमेव कार्यम्। अहं भवन्तं मारयित्वा बुभुक्षायाः निवारणं करिष्यामि। अयमेव मम धर्मः। केवलं भवन्तमेव न, अपि तु भवतः सर्वेषां बान्धवानाम् अपि मारणं करिष्यामि" इति।

एवम् उक्त्वा राक्षसः कल्याणपादः शक्तिमुनिं मारयित्वा स्वबुभुक्षायाः निवारणं कृतवान्। तदनन्तरं सः मुनेः बान्धवान् अपि मारयित्वा खादितवान्।

मानवस्य मानवतायाः नाशनेन एव इदं सर्वम् अभवत्। अतः सर्वदा मानवतायाः रक्षणं अस्माभिः करणीयम्।