कदाचित् कश्चन गुरुः शिष्यान् तिस्र: प्रतिमाः दर्शयन् अपृच्छत् "एतासां परस्परभेदः कः ?" इति ।
प्रतिमाः परीक्ष्य शिष्याः अवदन् "एका लवणनिर्मिता, अपरा वस्त्रनिर्मिता, अन्या शिलानिर्मिता च।"
"एताः जले स्थापयत" इति अवदत् गुरुः। शिष्यैः तथैव कृतम्। लवणमयी जले विलीना जाता। वस्त्रमयी तु आर्द्रा सती अपि स्वीयेन रूपेण अतिष्ठत्। शिलाप्रतिमा तु जले मज्जनं प्राप्य अपि अल्पम् अपि विकारं न प्राप्नोत्।
एतत् विवृत्य गुरुः अवदत् "जलं ज्ञानम् इव। शिलाप्रतिमा इव भवन्ति केचन। ज्ञाने निमज्ज्य, तन्नाम ज्ञानं प्राप्य अपि स्वस्मिन् किमपि परिवर्तनं न प्राप्नुवन्ति ते। अहङ्कारादि-कारणतः ते शिलावत् भवन्ति। वयं तु एतादृशाः न स्याम।..."
"वस्त्रनिर्मितप्रतिमा किं तत्त्वं ज्ञापयति ?" कश्चन शिष्यः अपृच्छत्।
"सा जलं स्वस्य अन्तः स्वीकरोति। केचन ज्ञानपिपासावन्तः भवन्ति। ते गुरुमुखेन, ज्येष्ठानां व्यवहारेण, पुस्तकाध्ययनेन वा ज्ञानं सम्पादयन्तः तदनुगुणम् आचरन्तः विकासमार्गे अग्रे गच्छन्ति। जन्मना एव अतिविशिष्टाः असन्तः अपि एतादृशाः स्वविकासाय प्रयतमानाः यथाशक्ति विकासं प्राप्नुवन्ति।.."
"जले विलीना लवणमयी प्रतिमा किं सङ्केतयति ?" अपरेण शिष्येण पृष्टम्।
"एतादृशाः भवन्ति ज्ञानिनः। एते प्रतिदिनम् ज्ञानम् अर्जयन्तः तदनुगुणम् आचरन्ति। स्वत्वविलोपं साधयन्तः ते ज्ञानरूपताम् एव प्राप्नुवन्ति। निरन्तरं ज्ञानविकासाय प्रयतमानाः ते विकासमार्गे अग्रगामिनः भवन्ति। अहङ्कारगर्वादिकं तेषु लेशतः अपि न भवति।
"वयं बहुधा पठामः, उपदेशान् शृणुमः, अनुभवान् प्राप्नुमः च। एतेन प्रकारेण प्राप्तं ज्ञानम् अस्माकम् आचरणे अपि परिदृश्येत। ज्ञानविस्तारानुगुणं स्वस्य विकासं सम्पादयन्तः वयं जीवने वृद्धिं प्राप्नुयाम। तदा एव जीवनस्य सार्थक्यम्" इति अवदत् गुरुः।