१७) परोपकारचक्रम्।

लण्डन्-नगरे घटिता घटना एषा । कश्चन बालक: आकटिप्रदेशं पङ्के निमग्नः आसीत् । तत् दृष्ट्वा कश्चन सज्जनः तं रक्षितुं प्रयत्नं कृतवान् । पङ्कात् बहिः निष्कास्य स्नानादिकं कारयित्वा सः तं बालकं ततः प्रेषितवान् । 

परेद्यवि किञ्चन महत् कार्-यानं बालरक्षकस्य फ्लेमिङ्गमहोदयस्य गृहस्य पुरतः आगत्य स्थितम् । कार्-यानेन आगतः रॅण्डोल्फ् चर्चिलवर्यः कृतज्ञताम् आविष्कृत्य "भवान् ह्यः यं बालकं पङ्कात् रक्षितवान्, सः मम पुत्रः । भवते किं ददामि ?" इति पृष्टवान् ।

"मया तु तत् कार्यं मानवताबुद्ध्या कृतम्, न तु प्रतिफलापेक्षया" इति पारितोषिकादिकं निराकुर्वन् नम्रतया अवदत् फ्लेमिङ्गः।

तावता कश्चन बालः गृहात् बहिः आगच्छन् चर्चिल्-महोदयेन दृष्टः । एषः कः इति पृष्टे - 'मम पुत्रः' इति फ्लेमिङ्गेन परिचयः कारितः । चर्चिल्-वर्यः अवदत् 'एषः बालकः अपि मम पुत्रेण सह पठिष्यति । शिक्षणस्य समग्रव्यवस्थाम् अहं करिष्यामि' इति। तयोः द्वयोः अपि वैद्यकीयं शिक्षणं प्रसिद्धे महाविद्यालये सम्पन्नम्।

फ्लेमिङ्गपुत्रः अग्रे 'अलेग्झाण्डर् फ्लेमिङ्ग'- नाम्ना प्रसिद्धः जातः । १९२८ तमे वर्षे सः 'पेनिसिलीन् 'नामकं प्रातिजैविकम् औषधम् आविष्कृतवान् ।

चर्चिल्-पुत्रः कदाचित् न्यूमोनियारोगेण ग्रस्तः अभवत् । पेनिसिलीन्-औषधेन एव सः प्राणापायात् रक्षितः । सः अग्रे विन्स्टन्-चर्चिल्-नाम्ना ख्यातः सन् १९४० तः १९५५ पर्यन्तं ब्रिटैनदेशस्य प्रधानमन्त्रिरूपेण कार्यं कृतवान् ।

१९४५ तमे वर्षे पेनिसिलीन्-अन्वेषणार्थम् अलेग्सेण्डफ्लेमिङ्गः नोबल्-प्रशस्त्या सम्मानितः। औषधोद्योगिनः तस्य औषधस्य स्वाम्याधिकारं स्वीकर्तुम् इष्टवन्तः। तदर्थं कोटिशः रूप्यकाणि दातुं ते सज्जाः आसन् । किन्तु "लोकोपकारार्थं निर्मितस्य अस्य औषधस्य निमित्तं धनं स्वीकर्तुं न इच्छामि' इति उक्त्त्वा धनस्वीकरणं निराकृतवान् फ्लेमिङ्गः ।

द्वितीयमहायुद्धे अनेन औषधेन उपविंशलक्षजनाः रक्षणं प्राप्तवन्तः ।