भगवान् श्रीकृष्णः तदीयवेणुना एव सुप्रसिद्धः। बाल्ये यावत् सः नन्दगोपस्य गृहे आसीत् तावत् वेणुः तस्य हस्ते सदा भवति स्म एव। मथुरानगरं प्रति आगमनस्य अनन्तरं तस्य हस्ते वंशी न अदृश्यत । तदा कृष्णः उत्तमः राजनीतिनेता। तथापि चित्रेषु सः तु वेणुहस्तः एव दृश्यते सर्वदा।
वंशीवादने गोपालेषु कथम् आसक्तिः उत्पन्ना इति विषये ज्येष्ठानां मुखतः श्रुता घटना एषा।
यदा गोपबालाः कृष्णबलरामाभ्यां सह चारणाय वत्सान् वनं प्रति नयन्ति स्म, तदा एकत्र वंशानां समूहः अदृश्यत। तत्र गतवन्तः गोवत्साः किमपि शृण्वन्तः तत्रैव स्थितवन्तः। कथमपि ते न प्रतिनिवर्तन्ते स्म, अथवा अग्रे न गच्छन्ति स्म। गोपबालाः तत्र आगत्य वत्सान् यत् आकर्षति तत् किम् इति गवेषणम् आरब्धवन्तः।
वंशानां मध्ये मध्ये पक्षिणः रन्ध्रं कृतवन्तः इत्यंशः तैः लक्षितः। तस्मात् रन्ध्रात् निर्गच्छन् वायुः सुयूँ, सु..... यूँ इति मधुरं शब्दं करोति स्म। तं शब्दं शृण्वन्तः गोवत्साः आकृष्टाः सन्तः तत्रैव स्थितवन्तः आसन्।
गोपबालाः अपि तेन शब्देन आकृष्टाः। ते वंशं छित्त्वा तन्मध्ये लघ्वाकाराणि रन्ध्राणि कृत्वा किञ्चन वाद्यं सज्जीकृतवन्तः। ततः मुखवायुना यदा तत् वादितं तदा सुमधुरः ध्वनिः ततः समुत्पन्नः। ते शाद्वले उपविश्य वेणुवादनम् आरब्धवन्तः। ततः आकृष्टाः गोवत्साः तान् अनुसृत्य आगमनम् आरब्धवन्तः।
एवं ते गोपालकाः एव प्रथमवंशीवादकाः अभवन्। एतत् एव वंशीवाद्यस्य मूलम्।
कृष्णः गोपकुले प्रवृद्धः इत्यतः सहजतया तस्य हस्ते अपि वेणुः अतिष्ठत्। कृष्णकारणतः वेणोः अनितरसाधारणी ख्यातिः अपि जाता।