श्रीरामचन्द्रस्य वनवासकाले प्रवृत्ता घटना एषा । कदाचित् श्रीरामः केनचित् कारणेन कुटीरात् बहिः गतवान् आसीत् । लक्ष्मणः च वृक्षस्य अधः उपविश्य श्रीराम- चिन्तने मग्नः आसीत् ।
तदा सीता भृशं निद्रया आवृता जाता । परन्तु सा शिरः स्थापयितुम् उपधानत्वेन न किमपि दृष्टवती । तदा ध्यान-मग्नः लक्ष्मणः तया अवलोकितः । तस्य अङ्के शिरः स्थापयित्वा निद्राग्रस्ता सा शयितवती ।
किञ्चिदनन्तरं श्रीरामः तत्र आगतः । तत्रत्यं दृश्यं पश्यता रामेण अन्तर्ज्ञानेन वस्तुस्थितिः अवगता । यद्यपि श्रीरामः लक्ष्मणसीतयोः पावित्र्य-विषये पूर्णतया जानाति स्म, तथापि तेन निश्चितम् - लक्ष्मणस्य परीक्षा करणीया इति । अतः सः शुकरूपं धृत्वा कञ्चित् वृक्षम् आरुह्य उपविश्य मनुष्यस्वरेण अवदत् --
पुष्पं दृष्ट्वा, फलं दृष्ट्वा, दृष्ट्वा स्त्रीणां च यौवनम्। त्रीणि रत्नानि दृष्ट्वा कस्य नो चलते मनः।।
एतत् श्रुत्वा जागरितः लक्ष्मणः अवगतवान् यत् अयं न कश्चन सामान्यः शुकः, किन्तु इन्द्रादिषु देवः कश्चन शुकरूपेण वदति इति । अतः सः प्रत्युत्तरितवान् --
मनो धावति सर्वत्र, मदोन्मत्तगजेन्द्रवत् ।ज्ञानाङ्कुशे समुत्पन्ने, तन्नो चलति मे मनः ।।
एतेन वचनेन समाहितः अपि शुकदेहस्थः श्रीरामः पुनः अवदत्--
जानुस्थिता परस्त्री च, कस्य नो चलते मनः।।
तदा लक्ष्मणः अपि झटिति पुनः अवदत् --
उभाभ्यां यश्च सम्भूतस्तस्य नो चलते मनः।।
एतत् श्रुत्वा नितरां सन्तुष्टः श्रीरामः मूलरूपेण आविर्भूय लक्ष्मणाय आशीर्वचनानि प्रदत्तवान् ।