२०) सूक्ष्मदृष्टि:।

 पुरा कश्चन गुरुः किञ्चन गुरुकुलं चालयति स्म । कदाचित् राजा तद् गुरुकुलम् आगत्य अवदत् "गुरुवर्य ! प्रशासनबलवर्धनाय कस्यचित् तीक्ष्णमतेः आवश्यकता अनुभूयते । तदर्थं भवतः शिष्येषु समर्थः कश्चन सूच्यताम्" इति ।

गुरुकुले योग्यतावन्तः त्रयः शिष्याः आसन् । तदर्थं गुरुणा काचित् परीक्षा आयोजिता । त्रीन् अपि आहूय गुरुः अवदत् - "भवद्भ्यः प्रत्येकं घृतपूर्णघटं ददामि । यस्मिन् जनपशुशकटादयः अटन्ति तस्मिन् मुख्यमार्गे सः घटः स्थापनीयः । परन्तु घटस्य कापि हानिः न भवेत् । घटस्थं घृतम् अपि तथैव रक्षितं स्यात् । सायम् अभग्नः सः घृतघटः गुरुकुलं प्रति आनेतव्यः" इति ।

गुरोः आज्ञानुसारं त्रयः अपि शिष्याः घृतघटैः सह आश्रमात् निर्गताः । सायङ्कालः सन्निहितः । त्रयः अपि आश्रमं प्रत्यागताः ।

प्रथमः शिष्यः अवदत् - "गुरुवर्य ! भवता यथा उक्तं तथैव कृतवान् अहम् । आ प्रातःकालात् सायङ्कालपर्यन्तं मुख्यमार्गे तिष्ठन् अहं घटं रक्षामि स्म । किन्तु काचित् धेनुः वेगेन आगत्य पादेन घटं प्राहरत् । ततः घट: पतितः" इति ।

पूर्णघटेन सह आगतः द्वितीयः शिष्यः उक्तवान् - "गुरुवर्य ! यदि मार्गे घटः स्थाप्येत तर्हि निश्चयेन भग्नः भविष्यति इति मत्वा अहं घटं गृहं नीत्वा अरक्षम् । अधुना अत्र आनीतवान् अस्मि" इति ।

"त्वं मम आदेशं दोषपूर्णं भावितवान्" गुरुः द्वितीयं शिष्यम् अवदत् ।

ततः तृतीयः शिष्यः विनयेन घृतपूर्णघटं गुरोः पुरतः स्थापितवान् । “मम आदेशः

दोषपूर्णः इति मत्वा त्वमपि मम घटं तथैव आनीतवान् किम् ?" गुरुः अपृच्छत् ।

"नैव गुरुवर्य ! आदेशस्य पूर्णपरिपालनं मया कृतम् । यथा भवता उक्तं तथा घटं क्षणं यावत् मार्गमध्ये संस्थाप्य अहं तं गृहं नीतवान् । सायङ्कालपर्यन्तं मम अध्ययनं समाप्य पुनः गुरुकुलं प्रति आनीतवान् अस्मि ।"

एतत् उत्तरं श्रुत्वा सन्तुष्टः गुरुः - "मम विवक्षा का इति त्वं सम्यक्तया अवगत्य मम आदेशस्य परिपालनं कृतवान्” इति उक्त्वा तृतीयशिष्यं राज्ञः समीपं प्रेषितवान् ।