जीवनतत्त्वम्।

कदाचित् कश्चन शिष्यः गुरुं पृष्टवान् - "गुरुवर्य ! जीवने कथं व्यवहर्तव्यं मया ? अयं प्रश्नः मां तदा तदा बाधते" इति।

क्षणं यावत् तस्यैव मुखं निर्निमेषं दृष्ट्वा गुरुः अवदत् "वत्स ! परेषां कष्टम् अवगत्य तस्य निवारणाय प्रयासः करणीयः । अस्मादृशानां जीवनम् एतदर्थमेव स्यात् ।"

"परेषां कष्टं कथं ज्ञायेत ? परिचितपूर्वाणां कष्टं कदाचित् ज्ञायेत । किन्तु ये इतःपूर्वं न दृष्टाः तेषां स्थितेः अवगमनं क्लेशाय एव ननु?" शिष्यः अवदत् ।

गुरुः मन्दहासं प्रकटयन् उत्थाय दर्पणसमीपं गत्वा दर्पणस्य पुरतः शिष्यं स्थापयित्वा अवदत् "अत्र किं पश्यसि ? यत् दृष्टं तत् वद ।"

"अहम् आत्मनः प्रतिबिम्बमेव दर्पणे पश्यामि ।" दर्पणे दृष्ट्वा शिष्यः अवदत् ।

ततः गुरुः शिष्यं काच-कवाटयुक्तस्य वातायनस्य पुरतः स्थापयित्वा अवदत् -"इदानीं यत् पश्यसि तत् विवृणु" इति ।

वातायनात् दृष्ट्वा शिष्यः अवदत् - "मार्गे जनाः सञ्चरन्ति । कश्चन भिक्षुकः याचते । कश्चित् निर्धनः सपरिवारं याति । केचन मन्दिरं प्रति गमनागमनं कुर्वन्तः दृश्यन्ते । आपणेषु क्रयविक्रयादिकं प्रवर्तते । काश्चन धेनवः च मार्गपार्श्वे तृणं चरन्ति...।"

"त्वया दर्पणे वातायनात् च दृष्टम् । उभयविधात् अपि दर्शनात् समानं फलं तु न प्राप्तम् । अस्य फलभेदस्य कारणं किम् ?"

"तत् तु सरलम् । दर्पणस्य पृष्ठतः पारद पटललेपः अस्ति । अतः एव दर्पणे दर्शनात् अपि तत्पृष्ठस्थं किमपि न दृश्यते । वातायनस्थे काचके तु पारदलेपः नास्ति । अतः सर्वं दृश्यते ।"

"उभयमपि काचकनिर्मितमेव चेदपि फले महान् भेदः । एवं ननु ? एवमेव अस्माकं जीवने अपि।अस्मदीयनेत्रयोः पृष्ठतः स्वार्थपटलः यदि न भवेत् तर्हि अस्माभिः जनानां कष्टानि दृश्येरन् । स्वार्थपटले सति तु तानि न दृश्येरन् । एतत् एव जीवनतत्त्वम् । किन्तु स्वार्थपटलस्य अपनयनाय प्रयासः करणीयः भवति । प्रयासेन मनसः संस्कारः भवति । ततश्च स्वार्थपटलः अपगच्छति ।"